04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions
04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam (view source)
Revision as of 13:43, 9 May 2021
, 3 years agoupto abhyasa
Bina Radia (talk | contribs) (upto the table) |
Bina Radia (talk | contribs) (upto abhyasa) |
||
Line 292:
'''1.''' <u>शास्त्रासिद्धम्</u> - द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्, परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रासिद्धम् इत्युच्यते | अस्य बहूनि उदाहरणानि सन्ति |
'''a)''' यथा हल्-सन्धि-सूत्राणि सर्वाणि त्रिपाद्याम् | अतः एकत्र हल्-सन्धि-विधायकसूत्रद्वयम् आयाति चेत्, परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति | यत् + जायते → '''झलां जशोऽन्ते''' (८.२.३९), '''स्तोः श्चुना श्चुः''' (८.४.४०) एकत्र आयातः → '''स्तोः श्चुना श्चुः''' इत्यस्य असिद्धत्वात् '''झलां जशोऽन्ते''' पूर्वं भवति → यद् + जायते → '''स्तोः श्चुना श्चुः''' इत्यनेन श्चुत्वम् → यज् + जायते → यज्जायते | एवमेव सर्वाणि हल्-सन्धि-सूत्राणि |
{| class="wikitable"
|
▲! colspan="4" |<u><big>हल्-सन्धि सूत्रक्रमः</big></u>
!
!
!
!
!
|-
Line 397 ⟶ 399:
|७६
|}
'''b)''' मनोरथः | मनसः इच्छा, अभिलाषा |
मनस् + रथ → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य स्थाने रु-आदेशः → मन + रु + रथ → अनुबन्धलोपे → मनर् + रथ → '''रो रि''' (८.३.१४), '''हशि च''' (६.१.११४) → '''रो रि''' इत्यनेन रेफस्य लोपस्य असिद्धत्वात् '''हशि च''' इत्यनेन रेफस्य उकारादेशः → मन + उ + रथ → '''आद्गुणः''' (६.१.८७) इत्यनेन गुणादेशः → मनो + रथ → वर्णमेलने → मनोरथ
'''रो रि''' (८.३.१४) = रेफस्य रेफे परे लोपो भवति |
'''हशि च''' (६.१.११४) = हशि परे अतः उत्तरस्य रेफस्य उकारादेशो भवति |
'''c)''' '''मोऽनुस्वारः''' (८.३.२३), '''समः सुटि''' (८.३.५)
कृ + क्तिन् → कृति → सम् + कृति → '''सम्परिभ्यां करोतौ भूषणे''' इत्यनेन सुट्-आगमः → सम् + सुट् + कृति → अनुबन्धलोपे → सम् + स् + कृति → '''मोऽनुस्वारः''' इत्यनेन म्-स्थाने अनुस्वारादेशः → परन्तु '''मोऽनुस्वारः''' (८.३.२३), '''समः सुटि''' (८.३.५) च त्रिपादि-सूत्रे स्तः | अतः '''पूर्वत्रासिद्धिम्''' इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति; परसूत्रम् असिद्धम् → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम् → सरु + स् + कृति → '''उपदेशेऽजनुनासिका इत्''' इत्यनेन उकारस्य इत्-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च → सर् स्कृति → '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यनेन विकल्पेन अँ-आदेशः → विपक्षे '''अनुनासिकात् परोऽनुस्वारः''' इत्यनेन अनुस्वारागमः → सँर् स्कृति / संर् स्कृति → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → '''विसर्जनीयस्य सः''' इत्यनेन विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |
'''2.''' <u>कार्यासिद्धम्</u> - पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात् सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन यत् किमपि क्रियते तत् '''पूर्वत्रासिद्धम्''' इत्यनेन असिद्धमम्; इदं कार्यासिद्धम् इत्युच्यते |
उभौ + अपि → '''एचोऽयवायावः''' (६.१.७८) इत्यनेन यान्तवान्तादेशसन्धिः → उभावपि → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन विकल्पेन वकार-लोपः → उभा अपि → सवर्णदीर्घसन्धिः '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यस्य मनसि '''लोपः शाकल्यस्य''' इत्यस्य कार्यं नैव जातम् अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्यासिद्धत्वात् | उभा अपि |
बालः इह विसर्गसन्धिः | अत्रापि तथा | बाल + सु + इह → अनुबन्धलोपे → बालस् + इह → '''ससजुषो रुः''' → बाल + रु + इह → अनुबन्धलोपे बालर् + इह → '''भोभगोअघोअपूर्वस्य योऽशि''' → बालय् + इह → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन विकल्पेन यकार-लोपः → बाल इह → '''आद्गुणः''' (६.१.८७) इत्यस्य मनसि '''लोपः शाकल्यस्य''' इत्यस्य कार्यं नैव जातं अतः अत्र गुणसन्धिः न प्रवर्तते कार्यासिद्धत्वात् | बाल इह |
भट्टोजिदीक्षितमहाभागेन (सिद्धान्तकौमुद्याः लेखकेन) इदं सिद्धान्तद्वयं प्रणीतम् | सर्वे न मन्यन्ते, तेषु माता अन्यतमा | तथापि अत्र प्रतिपादितं यतः अनेन विषयस्य बोधार्थं सौकर्यं विद्यते इति भाति |
धेयं यत् '''पूर्वत्रासिद्धम्''' इति सूत्रं '''विप्रतिषेधे परं कार्यम्''' इत्यस्य अपवादो नास्ति | '''विप्रतिषेधे परं कार्यम्''' इत्यनेन परशास्त्रस्य कार्यं भवति | ''''''पूर्वत्रासिद्धम्'''''' इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् | सुतरां विरुद्धम् | अत्र सामान्य-विशेषयोरुदाहरणं न | अतः द्वयोः कृते पृथक्-पृथक् मार्गः कल्पनीयः, इत्याशेन किं कृतम् ? '''विप्रतिषेधे परं कार्यम्''' इति सूत्रं केवलं सपादसप्ताध्याय्याम् एव प्रवर्तते | त्रिपाद्यां '''विप्रतिषेध''' विचारः नास्ति, यतोहि तत्र परशास्त्रमेव नासित, उत्तरस्य अभावात्, परशास्त्राणाम् अभावात् | अपि च '''पूर्वत्रासिद्धम्''' इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम् |
'''५. वार्णादाङ्गं बलीयः''' | [परिभाषा ५५] – वर्णस्य इदं वार्णम्; वर्णं निमित्तीकृत्य जायमानं कार्यम् | वर्णसम्बद्धं वार्णम् | अङ्गस्य इदम् आङ्गम् | अङ्गनिमित्तिकं वा अङ्गोद्दिशिकं वा कार्यम् आङ्गम् | अङ्गसम्बद्धम् आङ्गम् | वर्णनिमित्तिक-कार्यापेक्षया अङ्गाधिकारस्य कार्यं प्रबलम् |
प्रत्यय = प्रति + इ + अच् | '''एरच्''' (३.३.५६) |
प्रति + इ + अ → अ-प्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति → प्रति + ए + अ → '''एचोऽयवायावः''' (६.१.७८) इत्यनेन यान्तवान्तादेशसन्धिः → प्रति + अय् + अ → '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः → प्रत्य् + अय् + अ → वर्णमेलने → प्रत्ययः |
एवम् अकृत्वा वर्णनिमित्तिकं कार्यं क्रियते चेत्—
प्रति + इ + अ → '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिः → प्रती + अ → अ-प्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति → प्रते + अ → '''एचोऽयवायावः''' इत्यनेन यान्तवान्तादेशसन्धिः → प्रतय् + अ → प्रतयः | दोषपूर्णरूपं सिद्धम् |
'''६.''' '''<u>अभ्यासः</u>'''
अत्र सन्ति त्रीणि तिङन्तपदानि—
शक्नु + अन्ति → शक्नुवन्ति
चिनु + अन्ति → चिन्वन्ति
कुरु + अन्ति → कुर्वन्ति
एषां रूपाणां निष्पादनार्थम् अधः प्रासङ्गिकसूत्राणि दत्तानि | बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिः भवति, केषां च बाधा भवति, केन क्रमेण प्राप्तिं बाधां च आयुज्य रूपं साधनीयम् इति निर्णीयताम् | वर्गे अस्मिन् विषये चर्चयिष्यामः; तत्पश्चत् अत्रैव समाधानं लेखिष्यते |
|