04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions

no edit summary
No edit summary
No edit summary

(7 intermediate revisions by 2 users not shown)
Line 115:

अधः एका परिभाषा अस्ति यया बुद्धं यत्‌ अपवादः बलीयान्‌ सामान्यसूत्रस्य अपेक्षया | यत्र अपवादः अस्ति, तत्र सूत्रसङ्ख्यायाः किमपि महत्वं नास्ति | अपवादभूतसूत्रस्य सूत्रसङ्ख्या या काऽपि भवतु नाम, तस्य बलं भवति एव | यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते, तत्र इयं परिभाषा कार्यं करोति | परिभाषाः अत्यन्तं पुरातनाःपुरातन्यः; तेषां लेखकाः अस्माभिर्न ज्ञायन्ते परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति | तर्हि अत्रास्ति एका परिभाषा—

Line 150:

अत्र नित्यम्‌ इति सिद्धान्तः आयाति, यतोहि विकरणप्रत्यये कृते गुणः न प्राप्य्तेप्राप्यते किन्तु गुणे कृतेऽपि विकरणप्राप्तिः | कृताकृतप्रसङ्गे नित्यं— कृतेऽपि अकृतेऽपि यस्य प्रसङ्गः वर्तते, सः नित्यः | इदानीं गुणः तथा नास्ति— विकरणप्रत्यये कृते गुणप्राप्तिर्नास्ति | विकरणप्रत्यये अकृते एव गुणः प्राप्यते | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये श-विकरणप्रत्ययः नास्ति | विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिर्नास्ति ? इति चेत्‌, श-प्रत्ययः अपित्‌ | यद्यपि शित्‌ अस्ति अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः भवति स्म, किन्तु '''सार्वधातुकम्‌ अपित्‌''' (१.२.४) इत्यानेन अपित्‌ सार्वधातुकं ङिद्वत्‌ स्यात्‌ | अतः '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः |

Line 163:

ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम्‌ उच्यते— '''अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्‌ | एवं तदीयनिमित्तसमुदायाद्‌ बहिर्भूताङ्गकं बहिरङ्गम्‌''' | अन्तरङ्ग-शब्दे भागद्वयम्‌, अन्तर्‍अन्तर् + अङ्गम्‌ | अन्तर्‍अन्तर् इत्युक्ते 'मध्ये' | कस्य मध्ये ? बहिरङ्गशास्त्रीय-निमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्‌ | अनया रीत्या अन्तरङ्गशास्त्रीय-निमित्तसमुदायात्‌ बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्‌ |

Line 209:

'''लोपो व्योर्वलि''' (६.१.६६) इत्यस्य प्रप्तिर्भवतिप्राप्तिर्भवति चेत्‌, '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे ऊठ्‌-आदेशः न कुत्रापि भविष्यति, अतः सूत्रस्य अयं भागः निरवकाशः | तदर्थं '''लोपो व्योर्वलि''' (६.१.६६) इत्यस्य अपवादः '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) |

Line 231:

संज्ञा इत्यस्य उदाहरणं दृष्टम्‌ | अधुना अर्थस्य | स्त्रीलिङ्गे त्रि-शब्दः + आम्‌-प्रत्ययः → तिसृणाम्‌ | '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ, चतुर्‍चतुर्-स्थाने चतसृ, विभक्तिसंज्ञकप्रत्यये परे | '''ह्रस्वनद्यापो नुट्‌''' (७.१.५४) इत्यनेन ह्रस्वात्‌ अङ्गात्‌ आम्‌-प्रत्ययस्य नुट्‌-आगमः, तदा '''नामि''' (६.४.३) इत्यनेन अजन्ताङ्गस्य दीर्घः भवति नामि परे | रामाणाम्‌ | '''न तिसृचतसृ''' (६.४.४) इत्यनेन तिसृ चतसृ इत्यनयोः नामि दीर्घो न भवति | '''न तिसृचतसृ''' (६.४.४) इति सूत्रं '''नामि''' (६.४.३) इत्यस्य बाधकसूत्रम्‌ | त्रि + आम्‌ इति स्थितौ '''त्रेस्त्रयः''' (७.१.५३) इत्यनेन त्रयादेशः, '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन तिसृ-आदेशः, द्वयोः प्रसक्तिः | '''त्रेस्त्रयः''' (७.१.५३) इत्यनेन त्रि-स्थाने त्रयादेशो भवति आम्‌-प्रत्यये परे | '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ-आदेशः विभक्तिसंज्ञकप्रत्यये परे | द्वयोः अन्यत्र लब्धावकाशो वर्तते अतः परत्वात्‌ तिसृ-आदेशस्य प्राप्तिः | अत्र '''ह्रस्वनद्यापो नुट्‌''' (७.१.५४) इत्यनेन ह्रस्वात्‌ अङ्गात्‌ आम्‌-प्रत्ययस्य नुट्‌-आगमः → तिसृ + नाम् | तदा '''नामि''' इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते '''न तिसृचतसृ''' (६.४.४) इत्यनेन | तिसृणाम्‌ इति रूपम्‌ |

अस्यां प्रक्रियायां '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यस्मिन्‌ '''स्त्रियाम्‌''' इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत्‌, तिसृ‌-आदेश-विधायकशास्त्रं बहिरङ्गं भवति '''त्रेस्त्रयः''' (७.१.५३) इति त्रयादेश-विधायकशास्त्रं प्रति | '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ, चतुर्‍चतुर्-स्थाने चतसृ, विभक्तिसंज्ञकप्रत्यये परे | '''त्रेस्त्रयः''' (७.१.५३) इत्यनेन त्रि-स्थाने त्रयादेशो भवति आम्‌-प्रत्यये परे | उभयत्र परनिमित्तकत्वम्‌ अस्ति, अतः '''स्त्रियाम्‌''' इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत्‌ '''त्रिचतुरोस्त्रियां तिसृचतसृ''' (७.२.९९) इति बहिरङ्गं भवति '''त्रेस्त्रयः''' (७.१.५३) इति सूत्रं प्रति | यतोहि '''त्रेस्त्रयः''' (७.१.५३) इति सूत्रे किमपि अर्थनिमित्तं नास्ति | अनेन कारणेन अन्तरङ्गत्वात्‌ त्रयादेशस्य प्राप्तिः | अस्यां दशायां तिसृ-आदेशस्य अभावात्‌ तिसृ-आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति; तस्माच्च दीर्घत्वस्य निषेधकसूत्रंं '''न तिसृचतसृ''' (६.४.४) व्यर्थम्‌ | तन्न भवेत्‌ |

Line 258:

तर्हि अग्रे प्रकृतविषये स्योनशब्दप्रसङ्गे, कैयटस्य प्राचीनानां वा मतं यत्‌ यथा अर्थनिमित्तकत्वं भवति, तथैव संज्ञानिमित्तकत्वं भवति— संज्ञा अपि एकं निमित्तम्‌ | नागेशः नवीनाः च एतत्‌ न स्वीकुर्वन्ति | अर्थप्रसङ्गे ते वदन्ति— स्त्रीत्वम्‌ अर्थनिष्ठं भवति; स्त्रीत्वं न शब्दः | शब्दशास्त्रे शब्दस्य प्राधान्यं; गुणानां प्राधान्यं न | अर्थः न आश्रीयते, शब्दः एव निमित्ततया आश्रीयते अतः 'स्त्रियाम्‌' इति कथनेऽपि तत्‌ निमित्ततया वक्तुं न शक्यम् | एवमेव नागेशः वदति यत्‌ संज्ञा न शब्दः, अतः संज्ञा न निमित्तम्‌ |

तर्हि ततः परं नागेशस्य मतं भाष्यकारस्य च सिद्धन्तंसिद्धान्तं मनसि निधाय शब्दरूपमेव ग्राह्यम्‌ इति निश्चीयते चेत्‌, यस्य शास्त्रस्य शब्दरूपनिमित्तम्‌ अन्तर्भूतं भवति, तदन्तरङ्गम्‌ | तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते, तदन्तरङ्गम्‌ | तदन्तर्भूतञ्च बहुविधम्‌ |

Line 330:

[[File:बलाबलसङ्क्षेपः.jpg|border|center|frameless|600x600px648x648px|बलाबलसङ्क्षेपः]]

Line 470:

कृ + क्तिन्‌ → कृति → सम्‌ + कृति → '''सम्पर्युपेभ्यां करोतौ भूषणे''' इत्यनेन सुट्‌-आगमः → सम्‌ + सुट् + कृति → अनुबन्धलोपे → सम्‌ + स्‌ + कृति → '''मो‍ऽनुस्वारः''' इत्यनेन म्‌-स्थाने अनुस्वारादेशः → परन्तु '''मो‍ऽनुस्वारः''' (८.३.२३), '''समः सुटि''' (८.३.५) च त्रिपादि-सूत्रे स्तः | अतः '''पूर्वत्रासिद्धिम्‌''' इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति; परसूत्रम्‌ असिद्धम्‌ → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → '''उपदेशेऽजनुनासिका इत्‌''' इत्यनेन उकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च → सर्‍सर् स्कृति → '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यनेन विकल्पेन अँ-आदेशः → विपक्षे '''अनुनासिकात्‌ परोऽनुस्वारः''' इत्यनेन अनुस्वारागमः → सँर्‍सँर् स्कृति / संर्‌ स्कृति → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → '''विसर्जनीयस्य सः''' इत्यनेन विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |

'''2.''' कार्यासिद्धम्‌ - पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात्‌ सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्‌, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन यत्‌ किमपि क्रियते तत्‌ '''पूर्वत्रासिद्धम्‌''' इत्यनेन असिद्धमम्‌असिद्धम्‌; इदं कार्यासिद्धम्‌ इत्युच्यते |

Line 486:

धेयं यत्‌ '''पूर्वत्रासिद्धम्‌''' इति सूत्रं '''विप्रतिषेधे परं कार्यम्‌''' इत्यस्य अपवादो नास्ति | '''विप्रतिषेधे परं कार्यम्‌''' इत्यनेन परशास्त्रस्य कार्यं भवति | '<nowiki/>'''''पूर्वत्रासिद्धम्‌'<nowiki/>''''' इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम्‌ असिद्धम्‌ | सुतरां विरुद्धम्‌ | अत्र सामान्य-विशेषयोरुदाहरणं न | अतः द्वयोः कृते पृथक्‌-पृथक्‌ मार्गः कल्पनीयः, इत्याशेन किं कृतम्‌ ? '''विप्रतिषेधे परं कार्यम्‌''' इति सूत्रं केवलं सपादसप्ताध्याय्याम्‌ एव प्रवर्तते | त्रिपाद्यां '''विप्रतिषेध''' विचारः नास्ति, यतोहि तत्र परशास्त्रमेव नासितनास्ति, उत्तरस्य अभावात्‌, परशास्त्राणाम्‌ अभावात्‌ | अपि च '''पूर्वत्रासिद्धम्‌''' इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम्‌ |

Line 558:

१) पित्सु प्रत्ययेषु — कृ + उ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इकः गुणः → कर्‍कर् + उ → करु इति अङ्गम्‌ |

२) अपित्सु प्रत्ययेषु — '''अत उत्सार्वधातुके''' (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः | करु‌ → कुरु इति अङ्गम्‌ |
page_and_link_managers, Administrators
5,094

edits