05---sArvadhAtukaprakaraNam-adantam-aGgam/05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 100:
 
 
<big>'''अतो गुणे''' (६.१.९६) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं '''वृद्धिरेचि''' (६.१.८७), '''अकः सवर्णे दीर्घः''' (६.१.९९) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''उस्यपदान्तात्‌''' (६.१.९५) इत्यस्मात्‌ '''अपदान्तात्‌''' अपि च एङि पररूपम्‌ (६.१.९३) इत्यस्मात्‌ '''पररूपम्‌''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌''' |</big>
 
 
Line 319:
 
 
<big>आ + एध = ऐध इति अङ्गम्‌   '''आडजादीनाम्‌''' (६.४.७२), '''आटश्च''' (६.१.८९)</big>
 
 
Line 346:
 
 
<big>'''आटश्च''' (६.१.८९) = आडागमात्‌ अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८७) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |</big>
 
 
<big>धेयं यत्‌ उपरितने उदाहरणे एध्‌-धातोः आदौ एकारः अस्ति अतः आ + ए → ऐ इति वृद्धिः तु भवति एव | परन्तु धातुः इकारादिः उकारादिः वा चेत्‌, आ + इ / आ + उ → गुणः भवति स्म | एतदर्थम्‌ '''आटश्च''' (६.१.८९) इत्यनेन वृद्धिः भवति न तु गुणः | यथा परस्मौपदेपरस्मैपदे, तुदादिगणे इष्‌-धातुः, '''इषुगमियमां छः''' (७.३.७७) इति सूत्रेण वक्ष्यमाणेन धात्वादेशेन शिति परे षकारस्य स्थाने छकारः, इष्‌ + श → अङ्गम्‌ इच्छ | लटि इच्छति; लङि आडागमं कृत्वा आ + इच्छ | अत्र सामान्यगुणसन्धिना '''आद्गुणः''' (६.१.८७) इत्यनेन 'एच्छत्‌' इति भवति स्म | परन्तु अत्र '''आटश्च''' (६.१.८९) इत्यनेन परत्वात्‌ वृधिरादेशो भवति इति कृत्वा ऐच्छत्‌ |</big>
 
 
page_and_link_managers, Administrators
5,097

edits