<big>'''अतो गुणे''' (६.१.९७९६)</big>
'''<big>अमि पूर्वः</big>''' <big>( ६.१.१०७)</big>
<big>'''अतो दीर्घो यञि''' (७.३.१०१)</big>
<big>'''वृद्धिरेचि''' (६.१.८८८७)</big>
<big>'''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१)</big>
<big>'''आडजादीनाम्''' (६.४.७२)</big>
<big>'''आटश्च''' (६.१.९०८९)</big>
<big>'''अतो गुणे''' (६.१.९७९६) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८८७), '''अकः सवर्णे दीर्घः''' (६.१.१०१९९) इत्यनयोः अपवादसूत्रम् | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''उस्यपदान्तात्''' (६.१.९६९५) इत्यस्मात् '''अपदान्तात्''' अपि च '''एङि पररूपम्''' (६.१.९४९३) इत्यस्मात् '''पररूपम्''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्''' |</big>
<big>'''वृद्धिरेचि''' (६.१.८८८७) = अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात् | वृद्धिः प्रथमान्तम्, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''आद्गुणः''' (६.१.८७८६) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८४८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्''' |</big>
<big>'''अकः सवर्णे दीर्घः''' (६.१.१०१९९) = अक्-वर्णात् सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात् | अक् प्रत्याहारः = अ, इ, उ, ऋ, ऌ | अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७७६) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८४८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः''' '''संहितायाम्''' |</big>
<big>पठ + ताम् = पठताम्</big>
<big>पठ + अन्तु = पठन्तु ''' अतो गुणे''' (६.१.९७९६)</big>
<big>पठ + ० = पठ</big>
<big>पठ + त = पठत</big>
<big>पठ + आनि = पठानि ''' अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
<big>पठ + आव = पठाव ''' अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
<big>पठ + आम = पठाम ''' अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
<big>अपठ + ताम् = अपठताम्</big>
<big>अपठ + अन् = अपठन् ''' अतो गुणे''' (६.१.९७९६)</big>
<big>अपठ + स् = अपठः ''' ससजुषोरुः''' इत्यनेन स्-स्थाने रु, '''खरवसानयोर्विसर्जनीयः''' इत्यनेन रु-स्थाने विसर्गः</big>
<big>'''आद्गुणः''' (६.१.८७८६) = अ-वर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात् | अत्र '''अचि परे''' इत्यस्य '''इकि परे''' इति फलितः अर्थः यतः अकारात् अकारः चेत् कार्यं बाधितम् '''अकः सवर्णे दीर्घः''' (६.१.९९) इत्यनेन; अकारात् एच् चेत् कार्यं बाधितं '''वृद्धिरेचि''' इत्यनेन सूत्रेण च | आत् पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७७६) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८४८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्''' |</big>
<big>एध + इते = एधेते ''' आद्गुणः''' (६.१.८७)</big>
<big>एध + अन्ते = एधन्ते ''' अतो गुणे''' (६.१.९७९६)</big>
<big>एध + से = एधसे</big>
<big>एध + ध्वे = एधध्वे</big>
<big>एध + ए = एधे ''' अतो गुणे''' (६.१.९७९६)</big>
<big>एध + वहे = एधावहे ''' अतो दीर्घो यञि''' (७.३.१०१)</big>
<big>एध + इताम् = एधेताम् ''' आद्गुणः''' (६.१.८७)</big>
<big>एध + अन्ताम् = एधन्ताम् ''' अतो गुणे''' (६.१.९७९६)</big>
<big>एध + स्व = एधस्व</big>
<big>एध + ध्वम् = एधध्वम्</big>
<big>एध + ऐ = एधै ''' वृद्धिरेचि''' (६.१.८८८७)</big>
<big>एध + आवहै = एधावहै ''' अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
<big>एध + आमहै = एधामहै ''' अकः सवर्णे दीर्घः''' (६.१.१०१९९)</big>
<big>आ + एध = ऐध इति अङ्गम् '''आडजादीनाम्''' (६.४.७२), '''आटश्च''' (६.१.९०८९)</big>
<big>ऐध + इताम् = ऐधेताम् ''' आद्गुणः''' (६.१.८७)</big>
<big>ऐध + अन्त = ऐधन्त ''' अतो गुणे''' (६.१.९७९६)</big>
<big>ऐध + थाः = ऐधथाः</big>
<big>'''आटश्च''' (६.१.९०८९) = आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७७६) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८८८७) इत्यस्मात् '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम्''' |</big>
<big>धेयं यत् उपरितने उदाहरणे एध्-धातोः आदौ एकारः अस्ति अतः आ + ए → ऐ इति वृद्धिः तु भवति एव | परन्तु धातुः इकारादिः उकारादिः वा चेत्, आ + इ / आ + उ → गुणः भवति स्म | एतदर्थम् '''आटश्च''' (६.१.९०८९) इत्यनेन वृद्धिः भवति न तु गुणः | यथा परस्मौपदेपरस्मैपदे, तुदादिगणे इष्-धातुः, '''इषुगमियमां छः''' (७.३.७७) इति सूत्रेण वक्ष्यमाणेन धात्वादेशेन शिति परे षकारस्य स्थाने छकारः, इष् + श → अङ्गम् इच्छ | लटि इच्छति; लङि आडागमं कृत्वा आ + इच्छ | अत्र सामान्यगुणसन्धिना '''आद्गुणः''' (६.१.८७) इत्यनेन 'एच्छत्' इति भवति स्म | परन्तु अत्र '''आटश्च''' (६.१.९०८९) इत्यनेन परत्वात् वृधिरादेशो भवति इति कृत्वा ऐच्छत् |</big>
[https://static.miraheze.org/samskritavyakaranamwiki/a9/ae98/%E0%A5%AB_-_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7-%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%9A_%E0%A4%B8%E0%A4%82%E0%A4%AF%E0%A5%8B%E0%A4%9C%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C8D_.pdf ५ - अङ्गस्य सिद्ध-तिङ्प्रत्ययानां च संयोजनम्.pdf] (68k) Swarup Bhai, Mar 31, 2019, 6:16 AM v.1
|