04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions

upto end - hyperlinks left
(upto abhyasa)
(upto end - hyperlinks left)
Line 451:
 
एषां रूपाणां निष्पादनार्थम्‌ अधः प्रासङ्गिकसूत्राणि दत्तानि | बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिः भवति, केषां च बाधा भवति, केन क्रमेण प्राप्तिं बाधां च आयुज्य रूपं साधनीयम्‌ इति निर्णीयताम्‌ | वर्गे अस्मिन्‌ विषये चर्चयिष्यामः; तत्पश्चत्‌ अत्रैव समाधानं लेखिष्यते |
 
 
'''a) "अन्ति" इत्यस्य प्रत्यय-सिद्धिः'''
 
परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः—
 
 
तिप्‌ तस्‌ झि
 
सिप्‌ थस्‌ थ
 
मिप्‌ वस्‌ मस्‌‍
 
'''झोऽन्तः''' (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | झकारे अन्त्‌-अवयवे च अकारः संयोजितः उच्चारणार्थम्‌ | '''आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य प्रत्ययस्य झः अन्तः''' |
 
झि - झि → झ्‌ + इ → '''झोऽन्तः''' (७.१.३) इत्यनेन 'झ्‌'-स्थाने अन्त्‌-आदेशः → अन्त्‌ + इ → 'अन्ति' इति लट्‌ प्रत्ययः निष्पन्नः |
 
 
'''b) <u>अङ्ग-व्युत्पत्तिः</u>'''
 
स्वादिगणे विकरणप्रत्ययः श्नु | '''स्वादिभ्यः श्नुः''' (३.१.७३) | '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपः | नु इति अवशिष्यते |
 
शक्‌ + नु → शक्नु → शक्नु + अन्ति → शक्नुवन्ति
 
चि + नु → चिनु → चिनु + अन्ति → चिन्वन्ति
 
 
तनादिगणे '''तनादिकृञ्भ्यः उः''' (३.१.७९) इति सूत्रेण उ विकरण-प्रत्ययः विहितः भवति |
 
कुरु + अन्ति → कुर्वन्ति
 
कृ-धातोः अङ्गद्वयम्‌
 
 
१) पित्सु प्रत्ययेषु — कृ + उ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इकः गुणः → कर्‍ + उ → करु इति अङ्गम्‌ |
 
२) अपित्सु प्रत्ययेषु — '''अत उत्सार्वधातुके''' (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः | करु‌ → कुरु इति अङ्गम्‌ |
 
 
अन्ति (झि) अपित्‌ अस्ति अतः अङ्गम्‌ अत्र 'कुरु' | तर्हि कुरु + अन्ति → कुर्वन्ति |
 
 
'''अत उत्सार्वधातुके''' (६.४.११०) = उप्रत्ययान्तकृ-धातोः ह्रस्व-अकारस्य स्थाने उकारादेशो भवति किति ङिति सार्वधातुक-प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उत्‌ प्रथमान्तं, सार्वधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) इत्यस्मात्‌ '''उतः''', '''प्रत्ययात्‌''' चेत्यनयोः अनुवृत्तिः | विभक्तिपरिणामेन पदद्वयं षष्ठ्यन्तं कृत्वा उतः प्रत्ययस्य → '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उ इति प्रत्ययः → उप्रत्ययान्तस्य (अङ्गस्य) | '''नित्यं करोतेः''' (६.४.१०८) इत्यस्मात्‌ '''करोतेः''' इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत्‌ क्क्ङिति सार्वधातुके''' |
 
 
'''c) <u>प्रासङ्गिकसूत्राणि</u>'''
 
अत्र अस्माकं चिन्तनं भवतु | १) शक्नु + अन्ति → शक्नुवन्ति; २) चिनु + अन्ति → चिन्वन्ति; ३) कुरु + अन्ति → कुर्वन्ति | एषां निष्पादनार्थम्‌ अधस्तनेषु सूत्रेषु केषां प्रसक्तिः, अपि च कस्मिन्‌ क्रमे | अत्र बलाबलस्य परिशीलनम्‌ अपेक्षितम्‌ |
 
 
'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्'''‌ |
 
 
'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम्‌ इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानाम्‌ इयङुवङौ अचि''' |
 
 
'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातुः च अनेकाच्‌ श्नुप्रत्ययान्तम्‌ अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्‌-आदेशो भवति अजादि-सार्वधातुकप्रत्यये परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्‌-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''इणो यण्‌''' (६.४.८१) इत्यस्मात् '''यण्‌''' इत्यस्य अनुवृत्तिः; '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यस्मात्‌ '''अनेकाचः''', '''असंयोगपूर्वस्य''' इत्यनयोः अनुवृत्तिः; '''ओः सुपि''' (६.४.८३) इत्यस्मात् '''ओः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण्'''‌ '''अचि सार्वधातुके''' |
 
 
'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन ''''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |
 
 
'''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) = यः प्रत्ययः तिङ्‌ वा शित्‌ वा अस्ति, सः प्रत्ययः सार्वधातुकम्‌ | श्‌ इत्‌ यस्य सः शित्‌, बहुव्रीहिः | तिङ्‌ च शित्‌ च तयोः समाहारद्वन्द्वः तिङ्‌शित्‌ | तिङ्‌शित्‌ प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातो''': (३.१.९१) इत्येषाम्‌ अधिकारः) | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌''' |
 
 
'''सार्वधातुकमपित्‌''' (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' |
 
 
'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |
 
 
सार्वधातुकलकारेषु "पित्सु गुणः, अपित्सु गुण-निषेधः" इति अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः | शित्‌ प्रत्ययाः सार्वधातुकसंज्ञकाः | तेषु ये पित्‌ अपि सन्ति, तेषां द्वारा गुणकार्यं सम्भवति | ये अपित्‌ सन्ति (नाम ये पित्‌ न सन्ति), तेषां द्वारा गुणकार्यं निषिद्धं-- न सम्भवति एव | तर्हि यः प्रत्ययः शित्‌ अपि अस्ति, पित्‌ अपि अस्ति तस्य एव द्वारा गुणगार्यं सिध्यते | विकरणप्रत्ययेषु कः प्रत्ययः शित्‌ अपि पित्‌ अपि अस्ति ? केवलं शप्‌ | श्यन्‌, श्नु, श, श्नम्‌, श्ना च शित्‌ सन्ति किन्तु अपित्‌ सन्ति, अतः तेषाम्‌ उपस्थितौ गुणकार्यं निषिद्धम्‌ | तर्हि शप्‌ कुत्र लभ्यते ? केवलं भ्वादिगणे चुरादिगणे च | धातुः अङ्गं मनसि निधाय, अङ्गकार्ये गुणः सम्भवति केवलं भ्वादिगणे चुरादिगणे च | भ्वादिगणे यत्र धातुः इगुपधः वा इगन्तः वा, तत्र अङ्गे गुणकार्यं भवति | चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित्‌ भिन्नः यतः शप्‌-इत्यस्मात्‌ पूर्वं णिच्‌ भवति | णिचि अनुबन्धलोपं कृत्वा "इ" इत्येव अवशिष्यते; तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति |
 
अत्र प्रश्नः उदेति— '''इको यणचि''' (६.१.७७) इति सूत्रं यदा बाधितं भवति '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन, तदा एकवारं यदा गुणनिषेधो भवति '''क्क्ङिति च''' (१.१.५) , तत्पश्चात्‌ पुनः '''इको यणचि''' (६.१.७७) इत्यस्य प्राप्तिः कथं वा स्यात्‌ ? अत्र परिभाषाद्वयस्य प्रसङ्गे चिन्तनं कुर्यात्‌— '''पुनः प्रसङ्गविज्ञानात्सिद्धम्‌''' (३९), '''सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव''' (४०) च |
 
 
इति अष्टाध्यायी-सूत्राणां बलाबलस्य परिचयः |
 
 
Swarup – July 2014 (updated May 2017)
 
 
<nowiki>---------------------------------</nowiki>
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.
 
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
 
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
653

edits