<big>प्रथमे द्वितीये च पाठयोः अङ्गं कथं निर्मीयते इति अस्माभिः अवलोकितम् | अधुना अङ्गं निर्मितम् | जय, नय, भव, हर, तर, गाय, शोभ, कर्ष, लज, यत, वद, मुर्च्छमूर्च्छ, वन्द इत्यादीनि भ्वादिगणीय-अङ्गानि साधितानि | ततः अग्रे क्रियापदस्य निर्माणार्थं किम् अवशिष्टम् ?</big>
<big>अत्र स्मर्तव्यं यत् वस्तुतः विकरणप्रत्ययस्य आगमनार्थं, तिङ्प्रत्ययः आवश्यकः एव | प्रथमं धातुः अस्ति, तदा लकारः विवक्षितः, लकारस्य स्थाने तिङ्संज्ञकप्रत्ययः आगतः, तदा एव '''कर्तरि शप्''' इत्यनेन विकरणप्रत्ययः आयाति | अतः प्रष्टुं शक्यते यत् तिङ्प्रत्यय-सिद्धिः द्वितीयसोपानंद्वितीये सोपाने कथं भवितुम् अर्हति ? उत्तरम् एवम्— प्रथम-सोपानस्य कृते तिङ्प्रत्ययस्य आवश्यकता अस्ति एव, सत्यम् | मनसि एवं भवेत् | परन्तु क्रियापदस्य निर्माणार्थम् अस्माकम् अंशद्वयम् अस्ति—अङ्गं, तिङ्प्रत्ययः च | द्वयोः पृथक्-पृथक् यन्त्रागारम् अस्ति | समय-दृष्ट्या तिङ्प्रत्ययः पूर्वम् एव क्रियते | तथापि केवलं चिन्तनार्थम् अनेन क्रमेण सौकर्यम् अस्ति—प्रथमम् अङ्गं निर्मामः, तदा तिङ्प्रत्ययं साधयित्वा आनयामः | अस्माकं पृथक् यन्त्रागारे तिङ्प्रत्यय-सिद्धिः भवति, तावत् एव |</big>
<big>अस्मिन् करपत्रे मूलप्रत्ययेभ्यः कथं (१) परस्मैपदि लट्-लकास्यलकारस्य, तदा (२) परस्मैपदि लोट्-लकारस्य प्रत्ययाः साध्यन्ते इति द्रक्ष्यामः |</big>
<big>परस्मैपदेपरस्मैपदिधातूनां लट्-लकारस्य तिङ्-प्रत्यय-सिद्धिः</big>
<big>मूलम्—</big>
<big>'''ससजुषो रुः''' (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्चसजुषश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |</big>
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम् | खर्खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''रो रि''' (८.३.१४) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्''' |</big>
<big>'''झोऽन्तः''' (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्-आदेशः भवति | झः षष्ठ्यन्तम्, अन्तः प्रथमान्तम्, द्विपदमिदं सूत्रम् | झकारे अन्त्-अवयवे च अकारः संयोजितः उच्चारणार्थम् | '''आयनेयीनीयियः फढखछघांफढखच्छघां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात् '''प्रत्ययस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य प्रत्ययस्य झः अन्तः''' |</big>
<big>परस्मैपदेपरस्मैपदिधातूनां लोट्-लकारस्य तिङ्-प्रत्यय-सिद्धिः</big>
<big>मूलम्—</big>
<big>लोटः तिङ्-सम्बद्ध-सूत्राणि अत्र स्थाप्यन्ते | उपरि नियमाः प्रदर्शिताः; तान् आधारीकृत्य तिङ-प्रत्ययानां कार्यम् अपि प्रदर्शितम् | तस्य कार्यस्य पृष्ठतः यानि सूत्राणि अपेक्षितानि, तानि अधः प्रतिपादितानि |</big>
<big>यत्र विशिष्टकार्यार्थं मूलप्रत्यये विकारः आनीयते, तत्र प्रत्ययादेशः इत्युच्यते | अष्टाध्याय्यां प्रत्ययादेशः लभ्यते केवलं द्वयोः स्थानयोः— ३.४, ७.१ च | धेयं यत् एकं सूत्रं विहाय अधस्स्थितानि सर्वाणि सूत्राणि अनयोः द्वयोः स्थानयोः सन्ति | एकं सूत्रं '''अतो हेः''' (६.४.१०५) अङ्गकार्यं न तु प्रत्ययादेशः, अतः षष्ठाध्ययेषष्ठाध्याये | पुनः ३.४, ७.१-मध्ये एकं सूत्रं विहाय अवशिष्टानि सर्वाणि ३.४-मध्ये सन्ति | ३.४-मध्ये '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | लस्य इत्यस्य अधिकारः ३.४.७७ - ३.४.११२ यावत् | दश लकाराः सन्ति; अनुबन्धलोपानन्तरं सर्वेषां दशानां 'ल्' इत्येव अवशिष्यते | '''लस्य''' इति सूत्रं तस्य 'ल्' इत्यस्य एव षष्ठ्यन्तं रूपम् (अकारः उच्चारणार्थम्उच्चारणार्थः) |</big>
<big>'''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः | तश्च थश्च थश्चथच मिप् च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम् | ताम् च तम् च तश्चतच अम् च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य तस्थस्थमिपां तान्तन्तामः''' |</big>
<big>'''लोटो लङ्वत्''' (३.४.८५) = प्रत्ययादेशानां कृते लोट्-लकारः लङ् इव भवति | अतिदेशसूत्रम् | लोटः षष्ठ्यन्तं, लङ्वत् अव्ययं, द्विपदमिदं सूत्रम् | कानिचन कार्याणि केवलं ङित्सु भवन्ति | लोट् टित् न तु ङित्, अतः यत्र ङित्सु किञ्चन कार्यं भवति, लोटि "ङित्सु भवतु" इत्यनेन तर्केण लोटि तत्कार्यं नार्हम् | अनेन सूत्रेण लोटः कृते इदं कार्यं सिद्धम् | सूत्रं स्वयं सम्पूर्णम्— '''लोटः लङ्वत्''' |</big>
<big>६) '''इतश्च''' (३.४.१००) = ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति |</big>
<big>७) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९), '''लङः शाकटायनस्यैव''' (३.४.१११) इति सूत्राभ्यां लङि कुत्रचित् झि-स्थानिस्थाने जुस्-आदेशः |</big>
<big>एषु सप्तसु स्थलेषु लोटः प्रसङ्गः भवति चतुर्षु स्थलेषु— '''नित्यं ङितः''' (३.४.९९) इत्यनेन स्-लोपः वसि मसि च; '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन तसः ताम्, थसः तम्, थ-स्थाने त च | मिपः अम् बाधितं भवति '''मेर्निः''' (३.४.८९) इत्यनेन; '''इतश्च''' (३.४.१००) बाधितं भवति '''एरुः''' (३.४.८६) इत्यनेन; '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९), '''लङः शाकटायनस्यैव'''शाकटायनस्यैव ''('''' (३.४.१११) इत्यनयोः जुस्-आदेशः कथं न भवति लोटि इत्यस्मिन् विषये महती चर्चा | केचन वदन्ति यत् ''''' विदो लटो वा''''' (३.४.८३) इत्यस्मात् '''वा''' इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्; अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति-प्रत्ययः 'न नित्यः'; 'वतिपदघटितम् अनित्यम्' इति प्रसिद्धवाक्यम् | अत्र 'न नित्यः' इत्यस्य सारांशः एवं यत् लोटि लङः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम् अधिकृत्य— यत्र फलं नापेक्षते, तत्र प्रसक्तिः न भवति | अतः ''' सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९), '''लङः लङः'''शाकटायनस्यैव '''शाकटायनस्यैव''' (३.४.१११) इति सूत्राभ्यां कार्यं भवति लङि किन्तु लोटि न अपेक्षते, अतः 'लङ्वत्' इति तत्र न गच्छति |</big>
<big>३. लोटि अम्मि स्थाने नि आदेशः |</big>
<big>तुदादिगणे रि गतौ → रि + श → रि + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन अचि परे इयङ्-आदेशः, '''ङिच्च''' (१.१.५३) इत्यनेन स च अन्तादेशः → र्र् + इय् + अ → रिय इति अङ्गम् → रिय + ति → रियति</big>
<big>---------------------------------</big>
<big>धेयम्-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
|