<big>'''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां, पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः''' (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम् | अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद् च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्नाम्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां अङ्गस्य''' '''पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः शिति''' |</big>
<big>अधुना '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इति सूत्रे दृशि इत्यस्ति | सानुबन्धधातुः दृशिर्, निरनुबन्धधातुश्च दृश्; कथं वा दृशि ? दृशिर् + इक् → दृश् + इ | इक्-प्रत्ययः धातुभ्यः विहितः, न शित् न वा तिङ् इति कृत्वा आर्धधातुकः, तस्मात् न शप् | अतः दृश् + इ इत्येव स्थितिः | इदानीम् अग्रे किमर्थं न '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणो न स्यात् ? इक्-प्रत्ययः कित्; कित्त्वात् '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | दृश् + इ → दृशि |</big>
<big>तदा द्वादश प्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते; यदा इमे प्रत्ययाः विहिताः भवन्ति, तदा नूतनधातवः निष्पन्नाः भवन्ति | एषाम् अस्माभिः नूतनयानूतनतया निष्पादित-धातूनां नाम '''आतिदेशिकधातवः''' | यथा णिच्-प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः | लिख् इति औपदेशिकधातुः; तस्मात् यदा णिच् विहितो भवति, तदा लेखि इति नूतनः णिजन्तधातुः निष्पन्नः | अयं च आतिदेशिकधातुः | सन्नन्तधातवः अपि तथा | कृ इति औपदेशिकधातुः, चिकीर्ष इति सन्नन्तः आतिदेशिकधातुः; लटि चिकीर्षति |</big>
<big>सम्प्रसारणं नामकम् एकं कार्यं भवति व्याकरणे | अनेन यणः स्थाने इकादेशोइगादेशो भवति | दिवादिगणे सम्प्रसारणस्य परिचयो भविष्यति | अग्रे च न केवलं दिवादिगणे, अपि तु द्रक्ष्यामः यत् बहुत्र सम्प्रसारणं भवति | यङ्लुकि अपि सम्प्रसारणस्य अवसरः | अत्र सम्प्रसारणेन किं किं भवति इति न एव लक्ष्यम् अस्माकं, तस्य च पाठः अग्रे भविष्यति | अत्र 'श्तिपा यङ्लुकि विहीतं कार्यं न भवति' इति प्रदर्शनार्थं सम्प्रसारणस्य उदाहरणं दीयते, तावदेव |</big>
<big>i. भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्यय-विकल्पः— कुत्रचित् विकल्पेन श्नु (स्वादिः इव), कुत्रचित् द्वित्वं (सनन्तः इव), कुत्रचित् णिङ् (चुरादिः इव), कुत्रचित् श्यन् (दिवादिः इव) | एषु शप् इति सामान्यम्, अन्यत् किमपि विकरणं विकल्पेन आयाति चेत् तच्च विशेषम् | यस्मिन् गणे कश्चन धातुः पठितः—नाम यस्मिन् गणे उक्तः—तदनुसृत्य तस्मात् धातुतः स्वस्य गणस्य विकरणप्रत्ययः विहितः; कस्यचिदपि विशिष्टसूत्रस्य आवश्यकता नास्ति | केनचित् विशिष्टसूत्रेण अन्यत् विकरणं विहितं चेत्, अयं धातुः तस्य विकरणस्य तद्विकरण-सम्बद्ध-गणे न भवेत्, यतोहि तस्मिन् गणे यदि अभविष्यत् तर्हि तस्य गणस्य विकरणं निरायासेन आगमिष्यत् | '''स्वादिभ्यः श्नुः''' (३.१.७३), '''दिवादिभ्यः श्यन्''' (३.१.६९), यस्मिन् कस्मिन् अपि गणे भवतु नाम, तस्मिन् गणे एतादृशेन सूत्रेण विकरणं विहितं; तस्मिन् गणे नास्ति चेदेव तद्गणस्य विकरणस्य विधानार्थं विषिष्टसूत्रम् आवश्यकम् |</big>
<big>'''अक्षोऽन्यतरस्याम्''' (३.१.७५) = अक्ष्-धातोः शप्-प्रत्ययः भवति कर्तरि सार्वधातुके; पक्षे विकल्पेन श्नु-प्रत्ययः भवति | अक्षः पञ्चम्यन्तम्, अन्यतरस्यां सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः, '''कर्तरि शप्''' (३.१.६८) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः, '''स्वादिभ्यः श्नुः''' (३.१.७३) इत्यस्मातइत्यस्मात् '''श्नुः''' इत्यस्य अनुवृत्तिः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अक्षः धातोः शप् कर्तरि सार्वधातुके; अन्यतरस्यां श्नुः''' |</big>
<big>'''तनूकरणे तक्षः''' (३.१.७६) = तक्ष्-धातोः शप्-प्रत्ययः भवति कर्तरि सार्वधातुके; तनूकरणार्थे, पक्षे विकल्पेन श्नु-प्रत्ययः भवति | तनूकरणे सप्तम्यन्तं, तक्षः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः, '''कर्तरि शप्''' (३.१.६८) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः, '''स्वादिभ्यः श्नुः''' (३.१.७३) इत्यस्मातइत्यस्मात् '''श्नुः''' इत्यस्य अनुवृत्तिः, '''अक्षोऽन्यतरस्याम्''' (३.१.७५) इत्यस्मातइत्यस्मात् '''अन्यतरस्याम्''' इत्यस्य अनुवृत्तिः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''तनूकरणे''' '''तक्षः धातोः शप् कर्तरि सार्वधातुके; अन्यतरस्यां श्नुः''' |</big>
<big>एतैः वार्तिकैः बुद्धं यत् एषां त्रयाणां धातूनाम् अर्थविशेषे एव सन्-प्रत्ययः विधीयते –</big>
<big>'''वार्तिकं – गुपेर्निन्दायाम् | वार्तिकं – तिजेः क्षमायाम् | वार्तिकं – कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च |''' निन्दाक्षमाव्याधिप्रतीकारेषु सन्निषतेसन्निष्यते, अन्यत्र यथाप्राप्तं प्रत्ययाः भवन्ति |</big>
<big>पण व्यवहारे → पण्</big>
<big>पन स्थुतौस्तुतौ → पन्</big>
<big>'''गुपूधूपविच्छिपणिपनिभ्य आयः''' (३.१.२८) = गुपू, धूप, विच्छ, पण, पन, एतेभ्यः धातुभ्यः आय-प्रत्ययो भवति स्वार्थे | गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषामितरेतरद्वन्द्वः गुपूधूपविच्छिपणिपनयः, तेभ्यः गुपूधूपविच्छिपणिपनिभ्यः | गुपूधूपविच्छिपणिपनिभ्यः पञ्चम्यन्तम्, आयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गुपूधूपविच्छपणिपनिभ्यःगुपूधूपविच्छिपणिपनिभ्यः धातुभ्यः आयः''' '''प्रत्ययः परश्च''' |</big>
<big>'''आयादय आर्धधातुके वा''' (३.१.३१) = आर्धधातुक-प्रत्ययस्य विवक्षायाम् आय-आदयः प्रत्ययाः विकल्पेन भवन्ति | आयादौ त्रयः प्रत्ययाः अन्तर्भूताः— आय, इयङ्ईयङ्, णिङ् | आय आदिर्येषां ते, आयादयः | आयादयः प्रथमान्तम्, आर्धधातुके सप्तम्यन्तं, वा अव्ययपदं, त्रिपदमिदं सूत्रम् | अत्र आर्धधातुके इति विषयसप्तमी अस्ति, अतः "आर्धधातुकस्य विषये" अथवा "आर्धधातुकस्य विवक्षायाम्" इत्यर्थः | सूत्रं स्वयं सम्पूर्णम्— '''आयादयः आर्धधातुके वा''' |</big>
<big>'''वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः''' (३.१.७०) = भ्राश्, भ्लाश्, भ्रमु चलने, क्रम्, क्लम्, त्रस्, त्रुट्, लष्, एतेभ्यः श्यन् विकल्पेन भवति, कर्त्रर्थके प्रत्यये परे | भ्रशश्चभ्राशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च, क्लमुश्च, त्रसिश्च त्रुटिश्च लष् च तेषां समाहारद्वन्द्वः भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष्, तस्मात् भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः | वा अव्ययपदं, भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''दिवादिभ्यः श्यन्''' (३.१.६९) इत्यस्मात् '''श्यन्''' इत्यस्य अनुवृत्तिः, '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः, '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातुभ्यः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः धातुभ्यः श्यन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके''' |</big>
|