05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 143:
<big>३. अस्मिन्‌ लकारे प्रमुखं कार्यम्‌ इदं यत्‌ '''यासुट्''' आगमः भवति प्रत्ययात्‌ प्राक् | तत्र अनुबन्धलोपे सति "'''यास्‌'''" इति शिष्यते |</big>
 
<big>४. लिङः तकारथकारयोः सुडागमः भवति | सुडागमनेन यासुडागमः न बाध्यते | यासुडागमः लिङ्लकारम् आश्रित्य प्रवर्तते, सुडागमः तु तकारथकारयोः भवति, द्वयोः कार्ययोः निमित्तभेदः वर्तते | यासुडागमस्य सुडागमस्य च उभयोः निमित्तभेदः वर्तते इति कृत्वा यासुडागमनेन सुडागमः न बाध्यते | लिङ्लकारे परस्मैपदप्रत्ययेषु आत्मनेपदप्रत्ययेषु च यः तकारः अथवा थकारः वर्तते, तस्य सुट्-आगमः भवति | तिप् तस्, थस्, थ, त, आताम्, थास्, आथाम् इत्येतेषां प्रत्ययानां सुडागमः भवति | सुडागमस्य सकारस्य लोपः भवति लिङः सलोपोऽनन्त्यस्य (७.२.७९) इत्यनेन |</big>
<big>३ a) यदि अङ्गम्‌ अदन्तं तर्हि तस्य यासुडागमस्य स्थाने '''इय्‌''' इति आदेशः | यथा पठ्‌ + अ + यास्‌ + त् → पठ्‌ + अ + इय्‌ + त्‌ → पठ (इति अङ्गम्‌) + इत् (इति सिद्ध-तिङ्‌प्रत्ययः) → पठेत्‌ |</big>
 
<big> a) यदि अङ्गम्‌ अदन्तं तर्हि तस्य यासुडागमस्य सकारस्य लोपानन्तरं, या इत्यस्य स्थाने '''इय्‌''' इति आदेशः | यथा पठ्‌ + अ + यास्‌या + त् → पठ्‌ + अ + इय्‌ + त्‌ → पठ (इति अङ्गम्‌) + इत् (इति सिद्ध-तिङ्‌प्रत्ययः) → पठेत्‌ |</big>
<big>३ b) अनदन्तेषु इय्‌-आदेशः न भवति | यथा चिनु + यास्‌ + त्‌ → चिनुयात्‌ ‌</big>
 
<big> b) अनदन्तेषु इय्‌-आदेशः न भवति | यथा चिनु + यास्‌ + त्‌ → चिनुयात्‌ ‌</big>
 
<big>४. यदा इय्‌-आदेशः भवति तदा वलादिषु* प्रत्ययेषु परेषु यकारलोपः भवति | पठ + इय्‌ + त्‌ → पठेत्‌ | अजादिषु तु यथावत्‌ | पठ + इय्‌ + उः → पठेयुः |</big>
Line 151 ⟶ 153:
 
<big>*वलादिषु प्रत्ययेषु इदं कार्यं भवति, नाम यकारं विहाय हलादिषु | अधः अपि वलादिः-अजादिः (अवलादिः) इति प्रदर्श्यते |</big>
 
 
 
Line 187 ⟶ 190:
 
<big>''''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) ''='' लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ | विधिसूत्रम्‌ अतिदेशसूत्रं च | लिङः सीयुट्‌ (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानां एव कृते) इत्यस्य अपवादः | '''आद्यन्तौ टकितौ''' (१.१ .४६) इत्यनेन यासुट्‌, प्रत्ययात्‌ प्राक्‌ आयाति | यासुट्‌ प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्‌, उदात्तः प्रथमान्तं, ङित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिङः सीयुट्‌''' (३.४.१०२) इत्यस्मात्‌ लिङः इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः लस्य परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च''' |</big>
 
 
 
 
<big>'''सुट् तिथोः''' ( ३.४.१०७) = लिङः तकारथकारयोः सुट् स्यात् | लिङ्लकारे तकारस्य, थकारस्य च सुडागमः भवति | सुडागमे उकारः उच्चारणार्थः, सकारः एव अवशिष्यते | '''आद्यन्तौ टकितौ''' ( १.१.४६) इत्यनेन तकारस्य थकारस्य च आदौ सुडागमः भवति | तिश्च थ् च तिथौ तयोः तिथोः | तकारोत्तरवर्ती इकारः उच्चारणार्थः | सुट् प्रथमान्तं, तिथोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लिङः सीयुट् इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः तिथोः सुट्''' |</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits