05---sArvadhAtukaprakaraNam-adantam-aGgam/05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam: Difference between revisions

no edit summary
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
 
(20 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:05 - अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनम्‌}}
<please replace this with content from corresponding Google Sites page>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big>
|-
|<big>'''2016 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/52_angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam_2016-11-09.mp3 angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam-1_2016-11-09]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/53_angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam-2_2016-11-16.mp3 angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam-2_2016-11-16]  </big>
|-
|<big>'''2015 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/26_adantAnga-tingpratyayayoH_sanyojanam--1_2015-05-12.mp3 adantAnga-tingpratyayayoH_sanyojanam--1_2015-05-12]</big>
|-
|<big>२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/27_adantAnga-tingpratyayayoH_sanyojanam--2_2015-05-19.mp3 adantAnga-tingpratyayayoH_sanyojanam--2_2015-05-19]</big>
|}
 
 
 
 
 
<big>एतावता सार्वधातुकलकाराणां (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषाम्‌) अङ्गम्‌ अदन्तं यत्र, तत्र अङ्गं निष्पन्नम्‌ अपि च सिद्ध-तिङ्‌प्रत्ययाः प्राप्ताः | अधुना तयोः संयोजनं क्रियते; फलं तिङन्तपदं—लोके विख्यातं क्रियापदम्‌ |</big>
 
 
<big>अत्र अस्ति दीक्षितपुष्पा-महोदयायाः पद्धतेः वैलक्षण्यम्‌ | अङ्गम्‌ अदन्तं चेत्‌, एकवारं लटि, लोटि, लङि, विधिलिङि च अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनं परिशील्य, अग्रे भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे—एषु चतुर्षु लकारेषु सर्वाणि रूपाणि ज्ञास्यन्ते | भव, नृत्य, लिख, चोरय एतानि अङ्गानि सर्वाणि अदन्तानि इति कारणेन यद्यपि भिन्न-धातुगणेषु सन्ति, परन्तु कार्यं पूर्णतया समानम्‌ | अतः अस्य पाठस्य अनन्तरं यदा भ्वादिगणस्य, दिवादिगणस्य, तुदादिगणस्य, चुरादिगणस्य च क्रमेण वैशिष्ट्यम्‌ अवलोकयिष्यामः, तदा केवलम्‌ अदन्तम्‌ अङ्गं निर्मातव्यम्‌ अस्माभिः | ततः चतुर्णां धातुगणानां सर्वेषां धातूनाम्‌ (997+140+157+409 = 1703) लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते | भवति, भवतु, अभवत्‌, भवेत्‌ इति यथा, तथैव नृत्यति, नृत्यतु, अनृत्यत्‌ , नृत्येत्‌; लिखति, लिखतु, अलिखत्‌, लिखेत्‌; चोरयति, चोरयतु, अचोरयत्‌, चोरयेत्‌ | अतः अग्रिमेषु पाठेषु केवलं लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं 'भवति' प्रदर्श्यते | ततः अग्रे सर्वं बुद्धम्‌ एव !</big>
 
 
<big><u>सूत्राणि</u></big>
 
 
<big>अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च मेलनार्थम्‌ अपेक्षितानि सूत्राणि इमानि—</big>
 
 
<big>'''अतो गुणे''' (६.१.९६)</big>
 
'''<big>अमि पूर्वः</big>''' <big>( ६.१.१०७)</big>
 
<big>'''अदेङ्‌ गुणः''' (१.१.२)</big>
 
<big>'''अतो दीर्घो यञि''' (७.३.१०१)</big>
 
<big>'''वृद्धिरेचि''' (६.१.८७)</big>
 
<big>'''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१)</big>
 
<big>'''ससजुषो रुः''' (८.२.६६)</big>
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५)</big>
 
<big>'''आद्गुणः''' (६.१.८७)</big>
 
<big>'''आडजादीनाम्‌''' (६.४.७२)</big>
 
<big>'''आटश्च''' (६.१.८९)</big>
 
 
'''<big><u>अङ्गस्य तिङ्‌प्रत्ययस्य च संयोजन-कार्यम्‌</u></big>'''
 
 
<big>कार्यार्थम्‌ अधः यत्र कस्यचित्‌ सूत्रस्य आवश्यकता अस्ति, तत्र दक्षिणतः सूत्रं दत्तम्‌ | किमपि सूत्रं न लिखितं चेत्‌, केवलं द्वयोः अंशयोः संमेलनं भवति | यथा पठ + ति = पठति — अत्र केवलम्‌ अंशयोः संयोजनं; कस्यापि सूत्रस्य आवश्यकता नास्ति |</big>
 
 
'''<big><u>A. परस्मैपदे अङ्ग-तिङ्‌प्रत्यय-संयोजनम्‌‌</u></big>'''
 
 
<big>परस्मैपदे धातुः = पठ्‌, अङ्गम्‌ = पठ</big>
 
 
<big>'''१.''' <u>लट्‌-लकारः</u></big>
 
 
<big>लटि सिद्ध-तिङ्‌प्रत्ययाः—</big>
 
<big>ति     तः   अन्ति</big>
 
<big>सि     थः    थ</big>
 
<big>मि     वः     मः</big>
 
 
<big>कार्यम्‌—</big>
 
<big>पठ + ति = पठति</big>
 
<big>पठ + तः = पठतः</big>
 
<big>पठ + अन्ति = पठन्ति '''    अतो गुणे''' (६.१.९६) [गुणः = अ, ए, ओ]</big>
 
<big>पठ + सि = पठसि</big>
 
<big>पठ + थः = पठथः</big>
 
<big>पठ + थ = पठथ</big>
 
<big>पठ + मि = पठामि '''        अतो दीर्घो यञि''' (७.३.१०१) [= यञ्‌-आदि-सार्वधातुकः प्रत्ययः परः चेत्, अदन्त-अङ्गस्य अन्तिमस्वरः दीर्घः भवति |]</big>
 
<big>पठ + वः = पठावः '''        अतो दीर्घो यञि''' (७.३.१०१)</big>
 
<big>पठ + मः = पठामः '''        अतो दीर्घो यञि''' (७.३.१०१)</big>
 
 
<big>'''अतो गुणे''' (६.१.९६) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं '''वृद्धिरेचि''' (६.१.८७), '''अकः सवर्णे दीर्घः''' (६.१.९९) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''उस्यपदान्तात्‌''' (६.१.९५) इत्यस्मात्‌ '''अपदान्तात्‌''' अपि च एङि पररूपम्‌ (६.१.९३) इत्यस्मात्‌ '''पररूपम्‌''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌''' |</big>
 
 
<big>'''अदेङ्‌गुणः''' (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात्‌ | अत्‌ एङ्‍ च गुणसंज्ञः स्यात्‌ इति | अत्‌ च एङ्‌ च अदेङ्‌ | अदेङ्‌ प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''अत्‌ एङ्‌ गुणः''' |</big>
 
 
<big>'''वृद्धिरेचि''' (६.१.८७) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | वृद्धिः प्रथमान्तम्‌, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आद्‌गुणः''' (६.१.८६) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |</big>
 
 
<big>'''अकः सवर्णे दीर्घः''' (६.१.९९) = अक्‌-वर्णात्‌ सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात्‌ | अक्‌ प्रत्याहारः = अ, इ, उ, ऋ, ऌ | अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः''' '''संहितायाम्‌''' |</big>
 
 
<big>'''अतो दीर्घो यञि''' (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ्‌ प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''यञि सार्वधातुके''' इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गस्य दीर्घः यञि सार्वधातुके''' |</big>
 
 
<big>'''२.''' <u>लोट्‌-लकारः</u></big>
 
 
<big>लोटि सिद्ध-तिङ्‌प्रत्ययाः—</big>
 
<big>तु, तात्‌     ताम्‌     अन्तु</big>
 
<big>०, तात्‌     तम्‌       त</big>
 
<big>आनि       आव     आम</big>
 
 
<big>कार्यम्‌—</big>
 
<big>पठ + तु = पठतु</big>
 
<big>पठ + ताम्‌ = पठताम्‌</big>
 
<big>पठ + अन्तु = पठन्तु '''        अतो गुणे''' (६.१.९६)</big>
 
<big>पठ + ० = पठ</big>
 
<big>पठ + तम्‌ = पठतम्‌</big>
 
<big>पठ + त = पठत</big>
 
<big>पठ + आनि = पठानि '''       अकः सवर्णे दीर्घः''' (६.१.९९)</big>
 
<big>पठ + आव = पठाव '''         अकः सवर्णे दीर्घः''' (६.१.९९)</big>
 
<big>पठ + आम = पठाम '''         अकः सवर्णे दीर्घः''' (६.१.९९)</big>
 
 
<big>'''३.''' <u>लङ्‌-लकारः</u></big>
 
 
<big>लङि सिद्ध-तिङ्‌प्रत्ययाः—</big>
 
<big>त्‌      ताम्‌     अन्‌</big>
 
<big>स्‌      तम्‌       त</big>
 
<big>अम्‌     व        म</big>
 
<big>अ + पठ = अपठ इति अङ्गम्‌ '''    लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१)</big>
 
 
<big>कार्यम्‌—</big>
 
<big>अपठ + त्‌ = अपठत्‌</big>
 
<big>अपठ + ताम्‌ = अपठताम्‌</big>
 
<big>अपठ + अन्‌ = अपठन्‌ '''          अतो गुणे''' (६.१.९६)</big>
 
<big>अपठ + स्‌ = अपठः '''            ससजुषोरुः''' इत्यनेन स्‌-स्थाने रु, '''खरवसानयोर्विसर्जनीयः''' इत्यनेन रु-स्थाने विसर्गः</big>
 
<big>अपठ + तम्‌ = अपठतम्‌</big>
 
<big>अपठ + त = अपठत</big>
 
<big>अपठ + अम्‌ = अपठम्‌ '''          अमि पूर्वः''' (६.१.१०७)</big>
 
<big>अपठ + व = अपठाव '''            अतो दीर्घो यञि''' (७.३.१०१)</big>
 
<big>अपठ + म = अपठाम '''            अतो दीर्घो यञि''' (७.३.१०१)</big>
 
 
<big>'''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) = लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | लुङ्‌ च लङ्‌ च लृङ्‌ च तेषामितरेतरद्वन्द्वः लुङ्‌लङ्लृङः, तेषु लुङ्‌लङ्‌लृङ्क्षु | लुङ्‌लङ्‌लृङ्क्षु सप्तम्यन्तम्‌, अट्‌ प्रथमान्तम्‌, उदात्तः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अट्‌ उदात्तः''' '''लुङ्‌लङ्‌लृङ्क्षु''' |</big>
 
 
 
<big>'''अमि पूर्वः''' (६.१.१०५) = अकः अम्यचि परतः पूर्वरूपमेकादेशः स्यात् | अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् '''अकः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | '''इको यणचि''' ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादौ अमि इत्यर्थः | अनुवृत्ति सहितसूत्रम् — '''अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायाम् |'''</big>
 
 
 
<big>'''ससजुषो रुः''' (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ससजुषोः पदस्य रुः''' |</big>
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = खरि अवसाने च पदान्ते रेफस्य स्थाने विसर्गादेशो भवति | खर्‍ च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | रः 'पदस्य' इत्यस्य विशेषणम्‌; '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ पदं यस्य अन्ते रेफः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात् '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः''' '''संहितायाम्‌''' |</big>
 
 
<big>'''४.''' <u>विधिलिङ्‌-लकारः</u></big>
 
 
<big>विधिलिङि सिद्ध-तिङ्‌प्रत्ययाः—</big>
 
<big>इत्‌     इताम्‌     इयुः</big>
 
<big>इः      इतम्‌      इत</big>
 
<big>इयम्‌    इव       इम</big>
 
<big>'''आद्गुणः''' (६.१.८७) = विधिलिङ्गि सर्वत्र प्रसक्तिः</big>
 
 
<big>कार्यम्‌—</big>
 
<big>पठ + इत्‌ = पठेत्‌ '''           आद्गुणः''' (६.१.८७) [अपि च अग्रे सर्वत्र]</big>
 
<big>पठ + इताम्‌ = पठेताम्‌</big>
 
<big>पठ + इयुः = पठेयुः</big>
 
<big>पठ + इः = पठेः</big>
 
<big>पठ + इतम्‌ = पठेतम्‌</big>
 
<big>पठ + इत = पठेत</big>
 
<big>पठ + इयम्‌ = पठेयम्‌</big>
 
<big>पठ + इव = पठेव</big>
 
<big>पठ + इम = पठेम</big>
 
 
<big>'''आद्‌गुणः''' (६.१.८६) = अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अत्र '''अचि परे''' इत्यस्य '''इकि परे''' इति फलितः अर्थः यतः अकारात्‌ अकारः चेत्‌ कार्यं बाधितम्‌ '''अकः सवर्णे दीर्घः''' (६.१.९९) इत्यनेन; अकारात्‌‍ एच्‌ चेत् कार्यं बाधितं '''वृद्धिरेचि''' इत्यनेन सूत्रेण च | आत्‌ पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌''' |</big>
 
 
'''<big>B. <u>आत्मनेपदे अङ्ग-तिङ्‌प्रत्यय-संयोजनम्‌‌</u></big>'''
 
 
<big>आत्मनेपदे धातुः = एध्‌, अङ्गम्‌ = एध</big>
 
 
<big>'''१.''' <u>लट्‌-लकारः</u></big>
 
 
<big>लटि सिद्ध-तिङ्‌प्रत्ययाः—</big>
 
<big>ते      इते     अन्ते</big>
 
<big>से      इथे      ध्वे</big>
 
<big>ए      वहे      महे</big>
 
 
<big>कार्यम्‌—</big>
 
<big>एध + ते = एधते</big>
 
<big>एध + इते = एधेते '''           आद्गुणः''' (६.१.८७)</big>
 
<big>एध + अन्ते = एधन्ते '''        अतो गुणे''' (६.१.९६)</big>
 
<big>एध + से = एधसे</big>
 
<big>एध + इथे = एधेथे           '''  आद्गुणः''' (६.१.८७)</big>
 
<big>एध + ध्वे = एधध्वे</big>
 
<big>एध + ए = एधे '''              अतो गुणे''' (६.१.९६)</big>
 
<big>एध + वहे = एधावहे '''        अतो दीर्घो यञि''' (७.३.१०१)</big>
 
<big>एध + महे = एधामहे '''        अतो दीर्घो यञि''' (७.३.१०१)</big>
 
 
<big>'''२.''' <u>लोट्‌-लकारः</u></big>
 
 
<big>लोटि‌ सिद्ध-तिङ्‌प्रत्ययाः—</big>
 
<big>ताम्‌     इताम्‌     अन्ताम्‌</big>
 
<big>स्व      इथाम्‌      ध्वम्‌</big>
 
<big>ऐ       आवहै      आमहै</big>
 
 
<big>कार्यम्‌—</big>
 
<big>एध + ताम्‌ = एधताम्‌</big>
 
<big>एध + इताम्‌ = एधेताम्‌ '''        आद्गुणः''' (६.१.८७)</big>
 
<big>एध + अन्ताम्‌ = एधन्ताम्‌ '''     अतो गुणे''' (६.१.९६)</big>
 
<big>एध + स्व = एधस्व</big>
 
<big>एध + इथाम्‌ = एधेथाम्‌ '''        आद्गुणः''' (६.१.८७)</big>
 
<big>एध + ध्वम्‌ = एधध्वम्‌</big>
 
<big>एध + ऐ = एधै '''                वृद्धिरेचि''' (६.१.८७)</big>
 
<big>एध + आवहै = एधावहै '''        अकः सवर्णे दीर्घः''' (६.१.९९)</big>
 
<big>एध + आमहै = एधामहै '''        अकः सवर्णे दीर्घः''' (६.१.९९)</big>
 
 
<big>'''३.''' <u>लङ्‌-लकारः</u></big>
 
 
<big>लङि‌ सिद्ध-तिङ्‌प्रत्ययाः—</big>
 
<big>त      इताम्‌     अन्त</big>
 
<big>थाः    इथाम्‌     ध्वम्‌</big>
 
<big>इ       वहि       महि</big>
 
 
<big>आ + एध = ऐध इति अङ्गम्‌   '''आडजादीनाम्‌''' (६.४.७२), '''आटश्च''' (६.१.८९)</big>
 
 
<big>कार्यम्‌—</big>
 
<big>ऐध + त = ऐधत</big>
 
<big>ऐध + इताम्‌ = ऐधेताम्‌ '''       आद्गुणः''' (६.१.८७)</big>
 
<big>ऐध + अन्त = ऐधन्त '''        अतो गुणे''' (६.१.९६)</big>
 
<big>ऐध + थाः = ऐधथाः</big>
 
<big>ऐध + इथाम्‌ = ऐधेथाम्‌      '''  आद्गुणः''' (६.१.८७)</big>
 
<big>ऐध + ध्वम्‌ = ऐधध्वम्‌</big>
 
<big>ऐध + इ = ऐधे                  '''आद्गुणः''' (६.१.८७)</big>
 
<big>ऐध + वहि = ऐधावहि '''        अतो दीर्घो यञि''' (७.३.१०१)</big>
 
<big>ऐध + महि = ऐधामहि '''        अतो दीर्घो यञि''' (७.३.१०१)</big>
 
 
<big>'''आडजादीनाम्‌''' (६.४.७२) = लुङ्‌ लङ्‌ लृङ्‌ च परे चेत्‌, अजादिधातुरूपि-अङ्गस्य आट्‌-आगमो भवति; स च आडागमः उदात्त-संज्ञकः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | अच्‌ आदिर्येषां ते, अजादयः बहुव्रीहिः; तेषाम्‌ अजादीनाम्‌ | आट्‌ प्रथमान्तम्‌, अजादीनाम्‌ षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) इत्यस्मात्‌ '''लुङ्‌लङ्‌लृङ्क्षु''', '''उदात्तः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजादीनाम्‌ अङ्गस्य आट्‌ उदात्तः''' '''लुङ्‌लङ्‌लृङ्क्षु''' |</big>
 
 
<big>'''आटश्च''' (६.१.८९) = आडागमात्‌ अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८७) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |</big>
 
 
<big>धेयं यत्‌ उपरितने उदाहरणे एध्‌-धातोः आदौ एकारः अस्ति अतः आ + ए → ऐ इति वृद्धिः तु भवति एव | परन्तु धातुः इकारादिः उकारादिः वा चेत्‌, आ + इ / आ + उ → गुणः भवति स्म | एतदर्थम्‌ '''आटश्च''' (६.१.८९) इत्यनेन वृद्धिः भवति न तु गुणः | यथा परस्मैपदे, तुदादिगणे इष्‌-धातुः, '''इषुगमियमां छः''' (७.३.७७) इति सूत्रेण वक्ष्यमाणेन धात्वादेशेन शिति परे षकारस्य स्थाने छकारः, इष्‌ + श → अङ्गम्‌ इच्छ | लटि इच्छति; लङि आडागमं कृत्वा आ + इच्छ | अत्र सामान्यगुणसन्धिना '''आद्गुणः''' (६.१.८७) इत्यनेन 'एच्छत्‌' इति भवति स्म | परन्तु अत्र '''आटश्च''' (६.१.८९) इत्यनेन परत्वात्‌ वृधिरादेशो भवति इति कृत्वा ऐच्छत्‌ |</big>
 
 
<big>'''४.''' <u>विधिलिङ्‌-लकारः</u></big>
 
 
<big>विधिलिङि‌ सिद्ध-तिङ्‌प्रत्ययाः—</big>
 
<big>ईत       ईयाताम्‌      ईरन्‌</big>
 
<big>ईथाः     ईयाथाम्‌     ईध्वम्‌</big>
 
<big>ईय       ईवहि        ईमहि</big>
 
 
<big>'''आद्गुणः''' (६.१.८७) = विधिलिङ्गि सर्वत्र प्रसक्तिः</big>
 
 
<big>कार्यम्‌—</big>
 
<big>एध + ईत = एधेत '''                आद्गुणः''' (६.१.८७) [अपि च अग्रे सर्वत्र]</big>
 
<big>एध + ईयाताम्‌ = एधेयाताम्‌</big>
 
<big>एध + ईरन्‌ = एधेरन्‌</big>
 
<big>एध + ईथाः = एधेथाः</big>
 
<big>एध + ईयाथाम्‌ = एधेयाथाम्‌</big>
 
<big>एध + ईध्वम्‌ = एधेध्वम्‌</big>
 
<big>एध + ईय = एधेय</big>
 
<big>एध + ईवहि = एधेवहि</big>
 
<big>एध + ईमहि = एधेमहि</big>
 
<big>इति सार्वधातुकलकारेषु अदन्ताङ्ग-तिङ्प्रत्यययोः संयोजनम्‌ | फलं क्रियापदमिति |</big>
 
 
<big>Swarup - April 2013 (Updated May 2015)</big>
 
 
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/9/98/%E0%A5%AB_-_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7-%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%9A_%E0%A4%B8%E0%A4%82%E0%A4%AF%E0%A5%8B%E0%A4%9C%E0%A4%A8%E0%A4%AE%E0%A5%8D_.pdf ५ - अङ्गस्य सिद्ध-तिङ्प्रत्ययानां च संयोजनम्‌.pdf] (68k) Swarup Bhai, Mar 31, 2019, 6:16 AM v.1
page_and_link_managers, Administrators
5,097

edits