page_and_link_managers, Administrators
5,094
edits
Bina Radia (talk | contribs) No edit summary |
No edit summary |

(29 intermediate revisions by 5 users not shown) | |||
Line 1:
{{DISPLAYTITLE:07 - अष्टाध्याय्यां सूत्राणां बलाबलम्}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि -

|2017 वर्गः

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/79_aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2017-05-24.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2017-05-24]

|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/80_aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2017-05-31.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2017-05-31]

|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/81_aShTAdhyAyyAM_sUtrANAM_balAbalam_III--antarangam-1_2017-06-07.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_III--antarangam-1_2017-06-07]

|४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/82_aShTAdhyAyyAM_sUtrANAM_balAbalam_IV--antarangam-2---arthanimittakatvam_2017-06-14.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_IV--antarangam-2---arthanimittakatvam_2017-06-14]

|५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/83_aShTAdhyAyyAM_sUtrANAM_balAbalam_V--antarangam-3---arthanimittakatvam__pUrvopasthitanimittakatvam_2017-06-21.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_V--antarangam-3---arthanimittakatvam_+_pUrvopasthitanimittakatvam_2017-06-21]

|६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/84_aShTAdhyAyyAM_sUtrANAM_balAbalam_VI--antarangam-4---aparanimittakam__apavAdaH__pUrvatrAsiddham_2017-06-28.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_VI--antarangam-4---aparanimittakam_+_apavAdaH_+_pUrvatrAsiddham_2017-06-28]

|७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/85_aShTAdhyAyyAM_sUtrANAM_balAbalam_VII--pUrvatrAsiddham__balAbala-abhyAsaH---shaknu__anti_2017-07-05.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_VII--pUrvatrAsiddham_+_balAbala-abhyAsaH---shaknu_+_anti_2017-07-05]

|८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/86_sUtrANAM_balAbalam_VIII--abhyAsaH---cinu__anti__kuru__anti_2017-07-12.mp3 sUtrANAM_balAbalam_VIII--abhyAsaH---cinu_+_anti_&_kuru_+_anti_2017-07-12]

|2014 वर्गः

|१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/06_aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2014-07-02.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2014-07-02]

|२) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/07_aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2014-07-09.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2014-07-09]

|३) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/08_aShTAdhyAyyAM_sUtrANAM_balAbalam_III_2014-07-16.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_III_2014-07-16]

|४) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/09_aShTAdhyAyyAM_sUtrANAM_balAbalam_IV_2014-07-23.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_IV_2014-07-23]

Line 39 ⟶ 42:
प्रश्नः समीचीन एव | यथा, किमर्थं समाससम्बद्धानि सूत्राणि ग्रन्थस्य आरम्भे, किञ्च सन्धिसम्बद्धानि सूत्राणि ग्रन्थस्य अन्ते ? किमर्थं प्रत्ययेषु सनादयः प्रत्ययाः प्रथमाः ? यः शिष्यः अस्ति, तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति | नाम अष्टाध्याय्याः बहिः तादृशः बाह्यः तर्कः न दृश्यते यत् अध्येतॄणां कृते लाभदायकः स्यात् |

Line 46 ⟶ 51:
अनुवृत्ति-विषये अस्माकं परिचयस्तु जातः; अधुना सूत्राणां बलाबल-प्रसङ्गे वक्तव्यम् | यदा किञ्चनपदं निर्मीयते, तदा निर्माणार्थं सोपानानि सन्ति | एकैकस्मिन् सोपाने कार्यं वर्तते | केन क्रमेण इदं सर्वं स्यात् अपि च कस्मिंश्चित् अवसरे किं सूत्रम् आगत्य कार्यं कुर्यात् इति निर्णेतुं सूत्राणां बलाबलं भवति | एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः; अथवा बहूनां सूत्राणां प्रसक्तिः | तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत् ? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना | बलाबलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयम् | इमे द्वे सूत्रे द्वे परिभाषे च, अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति |

'''१.''' महाभाष्यवाक्यम् - '''अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः''' | लब्धः अवकाशः यस्य तत्, लब्धावकाशं सूत्रम् | यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे '''तुल्यबले''' इत्युच्यते | अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः, सः '''तुल्यबलविरोधः''' इत्युच्यते |

यथा—

'''सुपि च''' (७.३.१०२) = अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यञादि-सुप्-प्रत्यये परे | अनुवृत्ति-सहितसूत्रं— '''यञि सुपि च अङ्गस्य अतः दीर्घः''' | वृक्ष + भ्याम् → वृक्ष् + आ + भ्याम् → वृक्षाभ्याम् |
Line 66 ⟶ 69:
वृक्ष + भ्यस् = अत्र किं भवति इति पश्याम | भ्यस् यञादि-सुप्-प्रत्ययः अतः '''सुपि च''' इत्यस्य प्रसक्तिरस्ति | भ्यस् झलादि-बहुवचनार्थ-सुप्-प्रत्ययः अतः '''बहुवचने झल्येत्''' इत्यस्य प्रसक्तिरस्ति | द्वेऽपि सूत्रे अन्यत्रलब्धावकाशे अपि च तयोः अधुना एकत्रप्राप्तिः वृक्ष + भ्यस् इत्यस्यां स्थितौ— अतः अत्र '''तुल्यबलविरोधः''' वर्तते | द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुं अग्रे पठेम |

प्रथमम् एकम् उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिरस्ति, परन्तु '''तुल्यबलविरोधः''' नास्ति | अत्र + एव = अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं सिध्यति इति पश्येम | अत्र द्वयोः सूत्रयोः प्रसक्तिरस्ति— '''आद्गुणः''' च '''वृद्धिरेचि''' च |
Line 76 ⟶ 79:
'''वृद्धिरेचि''' (६.१.८८) = अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात् | वृद्धिः प्रथमान्तम्, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''आद्गुणः''' (६.१.८७) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्''' |

Line 102 ⟶ 105:

'''सुपि च''' - '''बहुवचने झल्येत्''' इति एका स्थितिः; '''आद्गुणः''' - '''वृद्धिरेचि''' इति अन्या स्थितिः | पूर्वस्यां स्थित्यां '''विप्रतिषेधे परं कार्यम्''' इत्यनेन बलाबलस्य निर्णयः क्रियते; उत्तरस्यां स्थित्यां सामान्यविशेषत्वम् (अपवादभूतत्वम्) इत्यनेन बलाबलस्य निर्णयः क्रियते | अधः चित्रद्वयम् अस्ति, येन अस्माकं चित्रा-भगिन्या विप्रतिषेधः अपवादः चेत्यनयोर्भेदः सुन्दररीत्या निरूप्यते | अवश्यं दृश्यताम् ! अधोभागे तयोः pdf अपि प्राप्यते, download इत्यर्थम् | चित्रा-भगिनि, धन्यवादाः !
[[File:04-07-अष्टाध्याय्यां सूत्राणां बलाबलम् slide 1.jpg|center|thumb|850x850px|alt=|
Line 111 ⟶ 115:
अधः एका परिभाषा अस्ति यया बुद्धं यत् अपवादः बलीयान् सामान्यसूत्रस्य अपेक्षया | यत्र अपवादः अस्ति, तत्र सूत्रसङ्ख्यायाः किमपि महत्वं नास्ति | अपवादभूतसूत्रस्य सूत्रसङ्ख्या या काऽपि भवतु नाम, तस्य बलं भवति एव | यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते, तत्र इयं परिभाषा कार्यं करोति | परिभाषाः अत्यन्तं

Line 122 ⟶ 126:
एतावता पूर्व-पर इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम् | अधुना '''नित्य''', '''अन्तरङ्ग''', '''अपवाद''' इति प्रसङ्गेषु परिशीलयाम |

'''a)''' नित्यम् | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु | द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता; तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत्, तस्यां दशायां यत् अपरं सूत्रम् अस्ति, तत् नित्यसूत्रम् इत्युच्यते | नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्, अनन्तरमपि अस्ति | यदा किञ्चन सूत्रं नित्यम् अस्ति, तदा तत् सूत्रं प्रथममेव प्रवर्तनीयम् | नित्यम् इत्यस्मात् कारणात् बलवत् | अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सत्यपि पूर्वम् आयाति |

Line 142 ⟶ 146:
अत्र तुद्-धातोः '''वर्तमाने लट्''' (३.२.१२३) इत्यनेन लट् कर्तव्यः | तदा लटः स्थाने तिबादयः भवन्ति | एकवचनविवक्षायां तिप्-प्रत्ययः | तुद् + ति | इदानीं ति-प्रत्ययः '''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति अनुवर्तमाने '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः प्राप्यते | तुद् + ति → '''पुगन्तलघूपधस्य च''' → तोद् + ति |

श-प्रत्यये अकृते गुणः भवति किन्तु श-प्रत्यये कृते गुणः न भवति— तदर्थं गुणः अनित्यः | श-प्रत्ययस्य तु गुणे कृतेऽपि अकृतेऽपि प्राप्तिरस्ति | नाम गुणः क्रियतां, तुद् + ति → तोद् + ति → तदानीमपि '''तुदादिभ्यः शः''' (३.१.७७) इत्यनेन '''श'''-विकरणप्रत्ययः विहितः → तोद् + श + ति | गुणे कृतेऽपि विकरणः प्राप्यते; गुणे अकृतेऽपि विकरणः प्राप्यते | कृताकृतप्रसङ्गे नित्यम्, अतः '''तुदादिभ्यः शः''' (३.१.७७) नित्यसूत्रम् | यद्यपि '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य अपेक्षया पूर्वसूत्रं, तथापि तस्य ('''तुदादिभ्यः शः''' इत्यस्य) कार्यं पूर्वं प्रवर्तते |

'''b)''' अन्तरङ्गम् | अन्तरङ्गं बहुविधम्, अतः महान् प्रपञ्चः | अत्र प्रकारद्वयं प्रदर्श्यते | अस्मिन् प्रसङ्गे 'अङ्गम्' इत्यनेन न 'अवयवः', न वा '''यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्''' (१.४.१३) इति रीत्या अङ्गकार्यस्य अङ्गम्, अपि तु अत्र 'अङ्गम्' इत्युक्ते 'निमित्तम्' |

परिभाषेन्दुशेखरग्रन्थे लिख्यते— '''नित्यादप्यन्तरङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात्''' | नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत् | कारणम् अस्ति यत् '''अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात्''' | अतः 'बलवत्' इति कथनस्य स्थाने बहिरङ्गशास्त्रम् 'असिद्धम्' इति कथनम् उचितम् | अत्र 'अन्तरङ्गे' इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति— द्वयोः सूत्रयोः समकालप्राप्त्यवसरे, अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति | अत्र '<nowiki/>'''नित्यादप्यन्तरङ्गं बलीयः'''<nowiki/>' इत्यस्मिन् 'अपि'-शब्देन परशास्त्रस्य ग्रहणम् | अतः किमपि 'ब' नामकं सूत्रं, 'अ' नामकं सूत्रं प्रति बहिरङ्गं चेत्, तेन 'अ' इति अन्तरङ्गसूत्रेण इदं 'ब'-सूत्रम् असिद्धं यद्यपि 'अ'-सूत्रं प्रति 'ब'-सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात् | इत्थञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत्, तदपि असिद्धं भवति | अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति, '''असिद्धं बहिरङ्गमन्तरङ्गे''' [परिभाषा ५०] |

ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते— '''अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् | एवं तदीयनिमित्तसमुदायाद् बहिर्भूताङ्गकं बहिरङ्गम्''' | अन्तरङ्ग-शब्दे भागद्वयम्, अन्तर् + अङ्गम् | अन्तर् इत्युक्ते 'मध्ये' | कस्य मध्ये ? बहिरङ्गशास्त्रीय-निमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम् | अनया रीत्या अन्तरङ्गशास्त्रीय-निमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम् |

उपर्युक्तं यत् अन्तरङ्गं बहुविधम्; अत्र प्रकारद्वयं प्रदर्श्यते |

१. पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम्

पूर्वोपस्थितनिमित्तकस्याप्यन्तरङ्गत्वात् | यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते, तदप्यन्तरङ्गम् |

अस्य बोधनार्थं दृष्टान्तो दीयते—

'सिव् + न' इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिर्भवति— '''लोपो व्योर्वलि''' (६.१.६६), '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''पुगन्तलघूपधस्य च''' (७.३.८६) | त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम् |

'''लोपो व्योर्वलि''' (६.१.६६) = वल्-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व् च य् च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''व्योः लोपः वलि''' |
Line 191 ⟶ 195:
'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''च्छ्वोः अङ्गस्य शूड्''' '''क्विझलोः''' '''अनुनासिके च''' |

'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |
Line 205 ⟶ 209:

'''लोपो व्योर्वलि''' (६.१.६६) इत्यस्य

ततः अग्रे चिन्तनीयं यत् '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनयोर्मध्ये किं भवति | द्वयोः अपि अन्यत्र लब्धावकाशः, द्वयमपि अङ्गकार्यञ्च | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य परत्वात् बलवत् स्यात् | 'सिव् + न' → '''पुगन्तलघूपधस्य च''' (७.३.८६) → सेव् + न |

अधुना अस्मिन् विषये इतोऽपि चिन्तनीयम् | 'सिव् + न' इति स्थितौ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्य कति निमित्तानि ? वकारान्तम् अङ्गं स्यात्, अपि च अनुनासिकादि-प्रत्ययः परः स्यात् | अतः अस्य सूत्रस्य निमित्तद्वयं भवति | तदा अत्रैव 'सिव् + न' इति स्थितौ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य कति निमित्तानि ? अङ्गम्, इक्-लक्षणा, लघ्वी, उपधा, आर्धधातुक-प्रत्ययः इत्यनेन पञ्च निमित्तानि | नाम पञ्चसंज्ञाः अपेक्षिताः— अङ्गसंज्ञा, इक्-संज्ञा, लघुसंज्ञा, उपधा-संज्ञा, आर्धधातुकसंज्ञा | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य अपेक्षया '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्य अल्पनिमित्तकत्वं भवति, तदर्थम् अनया दृष्ट्या '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) अन्तरङ्गं, '''पुगन्तलघूपधस्य च''' (७.३.८६) च बहिरङ्गम् | इति कैयटः नाम्ना प्राचीनावैयाकरणस्य मतम् |

अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किमिति निश्चेतव्यम् | अर्थकृतनिमित्तं वा, संज्ञाकृतनिमित्तं वा, शब्दकृतनिमित्तं वा इति ज्ञेयम् | अस्मिन् विषये च महती चर्चा भवति | अत्र अन्ततो गत्वा नागेशः इति नवीनवैयाकरणस्य मतम् अद्यत्वे स्वीक्रियते | तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव, इति अङ्गीकारः | नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्य अपि | भाष्यकारस्य चिन्तनं किं, किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति |
Line 220 ⟶ 224:
सारांशः अत्र उच्यते | व्याकरणशास्त्रं शब्दशास्त्रमेव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यम् | शब्दः नाम कः ? वर्णः पदं चेति; यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति | अर्थः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्ना | शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति— अतः अर्थः शब्दस्य विशेषणं; शब्दः एव विशेष्यः | स च शब्दः व्याकरणस्य प्रमुखविषयः | तदर्थम् '''असिद्धं बहिरङ्गमन्तरङ्गे''' इति परिभाषायाम् अङ्ग-शब्देन शब्दरूपि निमित्तस्य ग्रहणम् | तात्पर्यम् एवं यत् अन्तरङ्गं, बहिरङ्गम् इत्यनयोः 'अङ्ग'-शब्देन शब्दरूपि निमित्तं स्वीक्रियते |

उदाहरणार्थम् अत्र सिव् + न इति स्थितौ अङ्गसम्बन्धित्वम्, इक्त्वं, लघुत्वम्, उपधात्वम्, एतत् सर्वं संज्ञानां भेदेऽपि अपेक्षमाणः शब्दः तु 'सिव्' इत्येव | अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य | शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्थः शब्दः एव निमित्तपदेन गृह्यते | न तु अर्थः संज्ञा वा |

दृष्टान्ते '''इको यणचि''' (६.१.७६) इति सूत्रे '''तस्मिन्निति निर्दिष्टे पूर्वस्य''' (१.१.६६) इत्यनेन अजव्यवहितपूर्वस्य इकः यणादेशो भवति | 'अचि' इति सप्तम्याम् अस्ति | अनेन शब्दरूपनिमित्तमेव ग्राह्यं, न तु संज्ञारूपनिमित्तम् | संज्ञा न शब्दः | संज्ञायाः इदमेव कार्यं, सज्ञिनं विशेषयति | 'अच्' इति संज्ञा, तत्र किन्तु 'अच्' इति संज्ञा-विशिष्ट-संज्ञी अपेक्षते | 'अपि + अस्ति → अप्यस्ति' इत्यस्मिन् अकारः संज्ञी | 'इति + उपस्थितम् → इत्युपस्थितम्' इत्यस्मिन् उकारः संज्ञी | तस्य च उकारस्य संज्ञा 'अच्' | अतः 'अचि' इति पदं संज्ञिपदं, न तु संज्ञापदम् | अत्र संज्ञी उकारः निमित्ततया आश्रितः, न तु संज्ञा | अयम् उकारः ''शब्दः'' | सूत्रेषु सप्तम्यन्ततया वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते, स च शब्दः | न तु संज्ञा वा अर्थो वा |

संज्ञा इत्यस्य उदाहरणं दृष्टम् | अधुना अर्थस्य | स्त्रीलिङ्गे त्रि-शब्दः + आम्-प्रत्ययः → तिसृणाम् | '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ, चतुर्-स्थाने चतसृ, विभक्तिसंज्ञकप्रत्यये परे | '''ह्रस्वनद्यापो नुट्''' (७.१.५४) इत्यनेन ह्रस्वात् अङ्गात् आम्-प्रत्ययस्य नुट्-आगमः, तदा '''नामि''' (६.४.३) इत्यनेन अजन्ताङ्गस्य दीर्घः भवति नामि परे | रामाणाम् | '''न तिसृचतसृ''' (६.४.४) इत्यनेन तिसृ चतसृ इत्यनयोः नामि दीर्घो न भवति | '''न तिसृचतसृ''' (६.४.४) इति सूत्रं '''नामि''' (६.४.३) इत्यस्य बाधकसूत्रम् | त्रि + आम् इति स्थितौ '''त्रेस्त्रयः''' (७.१.५३) इत्यनेन त्रयादेशः, '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन तिसृ-आदेशः, द्वयोः प्रसक्तिः | '''त्रेस्त्रयः''' (७.१.५३) इत्यनेन त्रि-स्थाने त्रयादेशो भवति आम्-प्रत्यये परे | '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ-आदेशः विभक्तिसंज्ञकप्रत्यये परे | द्वयोः अन्यत्र लब्धावकाशो वर्तते अतः परत्वात् तिसृ-आदेशस्य प्राप्तिः | अत्र '''ह्रस्वनद्यापो नुट्''' (७.१.५४) इत्यनेन ह्रस्वात् अङ्गात् आम्-प्रत्ययस्य नुट्-आगमः → तिसृ + नाम् | तदा '''नामि''' इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते '''न तिसृचतसृ''' (६.४.४) इत्यनेन | तिसृणाम् इति रूपम् |

अस्यां प्रक्रियायां '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यस्मिन् '''स्त्रियाम्''' इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत्, तिसृ-आदेश-विधायकशास्त्रं बहिरङ्गं भवति '''त्रेस्त्रयः''' (७.१.५३) इति त्रयादेश-विधायकशास्त्रं प्रति | '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ, चतुर्-स्थाने चतसृ, विभक्तिसंज्ञकप्रत्यये परे | '''त्रेस्त्रयः''' (७.१.५३) इत्यनेन त्रि-स्थाने त्रयादेशो भवति आम्-प्रत्यये परे | उभयत्र परनिमित्तकत्वम् अस्ति, अतः '''स्त्रियाम्''' इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत् '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इति बहिरङ्गं भवति '''त्रेस्त्रयः''' (७.१.५३) इति सूत्रं प्रति | यतोहि '''त्रेस्त्रयः''' (७.१.५३) इति सूत्रे किमपि अर्थनिमित्तं नास्ति | अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः | अस्यां दशायां तिसृ-आदेशस्य अभावात् तिसृ-आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति; तस्माच्च दीर्घत्वस्य निषेधकसूत्रंं '''न तिसृचतसृ''' (६.४.४) व्यर्थम् | तन्न भवेत् |

Line 238 ⟶ 242:
स्थानिवद्भावः नाम कः इति चेत्, आदेशस्य स्वभावः स्थानिवत् भवति | दृष्टान्ते चतुर्थीविभक्तौ 'राम + ङे' इति स्थितौ '''ङेर्यः''' (७.१.१३) इत्यनेन अतः अङात् ङेः यः भवति, नाम अदन्तात् अङ्गात् ङे-प्रत्ययस्य स्थाने 'य'-आदेशो भवति | राम + ङे → राम + य | अत्र '''सुपि च''' (७.३.१०२) इत्यनेन अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यञादि-सुप्-प्रत्यये परे | सुप्-प्रत्याहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः— सु, औ, जस्, अम्, औट्, शस्, टा, भ्याम्, भिस्, ङे, भ्याम्, भ्यस्, ङसि, भ्याम्, भ्यस्, ङस्, ओस्, आम्, ङि, ओस्, सुप् | अधुना 'य'-आदेशः यद्यपि यञादिः किन्तु सुप् नास्ति अतः '''सुपि च''' (७.३.१०२) इत्यस्य प्रसक्तिः न स्यात् | किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावोऽपि तथा | स्थानिनः स्वभावस्य सुपि अध्याहृते य-प्रत्ययस्य सुप्त्वात् '''सुपि च''' (७.३.१०२) इत्यस्य प्रसक्तिः भवति | राम + य → '''सुपि च''' (७.३.१०२) इत्यनेन अदन्ताङ्गस्य दीर्घादेशः → रामाय इति रूपं सिध्यति | अत्र '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति अतिदेशसूत्रम् | आदेशः स्थानिना तुल्यं भवति किन्तु स्थानिसम्बद्धस्य अल्-वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत्, तुल्यं न भवति |

अधुना त्रयादेशस्य अनन्तरं 'त्रया + नाम्' इति स्थितौ स्थानिवद्भावेन तिसृ-आदेशः | इत्युक्तौ त्रय इति आदेशः त्रि-शब्दः इव अस्ति, 'त्रि + नाम्' | '''एकदेशविकृतम् अनन्यवत्''' इति परिभाषया एकदेशविकारः जातश्चेदपि अनन्यवत्— अन्यवत् न भवति | अनेन त्रय इत्यस्मिन् दीर्घादेशः (त्रया) इति जातः चेदपि त्रय इतिवत्, त्रय इव भवति | अनेन त्रयादेशस्य स्थानिवद्भावेन 'त्रि + नाम्' इति स्थितिः |

तस्माच्च '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यस्य प्रसक्तिः | तिसृ + नाम् | तदा '''नामि''' (६.४.३) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति नाम्-प्रत्यये परे → अस्यां स्थितौ '''न तिसृचतसृ''' (६.४.४) इति दीर्घबाधकसूत्रस्य अवसरः स्यात् | अनेन अस्य सूत्रस्य व्यर्थता वारिता |

परन्तु अर्थनिमित्तकत्वं स्वीक्रियते चेत्, यया रीत्या तिसृ-आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति, तया एव रीत्या तिसृ-आदेशस्य अपेक्षया '''नामि''' (६.४.३) इत्यनेन दीर्घादेशः अपि अन्तरङ्गं यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति अतः 'त्रया + नाम्'; अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ-आदेशः स्यात्, पुनः '''लक्ष्ये लक्षणन्यायेन''' दीर्घादेशो न भवति | '''लक्ष्ये लक्षणन्यायः''' सूचयति यत् एकस्मिन् लक्ष्ये, लक्षणं नाम सूत्रम्, सकृदेव भवति नाम एकवारमेव भवति | अतः तिसृ-आदेशात् पूर्वं तस्मिन्नेव स्थाले दीर्घादेशः भवति चेत्, पुनः न भवितुम् अर्हति | अस्यां दशायां '''न तिसृचतसृ''' (६.४.४) इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव | अस्य च निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते |

तर्हि अग्रे प्रकृतविषये स्योनशब्दप्रसङ्गे, कैयटस्य प्राचीनानां

तर्हि ततः परं नागेशस्य मतं भाष्यकारस्य च

Line 265 ⟶ 269:
'''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन अनुनासिकादि-प्रत्यये परे वकारस्य स्थाने ऊठ्-आदेशः → सिऊ + न → '''इको यणचि''' (६.१.७७), '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनयोः द्वयोः प्रसक्तिः |

Line 280 ⟶ 284:
अधुना पुनः अवलोकनीयं यत् 'सिव् + न' इति मूलस्थितौ यत्र द्वयोः सूत्रयोः प्रसक्तिः— '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''पुगन्तलघूपधस्य च''' (७.३.८६) | अधुना एव ज्ञातं यत् सिऊ + न → '''इको यणचि''' (६.१.७७), '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनयोः मध्ये '''इको यणचि''' (६.१.७७) इति अन्तरङ्गशास्त्रं यस्मात् '''पुगन्तलघूपधस्य च''' (७.३.८६) इति शास्त्रम् असिद्धम् | अनेन ज्ञायते यत् 'सिव् + न' इति स्थितौ '''पुगन्तलघूपधस्य च''' (७.३.८६) नित्यं नास्ति यतोहि '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन 'सिऊ + न' इति भवति चेत्, तदानीं '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य प्राप्तिर्नास्ति | तस्मात् उच्यते यत् 'सिव् + न' इति स्थितौ नित्यत्वात् '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्य प्राप्तिः |

२) अपरनिमित्तकम् अन्तरङ्गम्
यस्य शास्त्रस्य परं निमित्तं नास्ति, तत् अपरनिमित्तकं भवति | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन आत्त्वं भवति | तत्र अशिति इत्यनेन आत्त्वप्रतिषेधः; नाम शिति कार्यं न भवति | तथा च उपदेशे एजन्तस्य धातोः आत्त्वं भवति; कस्मिन् परे ? इति चेत्, किमपि नोक्तम् | एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति, तदपरनिमित्तकम् अस्ति |

अत्र धेयं यत् 'अशित्त्वं भवेत्' इति नोक्तम्; अशिति प्रत्यये परे इति नोक्तम्; शिति न भवति इत्युक्तम् | अतः निषेधार्थः | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्—
प्रथमं वाक्यम् = उपदेशे एजन्तस्य धातोः आत्त्वं भवति | इति एकः अर्थः |
द्वितीयं वाक्यम् = उपदेशे एजन्तस्य धातोः शिति प्रत्यये परे आत्त्वं न भवति | इति द्वितीयः अर्थः |

'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम् एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः अशिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''एचः धातोः आत् उपदेशे अशिति''' |

Line 315 ⟶ 317:
'''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' इति परिभाषायाः प्रथमपदद्वयं—'''पूर्वपर'''—'''विप्रतिषेधे परं कार्यम्''' इत्यस्य तात्पर्यम् | तस्याः अग्रिमेण तत्त्वत्रयेण—'''नित्यान्तरङ्गापवाद'''—इत्यनेन '''विप्रतिषेधे परं कार्यम्''' इति सूत्रंं निषिध्यते | नाम '''नित्यान्तरङ्गापवाद''' एषु अन्यतमः अस्ति चेत्, '''तुल्यबलविरोधः''' नैव भवति | तुल्यबलविरोधाभावे परसूत्रस्य कार्यं पूर्वं न भवति | (तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु '''नित्यान्तरङ्गापवाद''' इति शास्त्रेण; '''विप्रतिषेधे परं कार्यम्''' इत्यनेन न |)

अधः अस्माकं वसुधा-भगिनी अस्याः परिभाषायाः सिद्धान्तं सुन्दरतया निरूपितवती !
[[File:04-07-अष्टाध्याय्यां सूत्राणां बलाबलम् slide 3.jpg|alt=|thumb|666x666px|center]]
अधः अस्माकं विजयलक्ष्मी- भगिनि अस्याः परिभाषायाः सिद्धान्तं सुन्दरतया निरूपितवती !
[[File:बलाबलसङ्क्षेपः.jpg|border|center|frameless|648x648px|बलाबलसङ्क्षेपः]]
'''''४.''' '''पूर्वत्रासिद्धम्'''''' (८.२.१) = अनेन सूत्रेण अष्टाध्याय्यी इति ग्रन्थः भागद्वये विभजितः | प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः; अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः | प्रथमभागस्य नाम सपादसप्ताध्यायी; द्वितीयभागस्य नाम त्रिपादी | अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्याय्यां सन्ति, तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि | अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति, तानि प्रति परं स्थितानि सूत्राणि असिद्धानि | सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् | त्रयाणां पादानां समाहारः त्रिपादी (द्विगुसमासः) | सप्तानाम् अध्यायानां समाहारः सप्ताधायी; पादेन सहिता, सपादसप्ताध्यायी | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम्, असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | इदं सूत्रम् अधिकारसूत्रम्; अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते |

'''पूर्वत्रासिद्धम्''' इत्यस्य कार्यं द्विविधं— '''शास्त्रासिद्धं''', '''कार्यासिद्धं''' च | द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्, परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रासिद्धम् इत्युच्यते | पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात् सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन परत्रिपादिसूत्रेण यत् किमपि क्रियते तत् '''पूर्वत्रासिद्धम्''' इत्यनेन असिद्धम्; इदं कार्यासिद्धम् इत्युच्यते |

'''1.''' शास्त्रासिद्धम् - द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्, परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रासिद्धम् इत्युच्यते | अस्य बहूनि उदाहरणानि सन्ति |

{| class="wikitable"
Line 439 ⟶ 451:
|'''शश्छोऽटि'''
|७६

'''b)''' मनोरथः | मनसः इच्छा, अभिलाषा |
मनस् + रथ → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य स्थाने रु-आदेशः → मन + रु + रथ → अनुबन्धलोपे → मनर् + रथ → '''रो रि''' (८.३.१४), '''हशि च''' (६.१.११४) → '''रो रि''' इत्यनेन रेफस्य लोपस्य असिद्धत्वात् '''हशि च''' इत्यनेन रेफस्य उकारादेशः → मन + उ + रथ → '''आद्गुणः''' (६.१.८७) इत्यनेन गुणादेशः → मनो + रथ → वर्णमेलने → मनोरथ
Line 456 ⟶ 470:
कृ + क्तिन् → कृति → सम् + कृति → '''
'''2.''' कार्यासिद्धम् - पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात् सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन यत् किमपि क्रियते तत् '''पूर्वत्रासिद्धम्''' इत्यनेन

Line 472 ⟶ 486:

धेयं यत् '''पूर्वत्रासिद्धम्''' इति सूत्रं '''विप्रतिषेधे परं कार्यम्''' इत्यस्य अपवादो नास्ति | '''विप्रतिषेधे परं कार्यम्''' इत्यनेन परशास्त्रस्य कार्यं भवति | '
Line 505 ⟶ 519:
एषां रूपाणां निष्पादनार्थम् अधः प्रासङ्गिकसूत्राणि दत्तानि | बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिः भवति, केषां च बाधा भवति, केन क्रमेण प्राप्तिं बाधां च आयुज्य रूपं साधनीयम् इति निर्णीयताम् | वर्गे अस्मिन् विषये चर्चयिष्यामः; तत्पश्चत् अत्रैव समाधानं लेखिष्यते |

'''a) "अन्ति" इत्यस्य प्रत्यय-सिद्धिः'''

परस्मैपदिधातूनां मूल-तिङ्प्रत्ययाः—
तिप् तस् झि
Line 543 ⟶ 558:

१) पित्सु प्रत्ययेषु — कृ + उ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इकः गुणः →
२) अपित्सु प्रत्ययेषु — '''अत उत्सार्वधातुके''' (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः | करु → कुरु इति अङ्गम् |
Line 589 ⟶ 604:
इति अष्टाध्यायी-सूत्राणां बलाबलस्य परिचयः |

[https://static.miraheze.org/samskritavyakaranamwiki/f/fe/%E0%A5%A6%E0%A5%AD_-_%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%82_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BE%E0%A4%82_%E0%A4%AC%E0%A4%B2%E0%A4%BE%E0%A4%AC%E0%A4%B2%E0%A4%AE%E0%A5%8D%E2%80%8C.pdf ०७_-_अष्टाध्याय्यां_सूत्राणां_बलाबलम्.pdf ]

Swarup – July 2014 (updated May 2017)