04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions
04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam (view source)
Revision as of 12:53, 10 May 2021
, 3 years agoline spacing
Bina Radia (talk | contribs) (line spacing) |
Bina Radia (talk | contribs) (line spacing) |

Line 143:
नाम मध्ये श-विकरणप्रत्ययः तदानीं न भवति चेत्, गुणस्य प्राप्तिः | '''तुदादिभ्यः शः''' (३.१.७७) इत्यनेन श-प्रत्ययस्य करणात् प्राक् तिपं निमित्तीकृत्य गुणः भवति '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन | '''तुदादिभ्यः शः''' (३.१.७७) इति सूत्रं प्रति '''पुगन्तलघूपधस्य च''' (७.३.८६) तु परसूत्रम्, अतः तस्य कार्यं पूर्वं स्यात् | अनेन चिन्तनेन तुद् + ति → '''पुगन्तलघूपधस्य च''' → तोद् + ति → '''तुदादिभ्यः शः''' → तोद् + अ + ति → तोदति | किन्तु इदं रूपम् अनिष्टम् | तर्हि किं कर्तव्यम् ?
अत्र नित्यम् इति सिद्धान्तः आयाति, यतोहि विकरणप्रत्यये कृते गुणः न प्राप्य्ते किन्तु गुणे कृतेऽपि विकरणप्राप्तिः | कृताकृतप्रसङ्गे नित्यं— कृतेऽपि अकृतेऽपि यस्य प्रसङ्गः वर्तते, सः नित्यः | इदानीं गुणः तथा नास्ति— विकरणप्रत्यये कृते गुणप्राप्तिर्नास्ति | विकरणप्रत्यये अकृते एव गुणः प्राप्यते | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये श-विकरणप्रत्ययः नास्ति | विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिर्नास्ति ? इति चेत्, श-प्रत्ययः अपित् | यद्यपि शित् अस्ति अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः भवति स्म, किन्तु '''सार्वधातुकम् अपित्''' (१.२.४) इत्यानेन अपित् सार्वधातुकं ङिद्वत् स्यात् | अतः '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः |
Line 177 ⟶ 179:
सिव्-धातुः + न-प्रत्ययः → स्योन-शब्दः | 'न' इति उणादि-प्रत्ययः (३.९) | सर्वे उणादि-प्रत्ययाः कृत्-प्रत्ययाः |
'सिव् + न' इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिर्भवति— '''लोपो व्योर्वलि''' (६.१.६६), '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''पुगन्तलघूपधस्य च''' (७.३.८६) | त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम् |
Line 212 ⟶ 216:

सारांशः अत्र उच्यते | व्याकरणशास्त्रं शब्दशास्त्रमेव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यम् | शब्दः नाम कः ? वर्णः पदं चेति; यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति | अर्थः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्ना | शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति— अतः अर्थः शब्दस्य विशेषणं; शब्दः एव विशेष्यः | स च शब्दः व्याकरणस्य प्रमुखविषयः | तदर्थम् '''असिद्धं बहिरङ्गमन्तरङ्गे''' इति परिभाषायाम् अङ्ग-शब्देन शब्दरूपि निमित्तस्य ग्रहणम् | तात्पर्यम् एवं यत् अन्तरङ्गं, बहिरङ्गम् इत्यनयोः 'अङ्ग'-शब्देन शब्दरूपि निमित्तं स्वीक्रियते |
उदाहरणार्थम् अत्र सिव् + न इति स्थितौ अङ्गसम्बन्धित्वम्, इक्त्वं, लघुत्वम्, उपधात्वम्, एतत् सर्वं संज्ञानां भेदेऽपि अपेक्षमाणः शब्दः तु 'सिव्' इत्येव | अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य | शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्थः शब्दः एव निमित्तपदेन गृह्यते | न तु अर्थः संज्ञा वा |
Line 230 ⟶ 235:
स्थानिवद्भावः नाम कः इति चेत्, आदेशस्य स्वभावः स्थानिवत् भवति | दृष्टान्ते चतुर्थीविभक्तौ 'राम + ङे' इति स्थितौ '''ङेर्यः''' (७.१.१३) इत्यनेन अतः अङात् ङेः यः भवति, नाम अदन्तात् अङ्गात् ङे-प्रत्ययस्य स्थाने 'य'-आदेशो भवति | राम + ङे → राम + य | अत्र '''सुपि च''' (७.३.१०२) इत्यनेन अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यञादि-सुप्-प्रत्यये परे | सुप्-प्रत्याहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः— सु, औ, जस्, अम्, औट्, शस्, टा, भ्याम्, भिस्, ङे, भ्याम्, भ्यस्, ङसि, भ्याम्, भ्यस्, ङस्, ओस्, आम्, ङि, ओस्, सुप् | अधुना 'य'-आदेशः यद्यपि यञादिः किन्तु सुप् नास्ति अतः '''सुपि च''' (७.३.१०२) इत्यस्य प्रसक्तिः न स्यात् | किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावोऽपि तथा | स्थानिनः स्वभावस्य सुपि अध्याहृते य-प्रत्ययस्य सुप्त्वात् '''सुपि च''' (७.३.१०२) इत्यस्य प्रसक्तिः भवति | राम + य → '''सुपि च''' (७.३.१०२) इत्यनेन अदन्ताङ्गस्य दीर्घादेशः → रामाय इति रूपं सिध्यति | अत्र '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति अतिदेशसूत्रम् | आदेशः स्थानिना तुल्यं भवति किन्तु स्थानिसम्बद्धस्य अल्-वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत्, तुल्यं न भवति |
अधुना त्रयादेशस्य अनन्तरं 'त्रया + नाम्' इति स्थितौ स्थानिवद्भावेन तिसृ-आदेशः | इत्युक्तौ त्रय इति आदेशः त्रि-शब्दः इव अस्ति, 'त्रि + नाम्' | '''एकदेशविकृतम् अनन्यवत्''' इति परिभाषया एकदेशविकारः जातश्चेदपि अनन्यवत्— अन्यवत् न भवति | अनेन त्रय इत्यस्मिन् दीर्घादेशः (त्रया) इति जातः चेदपि त्रय इतिवत्, त्रय इव भवति | अनेन त्रयादेशस्य स्थानिवद्भावेन 'त्रि + नाम्' इति स्थितिः |
Line 278 ⟶ 284:

अत्र धेयं यत् 'अशित्त्वं भवेत्' इति नोक्तम्; अशिति प्रत्यये परे इति नोक्तम्; शिति न भवति इत्युक्तम् | अतः निषेधार्थः | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्—
प्रथमं वाक्यम् = उपदेशे एजन्तस्य धातोः आत्त्वं भवति | इति एकः अर्थः |
द्वितीयं वाक्यम् = उपदेशे एजन्तस्य धातोः शिति प्रत्यये परे आत्त्वं न भवति | इति द्वितीयः अर्थः |
प्रथमे अर्थे किमुक्तम् ? उपदेशे एजन्तस्य धातोः आत्त्वं भवति | कस्मिन् परे ? नोक्तम् | द्वितीये अर्थे तु शिति परे निषेधः | एवं च निषेधस्य निमित्तम् अस्ति किन्तु विधिं प्रति निमित्तं नास्ति | तर्हि निषेधांशे निमित्तं वर्तते; विध्यंशे निमित्तं नास्ति |
Line 289 ⟶ 297:
'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम् एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः अशिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''एचः धातोः आत् उपदेशे अशिति''' |
एवं च परिभाषेन्दुशेखरे ग्रन्थकारः वदति, '''अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्''' | 'अन्तर्भूतानि अङ्गानि' अत्र अन्तर्भूतत्वं बहुविधम् अस्ति | अत्र अन्तर्भूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितम् | कदाचित् पूर्वोपस्थितनिमित्तकतया भवति, कदाचित् अपरनिमित्तकतया भवति, कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपदवर्णद्वयापेक्षतया भवति | अतः व्याख्यायां 'निमित्तानाम् अन्तर्भावश्च' इत्यारभ्य लिखितम् अस्ति |
Line 298 ⟶ 307:

'''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' इति परिभाषायाः प्रथमपदद्वयं—'''पूर्वपर'''—'''विप्रतिषेधे परं कार्यम्''' इत्यस्य तात्पर्यम् | तस्याः अग्रिमेण तत्त्वत्रयेण—'''नित्यान्तरङ्गापवाद'''—इत्यनेन '''विप्रतिषेधे परं कार्यम्''' इति सूत्रंं निषिध्यते | नाम '''नित्यान्तरङ्गापवाद''' एषु अन्यतमः अस्ति चेत्, '''तुल्यबलविरोधः''' नैव भवति | तुल्यबलविरोधाभावे परसूत्रस्य कार्यं पूर्वं न भवति | (तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु '''नित्यान्तरङ्गापवाद''' इति शास्त्रेण; '''विप्रतिषेधे परं कार्यम्''' इत्यनेन न |)
अधः अस्माकं वसुधा-भगिनी अस्याः परिभाषायाः सिद्धान्तं सुन्दरतया निरूपितवती !
Line 308 ⟶ 319:
'<nowiki/>''४. '''पूर्वत्रासिद्धम्'<nowiki/>''''' (८.२.१) = अनेन सूत्रेण अष्टाध्याय्यी इति ग्रन्थः भागद्वये विभजितः | प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः; अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः | प्रथमभागस्य नाम सपादसप्ताध्यायी; द्वितीयभागस्य नाम त्रिपादी | अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्याय्यां सन्ति, तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि | अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति, तानि प्रति परं स्थितानि सूत्राणि असिद्धानि | सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् | त्रयाणां पादानां समाहारः त्रिपादी (द्विगुसमासः) | सप्तानाम् अध्यायानां समाहारः सप्ताधायी; पादेन सहिता, सपादसप्ताध्यायी | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम्, असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | इदं सूत्रम् अधिकारसूत्रम्; अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते |
'''पूर्वत्रासिद्धम्''' इत्यस्य कार्यं द्विविधं— '''शास्त्रासिद्धं''', '''कार्यासिद्धं''' च | द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्, परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रासिद्धम् इत्युच्यते | पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात् सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन परत्रिपादिसूत्रेण यत् किमपि क्रियते तत् '''पूर्वत्रासिद्धम्''' इत्यनेन असिद्धम्; इदं कार्यासिद्धम् इत्युच्यते |

'''1.''' शास्त्रासिद्धम् - द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्, परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रासिद्धम् इत्युच्यते | अस्य बहूनि उदाहरणानि सन्ति |
'''a)''' यथा हल्-सन्धि-सूत्राणि सर्वाणि त्रिपाद्याम् | अतः एकत्र हल्-सन्धि-विधायकसूत्रद्वयम् आयाति चेत्, परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति | यत् + जायते → '''झलां जशोऽन्ते''' (८.२.३९), '''स्तोः श्चुना श्चुः''' (८.४.४०) एकत्र आयातः → '''स्तोः श्चुना श्चुः''' इत्यस्य असिद्धत्वात् '''झलां जशोऽन्ते''' पूर्वं भवति → यद् + जायते → '''स्तोः श्चुना श्चुः''' इत्यनेन श्चुत्वम् → यज् + जायते → यज्जायते | एवमेव सर्वाणि हल्-सन्धि-सूत्राणि |
{| class="wikitable"
Line 420 ⟶ 433:
|७६

'''b)''' मनोरथः | मनसः इच्छा, अभिलाषा |
Line 432 ⟶ 446:

'''c)''' '''मोऽनुस्वारः''' (८.३.२३), '''समः सुटि''' (८.३.५)
कृ + क्तिन् → कृति → सम् + कृति → '''सम्परिभ्यां करोतौ भूषणे''' इत्यनेन सुट्-आगमः → सम् + सुट् + कृति → अनुबन्धलोपे → सम् + स् + कृति → '''मोऽनुस्वारः''' इत्यनेन म्-स्थाने अनुस्वारादेशः → परन्तु '''मोऽनुस्वारः''' (८.३.२३), '''समः सुटि''' (८.३.५) च त्रिपादि-सूत्रे स्तः | अतः '''पूर्वत्रासिद्धिम्''' इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति; परसूत्रम् असिद्धम् → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम् → सरु + स् + कृति → '''उपदेशेऽजनुनासिका इत्''' इत्यनेन उकारस्य इत्-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च → सर् स्कृति → '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यनेन विकल्पेन अँ-आदेशः → विपक्षे '''अनुनासिकात् परोऽनुस्वारः''' इत्यनेन अनुस्वारागमः → सँर् स्कृति / संर् स्कृति → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → '''विसर्जनीयस्य सः''' इत्यनेन विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |
Line 560 ⟶ 574:

सार्वधातुकलकारेषु "पित्सु गुणः, अपित्सु गुण-निषेधः" इति अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः | शित् प्रत्ययाः सार्वधातुकसंज्ञकाः | तेषु ये पित् अपि सन्ति, तेषां द्वारा गुणकार्यं सम्भवति | ये अपित् सन्ति (नाम ये पित् न सन्ति), तेषां द्वारा गुणकार्यं निषिद्धं-- न सम्भवति एव | तर्हि यः प्रत्ययः शित् अपि अस्ति, पित् अपि अस्ति तस्य एव द्वारा गुणगार्यं सिध्यते | विकरणप्रत्ययेषु कः प्रत्ययः शित् अपि पित् अपि अस्ति ? केवलं शप् | श्यन्, श्नु, श, श्नम्, श्ना च शित् सन्ति किन्तु अपित् सन्ति, अतः तेषाम् उपस्थितौ गुणकार्यं निषिद्धम् | तर्हि शप् कुत्र लभ्यते ? केवलं भ्वादिगणे चुरादिगणे च | धातुः अङ्गं मनसि निधाय, अङ्गकार्ये गुणः सम्भवति केवलं भ्वादिगणे चुरादिगणे च | भ्वादिगणे यत्र धातुः इगुपधः वा इगन्तः वा, तत्र अङ्गे गुणकार्यं भवति | चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित् भिन्नः यतः शप्-इत्यस्मात् पूर्वं णिच् भवति | णिचि अनुबन्धलोपं कृत्वा "इ" इत्येव अवशिष्यते; तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति |
अत्र प्रश्नः उदेति— '''इको यणचि''' (६.१.७७) इति सूत्रं यदा बाधितं भवति '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन, तदा एकवारं यदा गुणनिषेधो भवति '''क्क्ङिति च''' (१.१.५) , तत्पश्चात् पुनः '''इको यणचि''' (६.१.७७) इत्यस्य प्राप्तिः कथं वा स्यात् ? अत्र परिभाषाद्वयस्य प्रसङ्गे चिन्तनं कुर्यात्— '''पुनः प्रसङ्गविज्ञानात्सिद्धम्''' (३९), '''सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव''' (४०) च |