04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam: Difference between revisions

no edit summary
No edit summary
No edit summary

(3 intermediate revisions by the same user not shown)
Line 36:
आकारान्तधातूनां कृते—

अङ्गकार्यम्‌ = '''आटोआतो लोप इटि च''', '''श्नाभ्यस्तयोरातः''', '''आतो युक्‌ चिण्कृतोः'''|

प्रत्ययाः विहिताः = '''आतोऽनपुसर्गे कः''', '''आतो मनिन्‌-क्वनिब्‌-वनिपश्च''', '''आतो युच्''' |
Line 89:

वैयाकरणसिद्धान्तकौमुद्याम्‌ एकैकधातोः दश दश लकाराः क्रमेण साध्यन्ते | प्रथमधातुः दशापिदशसु अपि लकारेषु प्रदिशति; पुनः द्वितीयधातुः पुनः दशापिदशसु अपि लकारेषु प्रदिशति | अयं क्रमः वैज्ञानिको न | अनेन कस्यापि लकारस्य सम्यक्‌ बोधो न जायते | अनेन विद्यार्थिनां प्रचुरः सङ्घर्षः अपेक्षितः | तावता कष्टेनापि नैपुण्यं न भवति | यत्र यत्र संस्कृतस्य व्याकरणपाठः क्रियते, तत्र तत्र एतादृशी गतिः | अत्यन्तं सङ्घर्षः, समयः अधिकः, फलं न्यूनम्‌ | फलम्‌ इत्युक्ते प्रक्रियाः ज्ञातव्याः अपि च साधितानि रूपाणि व्यवहरणीयानि | फलाभावः किमर्थमिति चेत्‌, अत्यन्तं दीर्घकालात्‌ इदानीं यावत्‌ यः परम्परागतः पाठ्यक्रमः अनुक्रियते, सः नैव तर्कपूर्णः | एकस्य धातोः कृते साक्षात्‌ लट्‌, लिट्‌, लुट्‌, लृट्‌, लोट्‌, लङ्‌‍ इत्यादि क्रमः, सः केवलं वर्णमालानुसारेण प्रवर्तते; अत्र प्रक्रियायाः न कोऽपि सम्बन्धः; दूरात्‌ अपि सम्बन्धः न |

Line 102:

तर्हि, यथा उक्तम्‌ मातुः पद्धतिम्‌ अधिकृत्य आर्धधातुकलकाराणां कृते सर्वे धातवः‌ क्रियन्ते एकस्मिन्‌ एव लकारे | प्रत्येकं लकारस्य सर्वं कार्यं एकस्मिन्‌ स्थाने सङ्गृहीतम्‌ | वृतान्ते लिट्लकारः | लिट्‌लकारस्य सर्वाणि सम्बद्ध-सूत्राणि, सर्वं लिट्‌-सम्बद्धं कार्यम्‌ मात्रा एकस्मिन्‌ अध्याये स्थापितम्‌ | लिट्‌-लकारः आर्धधातुकः अतः धातुगण-सम्बद्धं किमपि कार्यं नास्ति | तथापि सिद्धान्तकौमुद्यां दशगणेषु पृथक्तया, एकैकस्मिन्‌ गणे विभागेन लिट्‌लकारः क्रियते | परन्तु मातुः पाठे यतः लिट्‌लकारः आर्धधातुकः, अतः सर्वेषां धातूनां लिट्‌-सम्बद्धकार्यं एकत्र भवति एकस्मिन्‌ एव अध्याये | धातवः कस्मिनपिकस्मिन्नपि गणे भवन्तु नाम, लिटः कृते सर्वे धातवः एकत्र एव भवन्ति |

Line 130:

मात्रा सर्वं अङ्गकार्यं समाहृत्य उच्यते, नाम तस्याः समग्रं चिन्तनम्‌ | तया द्विसहस्रस्य धातूनां क्रमः व्यवस्थापितः सूत्राणाम्‌ अनुसारम्‌ | इदम्‌ आयोजनम्‌ अङ्गकार्यानुसारेण एव कृतम्‌ | यथा '''अत‌ उपधायाः''' इत्यादीनि सूत्रणिसूत्राणि सन्ति, अतः अदुपधधातवः सङ्गृहीताः | '''पुगन्तलघूपधस्य च''' इत्यस्ति, अतः इगुपधधातवः सम्मिलिताः | '''अतो लोपः''', '''अतो गुणे''', '''अतो दीर्घो यञि''', तदनुसारं सर्वेषाम्‌ अदन्तानाम्‌ अङ्गानां सङ्ग्रहणम् अक्रियत ‌| यथा पाणिनेः सूत्राणि कार्यं विदधति, तेन एव क्रमेण मात्रा धातवः व्यवस्थापिताः | एतावता कदापि केनापि न कृतम्‌ |

Line 184:

अनेन तिङन्तस्य सिद्ध्यर्थं कार्यं प्रकोष्ठत्रये विभक्तम्‌ | अस्मिन्‌ सौकर्यम्‌ अस्ति, तर्कोऽपि अस्ति | स्वस्य वर्गेऽपि मया दृष्टं यत्‌ अनेन पद्धत्या विद्यार्थिनः शीघ्रमेव अवगच्छन्ति, स्वयमेव रूपाणि साधयन्ति च | पूर्वं, सर्वत्र लोके सिद्धान्तकौमुद्या लघुसिद्धान्तकौमुद्या च छात्राणां बहु कष्टं भवति स्म | अद्यापि भवति यत्र तया पद्धत्या अधीयते | अधुना कष्टं समाप्तम्‌ ! छात्राः मातुः पद्धतिम्‌ अवलम्ब्य पठन्ति चेत्‌, न कोऽपि क्लेशः अपि तु आनन्दैवआनन्द एव | पाणिनेः व्यवस्थायां विशिष्टा शक्तिः वर्तते, अद्भुतं लाघवं—यया रीत्या तस्य एकेन एव सूत्रेण महत्‌ कार्यं सिध्यति, तया | मातुः पाठे यतोहि सर्वम्‌ आयोजितं पाणिनेः सूत्रानुसृत्य, अतः तस्याः पद्धतौ सा एव शक्तिः, अपि च तदेव लाघवम्‌ |

Line 191:

[https://static.miraheze.org/samskritavyakaranamwiki/59/5893/%E0%A5%A6%E0%A5%AF_-_%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%83_%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B5%E0%A5%88%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C8D_.pdf ०९ - मातुः पाठस्य वैलक्षण्यम्‌.pdf (54k)]

page_and_link_managers, Administrators
5,094

edits