04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 17:
 
<big><br />
उत्तरम्‌— धातुभ्यः विहिताः प्रत्ययाः चतुर्विधाः | धातुप्रत्ययाः, विकरणप्रत्ययाः, तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च | सनादयः द्वादश धातुप्रत्ययाः सन्ति, यैः आतिदेशिकाः सनन्ताः णिजन्ताः चादयः धातवः निष्पन्नाः | धातुप्रत्ययाः, विकरणप्रत्ययाः च प्रथमे धात्वधिकारे स्तः; तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च द्वितीये धात्वधिकारे स्तः | तत्र द्वितीये धात्वधिकारे एकं प्रमुखं सूत्रम्‌ अस्ति '''कृदतिङ्‌''' (३.१.९३) | अनेन सूत्रेण अस्मिन्‌ द्वितीये अधिकारे यः कोऽपि प्रत्ययः विहितः, सः तिङ्‌ नास्ति चेत्‌ कृत्‌ अस्त्येव इति अर्थः | एक एव धात्वधिकारो यदि अभिविष्यत्‌, तर्हि अनेन '''कृदतिङ्‌''' इति सूत्रेण सर्वे विकरणप्रत्ययाः शप्‌, श्यन्‌, श, श्नु इत्यादयः आपि च सर्वे सन्‌-प्रत्ययाः सन्‌, क्यच्‌, काम्यच्‌ इत्यादयः, इमे सर्वे कृत्‌-सज्ञकाः अभविष्यनअभविष्यन् | तन्न स्यात्‌; अस्य च निवारणार्थं धात्वधिकारद्वयम्‌ आवश्यकम्‌ आसीत्‌ |</big>
 
<big><br />
page_and_link_managers, Administrators
5,072

edits