04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions

no edit summary
No edit summary
No edit summary

(One intermediate revision by the same user not shown)
Line 115:

अधः एका परिभाषा अस्ति यया बुद्धं यत्‌ अपवादः बलीयान्‌ सामान्यसूत्रस्य अपेक्षया | यत्र अपवादः अस्ति, तत्र सूत्रसङ्ख्यायाः किमपि महत्वं नास्ति | अपवादभूतसूत्रस्य सूत्रसङ्ख्या या काऽपि भवतु नाम, तस्य बलं भवति एव | यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते, तत्र इयं परिभाषा कार्यं करोति | परिभाषाः अत्यन्तं पुरातनाःपुरातन्यः; तेषां लेखकाः अस्माभिर्न ज्ञायन्ते परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति | तर्हि अत्रास्ति एका परिभाषा—

Line 163:

ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम्‌ उच्यते— '''अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्‌ | एवं तदीयनिमित्तसमुदायाद्‌ बहिर्भूताङ्गकं बहिरङ्गम्‌''' | अन्तरङ्ग-शब्दे भागद्वयम्‌, अन्तर्‍अन्तर् + अङ्गम्‌ | अन्तर्‍अन्तर् इत्युक्ते 'मध्ये' | कस्य मध्ये ? बहिरङ्गशास्त्रीय-निमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्‌ | अनया रीत्या अन्तरङ्गशास्त्रीय-निमित्तसमुदायात्‌ बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्‌ |

Line 231:

संज्ञा इत्यस्य उदाहरणं दृष्टम्‌ | अधुना अर्थस्य | स्त्रीलिङ्गे त्रि-शब्दः + आम्‌-प्रत्ययः → तिसृणाम्‌ | '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ, चतुर्‍चतुर्-स्थाने चतसृ, विभक्तिसंज्ञकप्रत्यये परे | '''ह्रस्वनद्यापो नुट्‌''' (७.१.५४) इत्यनेन ह्रस्वात्‌ अङ्गात्‌ आम्‌-प्रत्ययस्य नुट्‌-आगमः, तदा '''नामि''' (६.४.३) इत्यनेन अजन्ताङ्गस्य दीर्घः भवति नामि परे | रामाणाम्‌ | '''न तिसृचतसृ''' (६.४.४) इत्यनेन तिसृ चतसृ इत्यनयोः नामि दीर्घो न भवति | '''न तिसृचतसृ''' (६.४.४) इति सूत्रं '''नामि''' (६.४.३) इत्यस्य बाधकसूत्रम्‌ | त्रि + आम्‌ इति स्थितौ '''त्रेस्त्रयः''' (७.१.५३) इत्यनेन त्रयादेशः, '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन तिसृ-आदेशः, द्वयोः प्रसक्तिः | '''त्रेस्त्रयः''' (७.१.५३) इत्यनेन त्रि-स्थाने त्रयादेशो भवति आम्‌-प्रत्यये परे | '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ-आदेशः विभक्तिसंज्ञकप्रत्यये परे | द्वयोः अन्यत्र लब्धावकाशो वर्तते अतः परत्वात्‌ तिसृ-आदेशस्य प्राप्तिः | अत्र '''ह्रस्वनद्यापो नुट्‌''' (७.१.५४) इत्यनेन ह्रस्वात्‌ अङ्गात्‌ आम्‌-प्रत्ययस्य नुट्‌-आगमः → तिसृ + नाम् | तदा '''नामि''' इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते '''न तिसृचतसृ''' (६.४.४) इत्यनेन | तिसृणाम्‌ इति रूपम्‌ |

अस्यां प्रक्रियायां '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यस्मिन्‌ '''स्त्रियाम्‌''' इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत्‌, तिसृ‌-आदेश-विधायकशास्त्रं बहिरङ्गं भवति '''त्रेस्त्रयः''' (७.१.५३) इति त्रयादेश-विधायकशास्त्रं प्रति | '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ, चतुर्‍चतुर्-स्थाने चतसृ, विभक्तिसंज्ञकप्रत्यये परे | '''त्रेस्त्रयः''' (७.१.५३) इत्यनेन त्रि-स्थाने त्रयादेशो भवति आम्‌-प्रत्यये परे | उभयत्र परनिमित्तकत्वम्‌ अस्ति, अतः '''स्त्रियाम्‌''' इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत्‌ '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इति बहिरङ्गं भवति '''त्रेस्त्रयः''' (७.१.५३) इति सूत्रं प्रति | यतोहि '''त्रेस्त्रयः''' (७.१.५३) इति सूत्रे किमपि अर्थनिमित्तं नास्ति | अनेन कारणेन अन्तरङ्गत्वात्‌ त्रयादेशस्य प्राप्तिः | अस्यां दशायां तिसृ-आदेशस्य अभावात्‌ तिसृ-आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति; तस्माच्च दीर्घत्वस्य निषेधकसूत्रंं '''न तिसृचतसृ''' (६.४.४) व्यर्थम्‌ | तन्न भवेत्‌ |

Line 470:

कृ + क्तिन्‌ → कृति → सम्‌ + कृति → '''सम्पर्युपेभ्यां करोतौ भूषणे''' इत्यनेन सुट्‌-आगमः → सम्‌ + सुट् + कृति → अनुबन्धलोपे → सम्‌ + स्‌ + कृति → '''मो‍ऽनुस्वारः''' इत्यनेन म्‌-स्थाने अनुस्वारादेशः → परन्तु '''मो‍ऽनुस्वारः''' (८.३.२३), '''समः सुटि''' (८.३.५) च त्रिपादि-सूत्रे स्तः | अतः '''पूर्वत्रासिद्धिम्‌''' इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति; परसूत्रम्‌ असिद्धम्‌ → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → '''उपदेशेऽजनुनासिका इत्‌''' इत्यनेन उकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च → सर्‍सर् स्कृति → '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यनेन विकल्पेन अँ-आदेशः → विपक्षे '''अनुनासिकात्‌ परोऽनुस्वारः''' इत्यनेन अनुस्वारागमः → सँर्‍सँर् स्कृति / संर्‌ स्कृति → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → '''विसर्जनीयस्य सः''' इत्यनेन विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |

Line 558:

१) पित्सु प्रत्ययेषु — कृ + उ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इकः गुणः → कर्‍कर् + उ → करु इति अङ्गम्‌ |

२) अपित्सु प्रत्ययेषु — '''अत उत्सार्वधातुके''' (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः | करु‌ → कुरु इति अङ्गम्‌ |
page_and_link_managers, Administrators
5,094

edits