05---sArvadhAtukaprakaraNam-adantam-aGgam/03---tiGpratyayAnAM-siddhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(3 intermediate revisions by the same user not shown)
Line 50:
 
 
<big>अत्र स्मर्तव्यं यत्‌ वस्तुतः विकरणप्रत्ययस्य आगमनार्थं, तिङ्‌प्रत्ययः आवश्यकः एव | प्रथमं धातुः अस्ति, तदा लकारः विवक्षितः, लकारस्य स्थाने तिङ्‌संज्ञकप्रत्ययः आगतः, तदा एव '''कर्तरि शप्‌''' इत्यनेन विकरणप्रत्ययः आयाति | अतः प्रष्टुं शक्यते यत्‌ तिङ्‌प्रत्यय-सिद्धिः द्वितीयसोपानंद्वितीये सोपाने कथं भवितुम्‌ अर्हति ? उत्तरम्‌ एवम्‌— प्रथम-सोपानस्य कृते तिङ्‌प्रत्ययस्य आवश्यकता अस्ति एव, सत्यम्‌ | मनसि एवं भवेत् | परन्तु क्रियापदस्य निर्माणार्थम्‌ अस्माकम्‌ अंशद्वयम्‌ अस्ति—अङ्गं, तिङ्‌प्रत्ययः च | द्वयोः पृथक्‌-पृथक्‌ यन्त्रागारम्‌ अस्ति | समय-दृष्ट्या तिङ्‌प्रत्ययः पूर्वम्‌ एव क्रियते | तथापि केवलं चिन्तनार्थम्‌ अनेन क्रमेण सौकर्यम्‌ अस्ति—प्रथमम्‌ अङ्गं निर्मामः, तदा तिङ्‌प्रत्ययं साधयित्वा आनयामः | अस्माकं पृथक्‌ यन्त्रागारे तिङ्‌प्रत्यय-सिद्धिः भवति, तावत्‌ एव |</big>
 
 
Line 140:
 
 
<big>'''झोऽन्तः''' (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''आयनेयीनीयियः फढखछघांफढखच्छघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य प्रत्ययस्य झः अन्तः''' |</big>
 
 
Line 220:
<big>लोटः तिङ्‌-सम्बद्ध-सूत्राणि अत्र स्थाप्यन्ते | उपरि नियमाः प्रदर्शिताः; तान्‌ आधारीकृत्य तिङ-प्रत्ययानां कार्यम्‌ अपि प्रदर्शितम्‌ | तस्य कार्यस्य पृष्ठतः यानि सूत्राणि अपेक्षितानि, तानि अधः प्रतिपादितानि |</big>
 
<big>यत्र विशिष्टकार्यार्थं मूलप्रत्यये विकारः आनीयते, तत्र प्रत्ययादेशः इत्युच्यते | अष्टाध्याय्यां प्रत्ययादेशः लभ्यते केवलं द्वयोः स्थानयोः— ३.४, ७.१ च | धेयं यत्‌ एकं सूत्रं विहाय अधस्स्थितानि सर्वाणि सूत्राणि अनयोः द्वयोः स्थानयोः सन्ति | एकं सूत्रं '''अतो हेः''' (६.४.१०५) अङ्गकार्यं न तु प्रत्ययादेशः, अतः षष्ठाध्ययेषष्ठाध्याये | पुनः ३.४, ७.१-मध्ये एकं सूत्रं विहाय अवशिष्टानि सर्वाणि ३.४-मध्ये सन्ति | ३.४-मध्ये '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | लस्य इत्यस्य अधिकारः ३.४.७७ - ३.४.११२ यावत्‌ | दश लकाराः सन्ति; अनुबन्धलोपानन्तरं सर्वेषां दशानां 'ल्‌' इत्येव अवशिष्यते | '''लस्य''' इति सूत्रं तस्य 'ल्‌' इत्यस्य एव षष्ठ्यन्तं रूपम्‌ (अकारः उच्चारणार्थः) |</big>
 
 
Line 255:
<big>६) '''इतश्च''' (३.४.१००) = ङित्‌-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्‌प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति |</big>
 
<big>७) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९), '''लङः शाकटायनस्यैव''' (३.४.१११) इति सूत्राभ्यां लङि कुत्रचित्‌ झि-स्थानिस्थाने जुस्‌-आदेशः |</big>
 
 
<big>एषु सप्तसु स्थलेषु लोटः प्रसङ्गः भवति चतुर्षु स्थलेषु— '''नित्यं ङितः''' (३.४.९९) इत्यनेन स्‌-लोपः वसि मसि च; '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन तसः ताम्‌, थसः तम्‌, थ-स्थाने त च | मिपः अम्‌ बाधितं भवति '''मेर्निः''' (३.४.८९) इत्यनेन; '''इतश्च''' (३.४.१००) बाधितं भवति '''एरुः''' (३.४.८६) इत्यनेन; '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९), '''लङः शाकटायनस्यैव'<nowiki/>''' ''(''३.४.१११) इत्यनयोः जुस्‌-आदेशः कथं न भवति लोटि इत्यस्मिन्‌ विषये महती चर्चा | केचन वदन्ति यत्‌''''' विदो लटो वा''''' (३.४.८३)'' इत्यस्मात्‌ वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्‌; अन्ये वदन्ति यत्‌ लङ्वत्‌ इत्यस्मिन्‌ वति-प्रत्ययः 'न नित्यः'; 'वतिपदघटितम्‌ अनित्यम्‌' इति प्रसिद्धवाक्यम्‌ | अत्र 'न नित्यः' इत्यस्य सारांशः एवं यत्‌ लोटि लङः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम्‌ अधिकृत्य— यत्र फलं नापेक्षते, तत्र प्रसक्तिः न भवति | अतः''' सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९),''' लङः''' '''शाकटायनस्यैव'<nowiki/>''' (३.४.१११) इति सूत्राभ्यां कार्यं भवति लङि किन्तु लोटि न अपेक्षते, अतः 'लङ्वत्‌' इति तत्र न गच्छति |</big>
 
 
<big>३. लोटि अम्‌मि स्थाने नि आदेशः |</big>
 
 
Line 450:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/b/b6/%E0%A5%A9_-_%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D%E2%80%8C8D_-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF-%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83.pdf ३ - तिङ्‌-प्रत्यय-सिद्धिः.pdf] (92k) Swarup Bhai, Mar 31, 2019, 6:12 AM v.1
page_and_link_managers, Administrators
5,269

edits