|
|
<big><br />
तर्हि अग्रे प्रकृतविषये स्योनशब्दप्रसङ्गे, कैयटस्य प्राचीनानां ववा मतं यत् यथा अर्थनिमित्तकत्वं भवति, तथैव संज्ञानिमित्तकत्वं भवति— संज्ञा अपि एकं निमित्तम् | नागेशः नवीनाः च एतत् न स्वीकुर्वन्ति | अर्थप्रसङ्गे ते वदन्ति— स्त्रीत्वम् अर्थनिष्ठं भवति; स्त्रीत्वं न शब्दः | शब्दशास्त्रे शब्दस्य प्राधान्यं; गुणानां प्राधान्यं न | अर्थः न आश्रीयते, शब्दः एव निमित्ततया आश्रीयते अतः 'स्त्रियाम्' इति कथनेऽपि तत् निमित्ततया वक्तुं न शक्यम् | एवमेव नागेशः वदति यत् संज्ञा न शब्दः, अतः संज्ञा न निमित्तम् |</big>
<big><br />
तर्हि ततः परं नागेशस्य मतं भाष्यकारस्य च सिद्धन्तंसिद्धान्तं मनसि निधाय शब्दरूपमेव ग्राह्यम् इति निश्चीयते चेत्, यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति, तदन्तरङ्गम् | तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते, तदन्तरङ्गम् | तदन्तर्भूतञ्च बहुविधम् |</big>
<big><br />
|