04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 30:

एते सर्वे प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र '''धातोः''', '''प्रत्ययः''' इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत्‌ आरम्भे तिङ्‌-प्रत्ययाः सर्वे सार्वधातुकाः, '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम्‌ अवलोकयाम— '''धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌''' | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत्‌ प्रत्ययः धातुतः विहितः स्यात्‌ | (धातुतः विहितः नास्ति चेत्‌, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्‌, तिङ्‌ चेत्‌ सार्वधातुकम्‌ इति सामान्यतया निश्चितम्‌ | लिट्लकारे आशीर्लिङ्लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति | परन्तु कृत्‌ चेत्‌, किमपि नैश्चित्यं नास्ति‌ यत्‌ सार्वधातुकं भवेत्‌; कृत्‌ शित्‌ अस्ति चेदेव सार्वधातुकः | कृत्‌-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्‌, चानश्‌, शानन्‌, खश्‌, श, एश्‌, शध्यै, शधैन्‌ इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच्‌ च | अवशिष्टाः सर्वे कृत्‌ प्रत्ययाः आर्धधातुकाः, '''आर्धधातुकं शेषः''' (३.४.११४) इति सूत्रेण |

Line 86:

१) प्रथमतया विकरणप्रत्ययभेदेन धातुगणम्‌ अनुसृत्य शत्रन्तपदे रूपभेदः | शप्‌ इत्यनेन "अ" संयुज्यते, श्यन्‌ इत्यनेन "य" संयुज्यते, श्नु इत्यनेन "नु" संयुज्यते, श्नम्‌ इत्यनेन "न" संयुज्यते, उ इत्यनेन "उ" संयुज्यते, श्ना इत्यनेन "ना" संयुज्यते | अत्र विकरणप्रत्ययानां स्थूलाकृत्तिस्थूलाकृति-भेदेन प्रभावः | अ, य, नु, न, उ, ना इत्येषाम्‌ रूपभेदेन शत्रन्तपदे रूपभेदः भविष्यति— प'''ठ'''न्‌, न'''श्य'''न्‌, आ'''प्नुव'''न्‌, भि'''न्द'''न्‌, कु'''र्व'''न्‌, क्री'''ण'''न्‌ |

Line 99:
b) विकरणप्रत्ययस्य लोपे सति शतृ-प्रत्ययेन इयङ्‌/उवङ्‌ आदेशः— अदादिगणे जुहोत्यादिगणे च | ब्रू + अत्‌ → शपः लुक्‌ (लोपः) → ब्रू + अत्‌ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उ/ऊकारान्तधातुरूपि-अङ्गस्य उ/ऊकारस्य स्थाने उवङ्‌ आदेशः → ब्र्र् + उव + अत्‌ → ब्रुव्‌ + अत्‌ → ब्रुवत्‌ (पुंसि ब्रुवन्‌) | जुहोत्यदौ अपि तथा; अत्र ह्री-धातुः इकारान्तः अतः इयङ्— ह्री → जिह्री + अत्‌ → जिह्र् + इय्‌ + अत्‌ → जिह्रियत्‌

c) विकरणप्रत्ययस्य श्लौ अङ्गस्य द्वित्वम्— जुहोत्यादिगणे | दा‌ + अत्‌ → दा + श्लु + अत्‌ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → दादा + अत्‌ → '''ह्रस्वः''' इत्यनेन अभ्यासस्य ह्रस्वत्वम्‌ → ददा + अत्‌ → → '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन श्ना इत्येतस्य अभ्यस्तानां च अङ्गानाम् आकारस्य लोपो भवति सार्वधातुके क्ङिति परतः → → ददत्‌

d) विकरणप्रत्ययस्य अपित्वात्‌ गुणनिषेधः— दिवादिगणे, स्वादिगणे, तुदादिगणे, क्र्यादिगणे | चि + श्नु + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्त-धातोः इकः गुणः → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → चिनु + अत्‌ → चिन्वत्‌ (पुंसि चिन्वन्‌)
Line 105:
e) तनादिगणे कृ + अत्‌ → '''तनादिकृञ्भ्यः उः''' (३.१.७९) → इत्यनेन शपं प्रबाध्य उ → कृ + उ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' ७.३.८४ इत्यनेन इगन्त-धातोः इकः गुणः → कर् + उ + अत्‌ → करु + अत्‌ → '''अत उत्सार्वधातुके''' (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु + अत्‌ → यण्‌-सन्धिः → कुर्वत्‌ (पुंसि कुर्वन्‌)

f) रुधादिगणे एकमेव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं भवति, तच्च केवलं यत्र श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते | श्नम्‌-प्रत्ययात् परं स्थितस्य नकारस्य लोपः, '''श्नान्नलोपः''' (६.४.२३) इत्येनेनइत्यनेन सूत्रेण | यथा उन्द्‌ + श्नम्‌ + अत्‌ → उनन्द्‌ + अत्‌ | 'उनन्द्‌' इत्यस्मिन्‌ श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते अतः '''श्नान्नलोपः''' इत्यनेन श्नम्‌-प्रत्ययात्‌ उत्तरस्य नकारस्य लोपः | उनन्द्‌ + अत्‌ → उनद्‌ + अत्‌ → अपित्सु सार्वधातुकलकारेषु श्नम्‌-प्रत्यये स्थितस्य अकारस्य लोपो भवति '''श्नसोरल्लोपः''' (६.४.१११) इत्येनेनइत्यनेन सूत्रेण → उन्द्‌ + अत्‌ → वर्णमेलने → उन्दत्‌ (पुंसि उन्दन्‌)

Line 117:

आर्धधातुक-कृत्‌-प्रत्ययेषु परेषु, धातुः यस्मिन्‌ कस्मिनपिकस्मिन्नपि गणे भवतु नाम, गणं निमित्तीकृत्य रूपभेदः न भवति | ण्वुल्‌ इति प्रत्ययं पश्येम— अयं प्रत्ययः धातुभ्यः विधीयते किन्तु न तिङ्‌ न वा शित्‌, अतः आर्धधातुकः | '''चुटू''' इत्यनेन णकारस्य इत्‌-संज्ञा, '''हलन्त्यम्‌''' इत्यनेन लकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन तयोः लोपः → वु अवशिष्यते | '''युवोरनाकौ''' (७.१.१) = अङ्गात्‌ उत्तरस्य यु, वु इत्यनयोः स्थाने क्रमशः अन अक चादेशौ भवतः | अतः वु-स्थाने अक-आदेशः सर्वत्र | यथा—

Line 238:

'''नेड्‌ वशि कृति''' (७.२.८) = कृत्‌-प्रत्ययस्य आदौ वश्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो न भवति | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''वशि कृति''' इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश्‌ स्यात्‌) | वश्‌-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्‌, ष्‌, स्‌, ह्‌ चेत्‌, इडानुकूलःइडनुकूलः | न अव्ययपदम्‌, इट्‌ प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् न इट्‌ वशि कृति''' |

सारांशः एवं यत्‌ आर्धधतुक-कृत्‌-प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः सदस्यः, श्‌, ष्‌, स्‌, ह्‌ च इत्येषु अन्यतमः चेत्‌, सः प्रत्ययः इडानुकूलःइडनुकूलः भवति | धातुः अपि सेट्‌ चेत्‌, सामान्यतया इडागमो भविष्यति |

page_and_link_managers, Administrators
5,097

edits