|
|
<big><br />
अत्र नित्यम् इति सिद्धान्तः आयाति, यतोहि विकरणप्रत्यये कृते गुणः न प्राप्य्तेप्राप्यते किन्तु गुणे कृतेऽपि विकरणप्राप्तिः | कृताकृतप्रसङ्गे नित्यं— कृतेऽपि अकृतेऽपि यस्य प्रसङ्गः वर्तते, सः नित्यः | इदानीं गुणः तथा नास्ति— विकरणप्रत्यये कृते गुणप्राप्तिर्नास्ति | विकरणप्रत्यये अकृते एव गुणः प्राप्यते | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये श-विकरणप्रत्ययः नास्ति | विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिर्नास्ति ? इति चेत्, श-प्रत्ययः अपित् | यद्यपि शित् अस्ति अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः भवति स्म, किन्तु '''सार्वधातुकम् अपित्''' (१.२.४) इत्यानेन अपित् सार्वधातुकं ङिद्वत् स्यात् | अतः '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः |</big>
<big><br /></big>
|