04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions

Copied text and links from Google Sites
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)

(Copied text and links from Google Sites)
Line 1:
ध्वनिमुद्रणानि -
<please replace this with content from corresponding Google Sites page>

2017 वर्गः

१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/79_aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2017-05-24.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2017-05-24]

२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/80_aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2017-05-31.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2017-05-31]

३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/81_aShTAdhyAyyAM_sUtrANAM_balAbalam_III--antarangam-1_2017-06-07.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_III--antarangam-1_2017-06-07]

४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/82_aShTAdhyAyyAM_sUtrANAM_balAbalam_IV--antarangam-2---arthanimittakatvam_2017-06-14.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_IV--antarangam-2---arthanimittakatvam_2017-06-14]

५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/83_aShTAdhyAyyAM_sUtrANAM_balAbalam_V--antarangam-3---arthanimittakatvam__pUrvopasthitanimittakatvam_2017-06-21.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_V--antarangam-3---arthanimittakatvam_+_pUrvopasthitanimittakatvam_2017-06-21]

६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/84_aShTAdhyAyyAM_sUtrANAM_balAbalam_VI--antarangam-4---aparanimittakam__apavAdaH__pUrvatrAsiddham_2017-06-28.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_VI--antarangam-4---aparanimittakam_+_apavAdaH_+_pUrvatrAsiddham_2017-06-28]

७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/85_aShTAdhyAyyAM_sUtrANAM_balAbalam_VII--pUrvatrAsiddham__balAbala-abhyAsaH---shaknu__anti_2017-07-05.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_VII--pUrvatrAsiddham_+_balAbala-abhyAsaH---shaknu_+_anti_2017-07-05]

८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/86_sUtrANAM_balAbalam_VIII--abhyAsaH---cinu__anti__kuru__anti_2017-07-12.mp3 sUtrANAM_balAbalam_VIII--abhyAsaH---cinu_+_anti_&_kuru_+_anti_2017-07-12]

2014 वर्गः

१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/06_aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2014-07-02.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2014-07-02]

२) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/07_aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2014-07-09.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2014-07-09]

३)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/08_aShTAdhyAyyAM_sUtrANAM_balAbalam_III_2014-07-16.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_III_2014-07-16]

४) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/09_aShTAdhyAyyAM_sUtrANAM_balAbalam_IV_2014-07-23.mp3 aShTAdhyAyyAM_sUtrANAM_balAbalam_IV_2014-07-23]

अष्टाध्याय्याः सूत्रक्रमायोजनं किम्‌ ?

१)

प्रश्नः समीचीन एव | यथा, किमर्थं समाससम्बद्धानि सूत्राणि ग्रन्थस्य आरम्भे, किञ्च सन्धिसम्बद्धानि सूत्राणि ग्रन्थस्य अन्ते ? किमर्थं प्रत्ययेषु सनादयः प्रत्ययाः प्रथमाः ? यः शिष्यः अस्ति, तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति | नाम अष्टाध्याय्याः बहिः तादृशः बाह्यः तर्कः न दृश्यते यत्‌ अध्येतॄणां कृते लाभदायकः स्यात्‌ |

१) १)

उत्तरम्‌ अस्ति यत्‌ अष्टाध्याय्याः अन्त एव कश्चन सुन्दरतर्कोऽस्ति | तस्य च तर्कस्य लक्ष्यम्‌ अस्ति ग्रन्थस्य लघुत्वम्‌ | येन सूत्राणि अतिन्यूनानि स्युः, किन्तु विषयः सम्पूर्णस्स्यात्‌ | तदर्थं सर्वं कृतं; तदर्थम्‌ एतादृशः क्रमः विरचितः | लघुत्वस्य सिद्ध्यर्थम्‌ (१) अनुवृत्तिः सर्वत्र अनुस्यूता भवेत्‌, (२) सूत्राणां बलाबलम्‌ समन्वितं स्यात्‌ |

१) १)

अनुवृत्ति-विषये अस्माकं परिचयस्तु जातः; अधुना सूत्राणां बलाबल-प्रसङ्गे वक्तव्यम्‌ | यदा किञ्चनपदं निर्मीयते, तदा निर्माणार्थं सोपानानि सन्ति | एकैकस्मिन्‌ सोपाने कार्यं वर्तते | केन क्रमेण इदं सर्वं स्यात्‌ अपि च कस्मिंश्चित्‌ अवसरे किं सूत्रम्‌ आगत्य कार्यं कुर्यात्‌ इति निर्णेतुं सूत्राणां बलाबलं भवति | एकस्मिन्‌ समये द्वयोः सूत्रयोः प्रसक्तिः; अथवा बहूनां सूत्राणां प्रसक्तिः | तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत्‌ ? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना | बलाबलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयम्‌ | इमे द्वे सूत्रे द्वे परिभाषे च, अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति |

१) १)

'''१.''' महाभाष्यवाक्यम्‌ - '''अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः''' | लब्धः अवकाशः यस्य तत्‌, लब्धावकाशं सूत्रम्‌ | यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित्‌ कार्यं कर्तुम्‌ अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत्‌ एकस्मिन्‌ स्थले कार्यं कर्तुम्‌ आगच्छतः, तर्हि इमे द्वे सूत्रे '''तुल्यबले''' इत्युच्यते | अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः, सः '''तुल्यबलविरोधः''' इत्युच्यते |

१) १)

यथा—

१)

'''सुपि च''' (७.३.१०२) = अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यञादि-सुप्‌-प्रत्यये परे | अनुवृत्ति-सहितसूत्रं— '''यञि सुपि च अङ्गस्य अतः दीर्घः''' | वृक्ष + भ्याम्‌ → वृक्ष्‌ + आ + भ्याम्‌ → वृक्षाभ्याम्‌ |

१) १)

'''बहुवचने झल्येत्‌''' (७.३.१०३) = अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशो भवति झलादि-बहुवचनार्थ-सुप्‌-प्रत्यये परे | अनुवृत्ति-सहितसूत्रं— '''बहुवचने झलि सुपि अङ्गस्य अतः एत्‌''' | वृक्ष + सुप्‌ → वृक्ष्‌ + ए + सु → वृक्षेषु |

१) १)

वृक्ष + भ्याम्‌ इति स्थितौ '''सुपि च''' इत्यस्य प्रसक्तिरस्ति, '''बहुवचने झल्येत्‌''' इत्यस्य प्रसक्तिर्नास्ति (यतः भ्याम्‌ बहुवचनार्थे नास्ति) | वृक्ष + सु इति स्थितौ '''बहुवचने झल्येत्‌''' इत्यस्य प्रसक्तिरस्ति, '''सुपि च''' इत्यस्य प्रसक्तिर्नास्ति (यतः सुप्‌ यञादिः नास्ति) | अतः उभयत्र '''एकत्र प्राप्तिः''' नास्ति— सूत्रविरोधः नास्ति; उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः |

१) १)

वृक्ष + भ्यस् = अत्र किं भवति इति पश्याम | भ्यस् यञादि-सुप्‌-प्रत्ययः अतः '''सुपि च''' इत्यस्य प्रसक्तिरस्ति | भ्यस् झलादि-बहुवचनार्थ-सुप्‌-प्रत्ययः अतः '''बहुवचने झल्येत्‌''' इत्यस्य प्रसक्तिरस्ति | द्वेऽपि सूत्रे अन्यत्रलब्धावकाशे अपि च तयोः अधुना एकत्रप्राप्तिः वृक्ष + भ्यस् इत्यस्यां स्थितौ— अतः अत्र '''तुल्यबलविरोधः''' वर्तते | द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत्‌ इति निर्णेतुं अग्रे पठेम |

१) १)

प्रथमम्‌ एकम्‌ उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिरस्ति, परन्तु '''तुल्यबलविरोधः''' नास्ति | अत्र + एव = अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं सिध्यति इति पश्येम | अत्र द्वयोः सूत्रयोः प्रसक्तिरस्ति— '''आद्‌गुणः''' च '''वृद्धिरेचि''' च |

१) १)

'''आद्‌गुणः''' (६.१.८७) = अवर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अत्र '''अचि परे''' इत्यस्य '''इकि परे''' इति फलितः अर्थः यतः अकारात्‌ अकारः चेत्‌ कार्यं बाधितम्‌ '''अकः सवर्णे दीर्घः''' इत्यनेन; अकारात्‌‍ एच्‌ चेत् कार्यं बाधितं '''वृद्धिरेचि''' इत्यनेन सूत्रेण च | आत्‌ पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌''' |

१) १)

'''वृद्धिरेचि''' (६.१.८८) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | वृद्धिः प्रथमान्तम्‌, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आद्‌गुणः''' (६.१.८७) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |

१)

इदानीम्‌ अस्माकम्‌ उदाहरणम्‌— अत्र + एव | पूर्वम्‌ अकारः अस्ति, पश्चात्‌ एकारः | एकारः अचि अपि अस्ति, एचि अपि अस्ति | अतः द्वयोः सूत्रयोः प्रसक्तिः— '''एकत्र प्राप्तिः''' अस्ति | अत्र किं भवति, गुणसन्धिः वा वृद्धिसन्धिः वा ? अधुना द्रष्टव्यं यत्‌ '''तुल्यबलविरोधः''' अस्ति न वा | तुल्यबलविरोधार्थं द्वयोः सूत्रयोः '''अन्यत्रलब्धावकाशः''' भवेत्‌ | अत्र + एव इत्यस्यां दशायां '''आद्‌गुणः''' कार्यं करोति चेत्‌, '''वृद्धिरेचि''' इत्यस्य अन्यत्रावकाशः भविष्यति वा ? नैव | एचि यदि गुणसन्धिः भवति, तर्हि '''वृद्धिरेचि''' इति सूत्रं निर्व्यापारं नाम सुतरां व्यर्थं भविष्यति | तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति | अस्यां दशायां द्वेऽपि सूत्रे '''अन्यत्रान्यत्रलब्धावकाशे''' न स्तः अतः '''तुल्यबलविरोधः''' नास्ति | '''आद्‌गुणः''' इति सामान्यं; '''वृद्धिरेचि''' इति विशेषः | यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया यस्मात्‌ कारणात्‌ अत्र लब्धावकाशे सति कार्यं न करोति चेत्‌ अन्यत्र अवकाशो नैव प्राप्स्यते, तत्‌ सूत्रम्‌ अपवाद इत्युच्यते | '''वृद्धिरेचि''', '''आद्‌गुणः''' इति सूत्रस्य '''अपवादः''' | अतः '''आद्‌गुणः''' इति सूत्रं बाधितं भवति '''वृद्धिरेचि''' इति सूत्रेण |

१) १)

'''आद्‌गुणः''' इति सूत्रे '''अचि परे''' इत्यस्य '''इकि परे''' इति फलितः अर्थः यतः अकारात्‌ अकारः परश्चेत्‌ कार्यं बाधितम्‌ '''अकः सवर्णे दीर्घः''' इत्यनेन; अकारात्‌‍ एच्‌ परश्चेत् कार्यं बाधितं '''वृद्धिरेचि''' इत्यनेन सूत्रेण च | वृद्धिशास्त्रस्य अवकाशं कल्पयित्वा तद्भिन्नस्थलेषु गुणशास्त्र-प्रवृत्तिः कर्तव्या |

१) १)

तर्हि अत्र '''तुल्यबलविरोधः''' नास्ति अतः किं सूत्रं कार्यं करोति इति निर्णेतुं समस्या नास्ति | अधुना अस्माकं पूर्वतनम्‌ उदाहरणं प्रत्यागच्छाम | वृक्ष + भ्यस् | अत्र द्वयोः सूत्रयोः एकत्रप्राप्तिः— '''सुपि च''', '''बहुवचने झल्येत्‌''' च | द्वयोरपि अन्यत्र लब्धावकाशः अतः '''तुल्यबलविरोधः''' अस्ति | '''तुल्यबलविरोधः''' इत्यस्य समानार्थी शब्दः '''विप्रतिषेधः''' | अत्र कस्य सूत्रस्य प्राप्तिः भवेत्‌ इति निर्णेतुम्‌ एकं सूत्रं साहाय्यं करोति |

१) १)

'''२. विप्रतिषेधे परं कार्यम्‌''' (१.४.२) = समानकाले तुल्यबले सूत्रे कार्यं कर्तुम्‌ आयातश्चेत्‌, परसूत्रस्य कार्यं पूर्वं भवति | विप्रतिषेधे सप्तम्यन्तं, परं प्रथमान्तं, कार्यं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः |

१) १)

वृक्ष + भ्यस्‌ → '''विप्रतिषेधे परं कार्यम्‌''' → '''सुपि च''' (७.३.१०२) इत्यस्य अपेक्षया '''बहुवचने झल्येत्‌''' (७.३.१०३) परम्‌ अस्ति अतः तद्‌ बलवत्‌ → एकारादेशः → वृक्ष्‌ + ए + भ्यस्‌ → वृक्षेभ्यः |

१) १)

अष्टाध्याय्यां यत्र यत्र '''तुल्यबलविरोधः''' तत्र तत्र '''विप्रतिषेधे परं कार्यम्‌''' आगत्य सूचयति यत्‌ परसूत्रस्य कार्यं पूर्वं भवति (धेयं यत्‌ अस्य सूत्रस्य प्रसक्तिर्नास्ति त्रिपाद्याम्‌; अग्रे [#४] इयं सूचना प्राप्यते) | अध्याय-दृष्ट्या, पाद-दृष्ट्या, सूत्रसङ्ख्या-दृष्ट्या एकं सूत्रं परम्‌ अस्ति चेत्‌, तत्‌ सूत्रं परसूत्रम्‌ इत्युच्यते |

१) १)

इदानीम्‌ '''आद्‌गुणः''' (६.१.८७), '''वृद्धिरेचि''' (६.१.८८) इति पश्येम | अस्माभिः दृष्टं यत्‌ अत्र + एव इति स्थितौ '''वृद्धिरेचि''' इत्यस्य प्राबल्यम्‌ अस्ति अपवादत्वात्‌ | '''वृद्धिरेचि''' इत्यस्य अन्यत्रलब्धावकाशो नास्ति; अतः अत्रैव [अत्र + एव] कार्यं साधनीयम्‌ |

१) १)

'''वृद्धिरेचि''' परसूत्रम्‌ अस्ति; तथापि अत्र '''विप्रतिषेधे परं कार्यम्‌''' इत्यनेन स्वस्य कार्यं न सिध्यति यतः अत्र तुल्यबलविरोधः नास्ति | '''विप्रतिषेधः''' इत्युक्तौ तुल्यबलविरोधः; परसूत्रस्य कार्यं भवति यदा विप्रतिषेधः विद्यते | अत्र + एव इति स्थितौ विप्रतिषेधः नास्ति (वृद्धिरेचि अत्र कार्यं न करोति चेत्‌, कुत्रापि कर्तुं न शक्ष्यति—अन्यत्रलब्धावकाशो नास्ति) अतः अत्र '''विप्रतिषेधे परं कार्यम्‌''' इति सूत्रेस्य प्रसक्तिर्नास्त्येव |

१) १)

'''सुपि च''' - '''बहुवचने झल्येत्‌''' इति एका स्थितिः; '''आद्‌गुणः''' - '''वृद्धिरेचि''' इति अन्या स्थितिः | पूर्वस्यां स्थित्यां '''विप्रतिषेधे परं कार्यम्‌''' इत्यनेन बलाबलस्य निर्णयः क्रियते; उत्तरस्यां स्थित्यां सामान्यविशेषत्वम्‌ (अपवादभूतत्वम्‌) इत्यनेन बलाबलस्य निर्णयः क्रियते | अधः चित्रद्वयम्‌ अस्ति, येन अस्माकं चित्रा-भगिन्या विप्रतिषेधः अपवादः चेत्यनयोर्भेदः सुन्दररीत्या निरूप्यते | अवश्यं दृश्यताम्‌ ! अधोभागे तयोः pdf अपि प्राप्यते, download इत्यर्थम्‌ | चित्रा-भगिनि, धन्यवादाः !
teachers
279

edits