04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions

line spacing between paras as per original
(hyperlinks done, pdf left)
(line spacing between paras as per original)
Line 32:
 
 
 
<u>अष्टाध्याय्याः सूत्रक्रमायोजनं किम्‌ ?</u>
 
 
 
Line 69 ⟶ 71:
 
'''वृद्धिरेचि''' (६.१.८८) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | वृद्धिः प्रथमान्तम्‌, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आद्‌गुणः''' (६.१.८७) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |
 
<font size="4"><font color="#000000"><font face="Lohit Devanagari"><span lang="hi-IN"> </span></font></font></font>
 
इदानीम्‌ अस्माकम्‌ उदाहरणम्‌— अत्र + एव | पूर्वम्‌ अकारः अस्ति, पश्चात्‌ एकारः | एकारः अचि अपि अस्ति, एचि अपि अस्ति | अतः द्वयोः सूत्रयोः प्रसक्तिः— '''एकत्र प्राप्तिः''' अस्ति | अत्र किं भवति, गुणसन्धिः वा वृद्धिसन्धिः वा ? अधुना द्रष्टव्यं यत्‌ '''तुल्यबलविरोधः''' अस्ति न वा | तुल्यबलविरोधार्थं द्वयोः सूत्रयोः '''अन्यत्रलब्धावकाशः''' भवेत्‌ | अत्र + एव इत्यस्यां दशायां '''आद्‌गुणः''' कार्यं करोति चेत्‌, '''वृद्धिरेचि''' इत्यस्य अन्यत्रावकाशः भविष्यति वा ? नैव | एचि यदि गुणसन्धिः भवति, तर्हि '''वृद्धिरेचि''' इति सूत्रं निर्व्यापारं नाम सुतरां व्यर्थं भविष्यति | तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति | अस्यां दशायां द्वेऽपि सूत्रे '''अन्यत्रान्यत्रलब्धावकाशे''' न स्तः अतः '''तुल्यबलविरोधः''' नास्ति | '''आद्‌गुणः''' इति सामान्यं; '''वृद्धिरेचि''' इति विशेषः | यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया यस्मात्‌ कारणात्‌ अत्र लब्धावकाशे सति कार्यं न करोति चेत्‌ अन्यत्र अवकाशो नैव प्राप्स्यते, तत्‌ सूत्रम्‌ अपवाद इत्युच्यते | '''वृद्धिरेचि''', '''आद्‌गुणः''' इति सूत्रस्य '''अपवादः''' | अतः '''आद्‌गुणः''' इति सूत्रं बाधितं भवति '''वृद्धिरेचि''' इति सूत्रेण |
Line 125:
तुद्‌ + लट्‌     '''   वर्तमाने लट्‌''' (३.२.१२३)
 
तुद्‌ + ति '''        ''' (३.४.७८)
 
'''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्''' (३.४.७८)
 
 
तुद्‌ + श + ति '''  तुदादिभ्यः शः''' (३.१.७७),
Line 140 ⟶ 137:
नाम मध्ये श-विकरणप्रत्ययः तदानीं न भवति चेत्‌, गुणस्य प्राप्तिः | '''तुदादिभ्यः शः''' (३.१.७७) इत्यनेन श-प्रत्ययस्य करणात्‌ प्राक्‌ तिपं निमित्तीकृत्य गुणः भवति '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन | '''तुदादिभ्यः शः''' (३.१.७७) इति सूत्रं प्रति '''पुगन्तलघूपधस्य च''' (७.३.८६) तु परसूत्रम्‌, अतः तस्य कार्यं पूर्वं स्यात्‌ | अनेन चिन्तनेन तुद्‍ + ति → '''पुगन्तलघूपधस्य च''' → तोद्‌ + ति → '''तुदादिभ्यः शः''' → तोद्‌ + अ + ति → तोदति | किन्तु इदं रूपम्‌ अनिष्टम्‌ | तर्हि किं कर्तव्यम्‌ ?
 
अत्र नित्यम्‌ इति सिद्धान्तः आयाति, यतोहि विकरणप्रत्यये कृते गुणः न प्राप्य्ते किन्तु गुणे कृतेऽपि विकरणप्राप्तिः | कृताकृतप्रसङ्गे नित्यं— कृतेऽपि अकृतेऽपि यस्य प्रसङ्गः वर्तते, सः नित्यः | इदानीं गुणः तथा नास्ति— विकरणप्रत्यये कृते गुणप्राप्तिर्नास्ति | विकरणप्रत्यये अकृते एव गुणः प्राप्यते | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये श-विकरणप्रत्ययः नास्ति | विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिर्नास्ति ? इति चेत्‌, श-प्रत्ययः अपित्‌ | यद्यपि शित्‌ अस्ति अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः भवति स्म, किन्तु '''सार्वधातुकम्‌ अपित्‌''' (१.२.४) इत्यानेन अपित्‌ सार्वधातुकं ङिद्वत्‌ स्यात्‌ | अतः '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः |
 
श-प्रत्यये अकृते गुणः भवति किन्तु श-प्रत्यये कृते गुणः न भवति— तदर्थं गुणः अनित्यः | श-प्रत्ययस्य तु गुणे कृतेऽपि अकृतेऽपि प्राप्तिरस्ति | नाम गुणः क्रियतां, तुद्‌ + ति → तोद्‌ + ति → तदानीमपि '''तुदादिभ्यः शः''' (३.१.७७) इत्यनेन '''श'''-विकरणप्रत्ययः विहितः → तोद्‌ + श + ति | गुणे कृतेऽपि विकरणः प्राप्यते; गुणे अकृतेऽपि विकरणः प्राप्यते | कृताकृतप्रसङ्गे नित्यम्‌, अतः '''तुदादिभ्यः शः''' (३.१.७७) नित्यसूत्रम्‌ | यद्यपि '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य अपेक्षया पूर्वसूत्रं, तथापि तस्य ('''तुदादिभ्यः शः''' इत्यस्य) कार्यं पूर्वं प्रवर्तते |
Line 149 ⟶ 146:
 
 
ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम्‌ उच्यते— '''अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्‌ | एवं तदीयनिमित्तसमुदायाद्‌ बहिर्भूताङ्गकं बहिरङ्गम्‌''' | अन्तरङ्ग-शब्दे भागद्वयम्‌, अन्तर्‍ + अङ्गम्‌ | अन्तर्‍ इत्युक्ते 'मध्ये' | कस्य मध्ये ? बहिरङ्गशास्त्रीय-निमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्‌ | अनया रीत्या अन्तरङ्गशास्त्रीय-निमित्तसमुदायात्‌ बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्‌ |
 
इत्थञ्च '''अन्तर्भूतनिमित्तकत्वमन्तरङ्गत्वम्‌''' | बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत्‌, तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते, तदन्तरङ्गम्‌ | बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत्‌, अन्तरङ्गत्वम् |
 
उपर्युक्तं यत्‌ अन्तरङ्गं बहुविधम्‌; अत्र प्रकारद्वयं प्रदर्श्यते |
Line 162 ⟶ 159:
अस्य बोधनार्थं दृष्टान्तो दीयते—
 
सिव्‌-धातुः + न-प्रत्ययः → स्योन-शब्दः | 'न' इति उणादि-प्रत्ययः (३.९) | सर्वे उणादि-प्रत्ययाः कृत्‌-प्रत्ययाः |
 
'सिव्‌ + न' इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिर्भवति— '''लोपो व्योर्वलि''' (६.१.६६), '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''पुगन्तलघूपधस्य च''' (७.३.८६) | त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन्‌ विषये चिन्तनीयम्‌ |
 
'''लोपो व्योर्वलि''' (६.१.६६) = वल्‌-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''व्योः लोपः वलि''' |
Line 174 ⟶ 171:
दृष्टान्तः तुक्‌-सहित्‌-छकारस्य स्थाने शकारादेशः—
 
पाप्रच्छ्‌ + '''मि''' → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश्मि
 
'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |
Line 182 ⟶ 179:
 
 
'''लोपो व्योर्वलि''' (६.१.६६) इत्यस्य प्रप्तिर्भवति चेत्‌, '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे ऊठ्‌-आदेशः न कुत्रापि भविष्यति, अतः सूत्रस्य अयं भागः निरवकाशः | तदर्थं '''लोपो व्योर्वलि''' (६.१.६६) इत्यस्य अपवादः '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) |
 
ततः अग्रे चिन्तनीयं यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनयोर्मध्ये किं भवति | द्वयोः अपि अन्यत्र लब्धावकाशः, द्वयमपि अङ्गकार्यञ्च | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य परत्वात्‌ बलवत्‌ स्यात्‌ | 'सिव्‌ + न' → '''पुगन्तलघूपधस्य च''' (७.३.८६) → सेव्‌ + न |
Line 192 ⟶ 189:
 
 
सारांशः अत्र उच्यते | व्याकरणशास्त्रं शब्दशास्त्रमेव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यम्‌ | शब्दः नाम कः ? वर्णः पदं चेति; यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति | अर्थः तस्मात्‌ भिन्नः, संज्ञा च तस्मात्‌ भिन्ना | शब्दः अर्थवान्‌ भवति, अर्थविशिष्टः भवति— अतः अर्थः शब्दस्य विशेषणं; शब्दः एव विशेष्यः | स च शब्दः व्याकरणस्य प्रमुखविषयः | तदर्थम्‌ '''असिद्धं बहिरङ्गमन्तरङ्गे''' इति परिभाषायाम्‌‍ अङ्ग-शब्देन शब्दरूपि निमित्तस्य ग्रहणम्‌ | तात्पर्यम्‌ एवं यत्‌ अन्तरङ्गं, बहिरङ्गम्‌ इत्यनयोः 'अङ्ग'-शब्देन शब्दरूपि निमित्तं स्वीक्रियते |
 
उदाहरणार्थम्‌ अत्र सिव्‌ + न इति स्थितौ अङ्गसम्बन्धित्वम्‌, इक्त्वं, लघुत्वम्‌, उपधात्वम्‌, एतत्‌ सर्वं संज्ञानां भेदेऽपि अपेक्षमाणः शब्दः तु 'सिव्‌' इत्येव | अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य | शब्दशास्त्रे शब्दस्य एव प्राधान्यात्‌ सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्थः शब्दः एव निमित्तपदेन गृह्यते | न तु अर्थः संज्ञा वा |
Line 258 ⟶ 255:
 
 
अत्र धेयं यत्‌ 'अशित्त्वं भवेत्‌' इति नोक्तम्‌; अशिति प्रत्यये परे इति नोक्तम्‌; शिति न भवति इत्युक्तम्‌ | अतः निषेधार्थः | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्‌—
 
प्रथमं वाक्यम्‌ = उपदेशे एजन्तस्य धातोः आत्त्वं भवति | इति एकः अर्थः |
 
द्वितीयं वाक्यम्‌ = उपदेशे एजन्तस्य धातोः शिति प्रत्यये परे आत्त्वं न भवति | इति द्वितीयः अर्थः |
 
प्रथमे अर्थे किमुक्तम्‌ ? उपदेशे एजन्तस्य धातोः आत्त्वं भवति | कस्मिन्‌ परे ? नोक्तम्‌ | द्वितीये अर्थे तु शिति परे निषेधः | एवं च निषेधस्य निमित्तम्‌ अस्ति किन्तु विधिं प्रति निमित्तं नास्ति | तर्हि निषेधांशे निमित्तं वर्तते; विध्यंशे निमित्तं नास्ति |
 
एवं च यत्र द्वयोः सूत्रयोः एकत्र समकालप्राप्तिः— एकञ्च अपरनिमित्तकम्‌, अन्यस्य च निमित्तम्‌ अस्ति— तत्र प्रथमं सूत्रं द्वितीयं प्रति अन्तरङ्गम्‌ | तदर्थम्‌ '''आदेच उपदेशेऽशिति''' (६.१.४५) इति शास्त्रम्‌ अन्यत्‌ शास्त्रं प्रति अन्तरङ्गं भवति |
 
 
'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम्‌ | उपदेशावस्थायाम्‌ एजन्तधातूनाम्‌ अन्त्यस्य एचः स्थाने आत्वादेशः अशिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |
 
एवं च परिभाषेन्दुशेखरे ग्रन्थकारः वदति, '''अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्‌''' | 'अन्तर्भूतानि अङ्गानि' अत्र अन्तर्भूतत्वं बहुविधम्‌ अस्ति | अत्र अन्तर्भूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितम्‌ | कदाचि‌त्‌ पूर्वोपस्थितनिमित्तकतया भवति, कदाचित्‌ अपरनिमित्तकतया भवति, कदाचित्‌ तदीयसमुदायमध्ये भवति, कदाचित्‌ एकपदवर्णद्वयापेक्षतया भवति | अतः व्याख्यायां 'निमित्तानाम्‌ अन्तर्भावश्च' इत्यारभ्य लिखितम्‌ अस्ति |
Line 275 ⟶ 272:
 
'''c)''' एकं सूत्रम्‌ औत्सर्गिकं (सामान्यम्‌), अन्यत्‌ अपवादभूतम्‌ अस्ति चेत्‌, अपवादः बलवान्‌ | उदाहरणम्‌ उपरि दत्तम्‌—'''वृद्धिरेचि''' (६.१.८८), '''आद्‌गुणः''' (६.१.८७) इति सूत्रस्य '''अपवादः''' | अतः यद्यपि '''वृद्धिरेचि''' परसूत्रं, तथापि '''विप्रतिषेधे परं कार्यम्‌''' इत्यनेन तस्य कार्यं न सिध्यति | अनया परिभाषया सिध्यति, '''आद्‌गुणः''' इत्यस्य अपवादत्वात्‌ |
 
 
'''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' इति परिभाषायाः प्रथमपदद्वयं—'''पूर्वपर'''—'''विप्रतिषेधे परं कार्यम्‌''' इत्यस्य तात्पर्यम्‌ | तस्याः अग्रिमेण तत्त्वत्रयेण—'''नित्यान्तरङ्गापवाद'''—इत्यनेन '''विप्रतिषेधे परं कार्यम्‌''' इति सूत्रंं निषिध्यते | नाम '''नित्यान्तरङ्गापवाद''' एषु अन्यतमः अस्ति चेत्‌, '''तुल्यबलविरोधः''' नैव भवति | तुल्यबलविरोधाभावे परसूत्रस्य कार्यं पूर्वं न भवति | (तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम्‌ अर्हति, किन्तु '''नित्यान्तरङ्गापवाद''' इति शास्त्रेण; '''विप्रतिषेधे परं कार्यम्‌''' इत्यनेन न |)
 
 
 
Line 290 ⟶ 289:
 
 
 
'''1.''' <u>शास्त्रासिद्धम्‌</u> - द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्‌, परत्रिपादिसूत्रं स्वयम्‌ असिद्धम्‌ इति कारणात्‌ शास्त्रासिद्धम्‌ इत्युच्यते | अस्य बहूनि उदाहरणानि सन्ति |
 
'''a)''' यथा हल्‌-सन्धि-सूत्राणि सर्वाणि त्रिपाद्याम्‌ | अतः एकत्र हल्‌-सन्धि-विधायकसूत्रद्वयम्‌ आयाति चेत्‌, परसूत्रस्य असिद्धत्वात्‌ पूर्वसूत्रम्‌ आगत्य कार्यं करोति | यत्‌ + जायते → '''झलां जशोऽन्ते''' (८.२.३९), '''स्तोः श्चुना श्चुः''' (८.४.४०) एकत्र आयातः → '''स्तोः श्चुना श्चुः''' इत्यस्य असिद्धत्वात् '''झलां जशोऽन्ते''' पूर्वं भवति → यद् + जायते → '''स्तोः श्चुना श्चुः''' इत्यनेन श्चुत्वम्‌ → यज्‌ + जायते → यज्जायते | एवमेव सर्वाणि हल्‌-सन्धि-सूत्राणि |
Line 399:
|७६
|}
'''b)''' मनोरथः | मनसः इच्छा, अभिलाषा |
 
मनस्‌ + रथ → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य स्थाने रु-आदेशः → मन + रु + रथ → अनुबन्धलोपे → मनर्‌ + रथ → '''रो रि''' (८.३.१४), '''हशि च''' (६.१.११४) → '''रो रि''' इत्यनेन रेफस्य लोपस्य असिद्धत्वात्‌ '''हशि च''' इत्यनेन रेफस्य उकारादेशः → मन + उ + रथ → '''आद्‌गुणः''' (६.१.८७) इत्यनेन गुणादेशः → मनो + रथ → वर्णमेलने → मनोरथ
 
 
'''रो रि''' (८.३.१४) = रेफस्य रेफे परे लोपो भवति |
'''हशि च''' (६.१.११४) = हशि परे अतः उत्तरस्य रेफस्य उकारादेशो भवति |
 
 
 
Line 410 ⟶ 413:
 
कृ + क्तिन्‌ → कृति → सम्‌ + कृति → '''सम्परिभ्यां करोतौ भूषणे''' इत्यनेन सुट्‌-आगमः → सम्‌ + सुट् + कृति → अनुबन्धलोपे → सम्‌ + स्‌ + कृति → '''मो‍ऽनुस्वारः''' इत्यनेन म्‌-स्थाने अनुस्वारादेशः → परन्तु '''मो‍ऽनुस्वारः''' (८.३.२३), '''समः सुटि''' (८.३.५) च त्रिपादि-सूत्रे स्तः | अतः '''पूर्वत्रासिद्धिम्‌''' इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति; परसूत्रम्‌ असिद्धम्‌ → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → '''उपदेशेऽजनुनासिका इत्‌''' इत्यनेन उकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च → सर्‍ स्कृति → '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यनेन विकल्पेन अँ-आदेशः → विपक्षे '''अनुनासिकात्‌ परोऽनुस्वारः''' इत्यनेन अनुस्वारागमः → सँर्‍ स्कृति / संर्‌ स्कृति → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → '''विसर्जनीयस्य सः''' इत्यनेन विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |
 
 
 
'''2.''' <u>कार्यासिद्धम्‌</u> - पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात्‌ सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्‌, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन यत्‌ किमपि क्रियते तत्‌ '''पूर्वत्रासिद्धम्‌''' इत्यनेन असिद्धमम्‌; इदं कार्यासिद्धम्‌ इत्युच्यते |
 
 
उभौ + अपि → '''एचोऽयवायावः''' (६.१.७८) इत्यनेन यान्तवान्तादेशसन्धिः → उभावपि → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन विकल्पेन वकार-लोपः → उभा अपि → सवर्णदीर्घसन्धिः '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यस्य मनसि '''लोपः शाकल्यस्य''' इत्यस्य कार्यं नैव जातम्‌ अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्यासिद्धत्वात्‌ | उभा अपि |
Line 443 ⟶ 448:
 
अत्र सन्ति त्रीणि तिङन्तपदानि—
 
 
शक्नु + अन्ति → शक्नुवन्ति
Line 449 ⟶ 455:
 
कुरु + अन्ति → कुर्वन्ति
 
 
एषां रूपाणां निष्पादनार्थम्‌ अधः प्रासङ्गिकसूत्राणि दत्तानि | बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिः भवति, केषां च बाधा भवति, केन क्रमेण प्राप्तिं बाधां च आयुज्य रूपं साधनीयम्‌ इति निर्णीयताम्‌ | वर्गे अस्मिन्‌ विषये चर्चयिष्यामः; तत्पश्चत्‌ अत्रैव समाधानं लेखिष्यते |
 
 
 
'''a) "अन्ति" इत्यस्य प्रत्यय-सिद्धिः'''
 
 
परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः—
 
 
 
Line 463 ⟶ 473:
 
मिप्‌ वस्‌ मस्‌‍
 
 
'''झोऽन्तः''' (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | झकारे अन्त्‌-अवयवे च अकारः संयोजितः उच्चारणार्थम्‌ | '''आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य प्रत्ययस्य झः अन्तः''' |
Line 470 ⟶ 481:
 
'''b) <u>अङ्ग-व्युत्पत्तिः</u>'''
 
 
स्वादिगणे विकरणप्रत्ययः श्नु | '''स्वादिभ्यः श्नुः''' (३.१.७३) | '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपः | नु इति अवशिष्यते |
Line 479 ⟶ 491:
 
तनादिगणे '''तनादिकृञ्भ्यः उः''' (३.१.७९) इति सूत्रेण उ विकरण-प्रत्ययः विहितः भवति |
 
 
कुरु + अन्ति → कुर्वन्ति
Line 497 ⟶ 510:
 
'''c) <u>प्रासङ्गिकसूत्राणि</u>'''
 
 
अत्र अस्माकं चिन्तनं भवतु | १) शक्नु + अन्ति → शक्नुवन्ति; २) चिनु + अन्ति → चिन्वन्ति; ३) कुरु + अन्ति → कुर्वन्ति | एषां निष्पादनार्थम्‌ अधस्तनेषु सूत्रेषु केषां प्रसक्तिः, अपि च कस्मिन्‌ क्रमे | अत्र बलाबलस्य परिशीलनम्‌ अपेक्षितम्‌ |
 
 
 
Line 525 ⟶ 540:
 
अत्र प्रश्नः उदेति— '''इको यणचि''' (६.१.७७) इति सूत्रं यदा बाधितं भवति '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन, तदा एकवारं यदा गुणनिषेधो भवति '''क्क्ङिति च''' (१.१.५) , तत्पश्चात्‌ पुनः '''इको यणचि''' (६.१.७७) इत्यस्य प्राप्तिः कथं वा स्यात्‌ ? अत्र परिभाषाद्वयस्य प्रसङ्गे चिन्तनं कुर्यात्‌— '''पुनः प्रसङ्गविज्ञानात्सिद्धम्‌''' (३९), '''सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव''' (४०) च |
 
 
 
653

edits