05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 186:
 
 
<big>''''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) ''='' लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ | विधिसूत्रम्‌ अतिदेशसूत्रं च | '''लिङः''' '''सीयुट्‌''' (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानां एव कृते) इत्यस्य अपवादः | '''आद्यन्तौ टकितौ''' (१.१ .४६) इत्यनेन यासुट्‌, प्रत्ययात्‌ प्राक्‌ आयाति | यासुट्‌ प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्‌, उदात्तः प्रथमान्तं, ङित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिङः सीयुट्‌''' (३.४.१०२) इत्यस्मात्‌ '''लिङः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः लस्य पर''''''स्मै'''पदानां'''स्मैपदानां यासुट्‌ '''उदात्तः''' ङित्‌ च''' |</big>
 
 
Line 201:
 
 
<big>इदमपि वाच्यं यत्‌ बहुकालात्‌ वैयाकरणानां विवादः प्रवर्तते अस्मिन्‌ विषये | केचन वदन्ति यत्‌ 'यः' एव यास्‌ इत्यस्य षष्ठीविभक्त्यन्तं रूपम्— यथा द्वितीयविभक्तौ बहुवचने विश्वपा + शस्‌ → विश्वपा + अस्‌ → '''आतो धातोः''' (६.४.१४०) इत्यनेन आ-लोपः → विश्वप्‌ + अस्‌ → विश्वपः इति रीत्या पदस्य आ-लोपः भवति | एवं चेत्‌ तर्हि यास्‌ + इयः → यः + इयः → विसर्गसन्धिः → य + इयः | साधारणतया अत्र गुणसन्धिः '''आद्गुणः''' (६.१.८७) न भवति यतोहि विसर्गसन्धिः असिद्धः भवति '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन | परन्तु अस्मिन्‌ पक्षे ते वैयाकरणाः वदन्ति यत्‌ अत्र "गुणसन्धिः भवति" | पुनः अन्ये वैयाकरणः वदन्ति यत्‌ सूत्रं स्वयम्‌ '<nowiki/>'''अतो यासियः'''<nowiki/>' इत्यस्ति न तु ''''अतो येयः'''<nowiki/>' | अत्र 'यासियः' इति षष्ठी तत्पुरुषसमासः |</big>
 
 
page_and_link_managers, Administrators
5,097

edits