page_and_link_managers, Administrators
5,152
edits
VNatarajan (talk | contribs) (Added new pdf link) |
No edit summary |
||
(32 intermediate revisions by 4 users not shown) | |||
Line 1:
{{DISPLAYTITLE:06 - भ्वादिगणः}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big>
|-
|<big>'''2016 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/54_bhvAdigaNaH-1_2016-11-23.mp3 bhvAdigaNaH-1_2016-11-23]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/55_bhvAdigaNaH-2____--__---_2016-11-30.mp3 bhvAdigaNaH-2_+_इक्श्तिपौ_+_पा-घ्रा-ध्मा_+_दंश्-सञ्ज्-स्वञ्ज्-रञ्ज्_2016-11-30]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/56_bhvAdigaNaH-3______---_______2016-12-07.mp3 bhvAdigaNaH-3_+_इक्श्तिपौ_+_यङ्लुक्_+_दंश्-सञ्ज्-स्वञ्ज्-रञ्ज्_+_जभ्_+_कृप्_+_षस्ज्_2016-12-07]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/57_bhvAdigaNaH-4__________________016-12-14.mp3 bhvAdigaNaH-4_ष्ठिव्_+_क्लम्_+_चम्_+_गुह्_+_अक्ष्_+_तक्ष्_+_गुप्_+_तिज्_+_कित्_2016-12-14]</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/58_bhvAdigaNaH-5_--------________2016-12-21.mp3 bhvAdigaNaH-5_ष्ठिव्-क्लम्-चम्-गुह्-अक्ष्-तक्ष्-गुप्-तिज्-कित्_गुप्_+_धूप्_+_पण्_+_पन्_2016-12-21]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/59_bhvAdigaNaH-6________________2016-12-28.mp3 bhvAdigaNaH-6_कम्_+_भ्राश्_+_भ्लाश्_+_भ्रम्_+_क्रम्_+_क्लम्_+_त्रस्_+_लष्_2016-12-28]</big>
|-
|<big>'''2015 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/28_bhvAdigaNaH--1_sArvadhAtukalakArAH_2015-05-26.mp3 bhvAdigaNaH--1_(sArvadhAtukalakArAH)_2015-05-26]</big>
|-
|<big>२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/29_bhvAdigaNaH--2_sArvadhAtukalakArAH_2015-06-02.mp3 bhvAdigaNaH--2_(sArvadhAtukalakArAH)_2015-06-02]</big>
|-
|<big>३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/30_bhvAdigaNaH--3_sArvadhAtukalakArAH--vishiShTa-dhAtavaH-2_2015-06-09.mp3 bhvAdigaNaH--3_(sArvadhAtukalakArAH)--vishiShTa-dhAtavaH-2_2015-06-09]</big>
|-
|<big>४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/31_bhvAdigaNaH--4_sArvadhAtukalakArAH--vishiShTa-dhAtavaH-3---vaikalpika-vikaraNa-pratyayAH_2015-06-16.mp3 bhvAdigaNaH--4_(sArvadhAtukalakArAH)--vishiShTa-dhAtavaH-3---vaikalpika-vikaraNa-pratyayAH_2015-06-16]</big>
|}
<big>एतावता अस्माभिः अदन्तम् अङ्गं निर्मितम्, अपि च सार्वधातुकलकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) तिङ्-प्रत्ययाः साधिताः | तदा गते पाठे तयोः (अङ्ग-तिङ्प्रत्यययोः) संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम् | अधुना येषु धातुगणेषु अङ्गम् अदन्तं भवति (भ्वादौ, दिवादौ, तुदादौ, चुरादौ च), तेषां गणानां कृते क्रमेण समग्रं चिन्तनं करणीयम् | नाम प्रत्येकस्मिन् गणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | प्रत्येकस्मिन् गणे अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम् इति ज्ञेयम् | एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम् अदन्तम् अङ्गम् अपेक्ष्यते; हस्ते अङ्गम् अस्ति चेत्, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता | सम्प्रति अस्मिन् पाठे भ्वादिगणीयाः धातवः परिशीलनीयाः, तदा अग्रिमेषु पाठेषु क्रमेण दिवादिगणः, तुदादिगणः, चुरादिगणः च अवलोकयिष्यन्ते |</big>
<big>स्मर्यते यत् '''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इत्यनेन तिङ्-प्रत्ययाः सार्वधातुक-सज्ञकाः | तदा '''कर्तरि शप्''' (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्यये परे, धातुतः शप्-प्रत्ययः विहितो भवति |</big>
Line 33 ⟶ 39:
<big>'''तिङ्शित् सार्वधातुकम्''' (३.४.११३) = यः प्रत्ययः तिङ् वा शित् वा अस्ति, सः प्रत्ययः सार्वधातुकम् | श् इत् यस्य सः शित्, बहुव्रीहिः | तिङ् च शित् च तयोः समाहारद्वन्द्वः तिङ्शित् | तिङ्शित् प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातो''': (३.१.९१) इत्येषाम् अधिकारः) | अनुवृत्ति-सहितसूत्रम्— '''धातोः परश्च तिङ्-शित् प्रत्ययः सार्वधातुकम्''' |</big>
<big>'''कर्तरि शप्''' (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''धातोः शप् प्रत्ययः''' '''परश्च कर्तरि सार्वधातुके''' |</big>
<big>तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्; अङ्गं ज्ञायते चेत्, लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते |</big>
Line 40 ⟶ 48:
<big>यथा परस्मैपदे भू-धातुः, अङ्गम् अस्ति भू + शप् → भव |</big>
<big>लटि सिद्ध-प्रत्ययाः— लट्-लकारे तिङन्तरूपाणि— </big>
Line 79 ⟶ 88:
<big>आत्मनेपदे वृत्-धातुः, अङ्गम् अस्ति वृत् + शप् → वर्त</big>
<big>लटि सिद्ध-प्रत्ययाः— लट्-लकारे तिङन्तरूपाणि—</big>
Line 99 ⟶ 109:
<big>लङि सिद्ध-प्रत्ययाः— लङ्-लकारे तिङन्तरूपाणि—</big>
<big>त इताम् अन्त अवर्तत अवर्तेताम् अवर्तन्त</big>
Line 108 ⟶ 119:
<big>विधिलिङि सिद्ध-प्रत्ययाः— विधिलिङ्-लकारे तिङन्तरूपाणि—</big>
<big>ईत ईयाताम् ईरन् वर्तेत वर्तेयाताम् वर्तेरन्</big>
Line 123 ⟶ 135:
<big>1. <u>सामान्यधातवः</u></big>
<big>a. एषु धातुषु शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति— केवलं संयोजनम् (754 धातवः)</big>
Line 128 ⟶ 141:
<big>- इमे सर्वे धातवः न इगन्ताः न वा इगुपधाः अतः किमपि गुणकार्यं नास्ति |</big>
<big>- एषु धातुषु अदुपधधातवः (वद् इव) 237 सन्ति |</big>
Line 154 ⟶ 168:
<big>b. इगन्तधातवः (39 धातवः)</big>
<big>इक् इति प्रत्याहारः | इ, ई, उ, ऊ, ऋ, ॠ येषां धातूनाम् अन्ते, ते इगन्तधातवः | शप् शित् अपि पित् अपि, अतः अङ्गस्य निर्माणार्थं भ्वादिगणीय-इगन्तधातूनां विकरणप्रत्यय-निमित्तकं गुणकार्यं भवति, तदा सन्धिकार्यं यथासङ्गम् |</big>
Line 159 ⟶ 174:
<big>सर्वेषाम् इगन्तधातूनां गुणकार्यम्—</big>
<big>जि + शप् → '''सार्वधातुकार्धधातुकयोः''' → जे + अ</big>
Line 164 ⟶ 180:
<big>भू + शप् → '''सार्वधातुकार्धधातुकयोः''' → भो + अ</big>
<big>हृ + शप् → '''सार्वधातुकार्धधातुकयोः''' →
<big>तदा धात्वन्ते ए, ओ चेत्, यान्तवान्तसन्धिः—</big>
Line 174 ⟶ 190:
<big>ऋकारान्तः चेत्, केवलं वर्णमेलनम्—</big>
<big>हर्+ अ → हर</big>
<big>अनेन अङ्गं निर्मितम्— जय, भव, हर |</big>
Line 181 ⟶ 199:
<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन ''''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |</big>
<big>'''एचोऽयवायावः''' (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्, अव्, आय्, आव् इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं '''यथासंख्यमनुदेशः समानाम्''' (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय् च, अव् च, आय् च, आव् च, तेषाम् इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७६) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः; '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''एचः अयवायावः अचि संहितायाम्''' |</big>
Line 186 ⟶ 205:
<big>तदा अङ्ग-सिद्धतिङ्प्रत्यययोः मेलनम् | यथा—</big>
<big>जि + शप् → जे + अ → जय → जय + तिप् → जयति</big>
Line 199 ⟶ 219:
<big>c. एजन्तधातवः (31 धातवः)</big>
<big>एते धातवः इगन्ताः न सन्ति अतः गुणस्य प्रसङ्गः न भवति | केवलं '''एचोऽयवायावः''' इत्यनेन यान्तवान्तसन्धिः |</big>
Line 211 ⟶ 232:
<big>d. लघु-इगुपधधातवः (127 धातवः)</big>
<big>उपधा नाम अन्तिमवर्णात् प्राक् यः वर्णः, सः | यस्य धातोः उपधायां लघु इक् (इ, उ, ऋ) अस्ति, सः लघु-इगुपधधातुः | शप् शित् अपि पित् अपि, अतः अङ्गस्य निर्माणार्थं भ्वादिगणीय-इगुपधधातूनां विकरणप्रत्यय-निमित्तकं गुणकार्यम्— नाम लघु-इकः गुणः |</big>
Line 216 ⟶ 238:
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</big>
<big>चित् + शप् → '''पुगन्तलघूपधस्य च''' → चेत् + अ → चेत</big>
Line 225 ⟶ 248:
<big>अनेन अङ्गं निर्मितम्— चेत, घोष, वर्ष |</big>
<big>'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |</big>
Line 230 ⟶ 254:
<big>तदा अङ्ग-सिद्धतिङ्प्रत्यययोः मेलनम् | यथा—</big>
<big>चित् + शप् → चेत् + अ → चेत → चेत + तिप् → चेतति</big>
Line 239 ⟶ 264:
<big>2. विशेषधातवः (46 धातवः)</big>
<big>भ्वादिगणे केचन धातवः सन्ति येषां विकारः भवति शिति प्रत्यये परे | ते अधः सूचिताः | अयं विकारः धात्वादेशः इत्युच्यते |</big>
Line 257 ⟶ 283:
<big>छकारादेशः भवति केवलं शिति परे इति धेयम् | अतः गच्छति परन्तु गमिष्यति, यच्छति परन्तु
<big>'''इषुगमियमां छः''' (७.३.७७) = इष्, गम्, यम् एषां छकारादेशः भवति शिति परे | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन छ्-आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने | इषुश्च गमिश्च यम् च तेषामितरेतरद्वन्द्वः इषुगमियमः, तेषाम् इषुगमियमाम् | इषुगमियमां षष्ठ्यन्तं, छः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इषुगमियमाम् अङ्गस्य छः शिति''' |</big>
Line 266 ⟶ 293:
<big><u>गम्-धातोः इक्-प्रत्ययः धातुनिर्देशे</u></big>
<big>'''इषुगमियमां छः''' (७.३.७७) इति सूत्रे गमॢ + इक् → अनुबन्धलोपे → गम् + इ → गमि | अत्र यङ्लुक् इत्यस्य प्रसङ्गो नास्ति यतोहि सूत्रस्य निमित्तं शित् यस्मात् सार्वधातुकप्रकरणे एव प्रसक्तिः; यङ्लुक् च आर्धधातुकप्रकरणे अस्ति | अतः इक्-प्रत्ययस्य प्रयोगः केवलं सूत्रशैल्यर्थम्— गमि धातुनिर्देशे |</big>
Line 271 ⟶ 299:
<big>'''छे च''' (६.१.७२) = ह्रस्वस्वरस्य तुक्-आगमो भवति छकारे परे | तुक् कित् अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७०) इत्यस्मात् '''ह्रस्वस्य''', '''तुक्''' इत्यनयोः अनुवृतिः | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वस्य तुक् छे च संहितायाम्''' |</big>
<big>b. पा-आदिधातूनां धात्वादेशः</big>
Line 277 ⟶ 306:
<big>एषां धातूनां धात्वादेशो भवति शिति परे |</big>
<big>'''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां, पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः''' (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम् | अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद् च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां अङ्गस्य''' '''पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः शिति''' |</big>
<big>अत्र पुनः प्रश्नः उदेति किमर्थं ऋ-धातोः अर्ति इति रूपं, सृ-धातोः सर्ति इति रूपम् | अत्रापि '''इक्श्तिपौ धातुनिर्देशे''' (३.३.१०८, वार्तिकम्) इति वार्तिकेन; अस्मिन् पर्याये श्तिप्-प्रत्ययः न तु इक् | ऋ-धातुः + श्तिप् → अनुबन्धलोपे → ऋ + ति → श्तिपः शित्त्वात् सार्वधातुकं यस्मात् '''कर्तरि शप्''' (३.१.६८) इत्यनेन शप् → ऋ + शप् + ति → सूत्रछ्न्दसः कृते आदादिकधातुः अर्ति इत्यर्थम् '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन शपः लुक् → ऋ + ति → श्तिपः सार्वधातुकत्वात् पित्त्वात् च '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → अर् + ति → अर्ति | तथैव सृ + श्तिप् → सर्ति |</big>
<big>कथं जानीमः श्तिप् कर्त्रर्थकः प्रत्ययः ? '''प्रत्ययः''' (३.१.१) इत्यनेन यत् किमपि विधीयते धातुभ्यः प्रातिपदिकेभ्यश्च, तस्य नाम प्रत्ययः; श्तिप् धातुभ्यः विधीयते अतः प्रत्ययः | धातुभ्यः विधीयमानाः प्रत्ययाः द्विविधाः— तिङ्, कृत् च | '''कृदतिङ्''' (३.१.९३) इति सूत्रेण यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् नास्ति, स च कृत् | श्तिप् अष्टादशसु तिङ्प्रत्ययेषु नास्ति इत्यस्मात् अयं कृत् | '''कर्तरि कृत्''' (३.४.६७) इति सामान्यसूत्रेण सर्वे कृत्प्रत्ययाः कर्त्रर्थकाः | तदा कैश्चित् विशिष्टसूत्रैः परिगणिताः कृत्प्रत्ययाः कर्मण्यर्थे, तेषु च श्तिप् नास्ति अतः '''कर्तरि कृत्''' (३.४.६७) इत्यनेन कर्त्रर्थकः एव |</big>
Line 286 ⟶ 317:
<big>'''लः कर्मणि च भावे चाकर्मकेभ्यः''' (३.४.६९) इत्यनेन लकाराः तेषां स्थाने तिङः च त्रिषु अर्थेषु भवन्ति— कर्तरि, कर्मणि, भावे च | '''तयोरेव कृत्यक्तखलर्थाः''' (३.४.७०) इत्यनेन कृत्सु प्रत्ययेषु कृत्य-प्रत्ययाः, क्त-प्रत्ययः, खलर्थाः च प्रत्ययाः भावे कर्मणि एव भवन्ति; एतान् विहाय सर्वे कृत्प्रत्ययाः '''कर्तरि कृत्''' (३.४.६७) इत्यनेन कर्त्रर्थकाः इति सामान्यस्थितिः |</big>
<big>'''इषुगमियमां छः''' (७.३.७७) इति यथावत् अत्रापि '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इति सूत्रे यङ्लुक् इत्यस्य प्रसङ्गो नास्ति यतोहि सूत्रस्य निमित्तं शित् यस्मात् सार्वधातुकप्रकरणे एव प्रसक्तिः; यङ्लुक् च आर्धधातुकप्रकरणे अस्ति | अतः अत्र श्तिप्-प्रत्ययस्य प्रयोगः केवलं सूत्रशैल्यर्थम्— अर्ति सर्ति च धातुनिर्देशे |</big>
<big>अधुना '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इति सूत्रे दृशि इत्यस्ति | सानुबन्धधातुः दृशिर्, निरनुबन्धधातुश्च दृश्; कथं वा दृशि ? दृशिर् + इक् → दृश् + इ | इक्-प्रत्ययः धातुभ्यः विहितः, न शित् न वा तिङ् इति कृत्वा आर्धधातुकः, तस्मात् न शप् | अतः दृश् + इ इत्येव स्थितिः | इदानीम् अग्रे किमर्थं न '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणो न स्यात् ? इक्-प्रत्ययः कित्; कित्त्वात् '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | दृश् + इ → दृशि |</big>
<big><u>यङ्लुकः प्रसङ्गे</u></big>
<big>श्तिप्-प्रत्ययः सूत्रस्य अलङ्कारार्थंम् उपयुज्यते पाणिनिना इति उक्तम् | ततः अग्रे अन्यत् एकं प्रयोजनं भवति— कुत्रचित् सूत्रेषु धातुनिर्देशे धातोः श्तिप्-प्रत्ययो भवति येन यङ्लुकि तस्य सूत्रस्य कार्यं तस्य धातोः कृते न स्यात् इति प्रदर्शनार्थम् |</big>
<big>अत्र बहूनां जिज्ञासा व्युत्पन्ना, यङ्लुगन्तं नाम किम् ? अतः तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते, परिचयत्वेन |</big>
<big>पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति | भू, दा, पठ्, लिख्, ज्ञा, क्री इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः | इमे पाणिनीय-धातुपाठे स्थिताः सर्वे धातवः '''औपदेशिकधातवः''' इत्युच्यन्ते |</big>
<big>तदा द्वादश प्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते; यदा इमे प्रत्ययाः विहिताः भवन्ति, तदा नूतनधातवः निष्पन्नाः भवन्ति | एषाम् अस्माभिः
<big>एषु द्वादशसु प्रत्ययेषु यङ्-प्रत्ययः अन्यतमः | वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति | यथा णिच् अपि च सन्, अस्य यङ्-प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति | तदा यङन्तधातुः इति वदामः | यङ्-प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः (लुक्) अपि भवितुम् अर्हति | यत्र यङः लुक् भवति तत्र यङ्लुगन्तधातुः इत्युच्यते | यङन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते |</big>
Line 309 ⟶ 344:
<big>यङ्लुगन्तधातवः आदादिकाः इत्युच्यन्ते यतोहि तत्र शपः लुक् भवति, अदादिगणवत् | (अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्-विकरणप्रत्ययः भवति |)</big>
<big>लिख्-धातुः → यङ्लुकः प्रक्रिया → लेलिख् इति आतिदेशिक-यङ्लुगन्त-धातुः → लटि लेलिख् + ति → लेलेक्ति</big>
Line 316 ⟶ 352:
<big>'बालकः लेलेक्ति' इत्युक्ते बालकः वारं वारं लिखति अथवा अधिकाधिकं लिखति | 'बालकः पाप्रष्टि' इत्युक्ते बालकः वारं वारं पृच्छति अथवा अधिकाधिकं पृच्छति |</big>
<big>अनेन यङ्लुगन्तानां परिचयः | कानिचन सूत्राणि सन्ति येषु कस्यचित् धातोः निर्देशो भवति श्तिप् प्रत्ययेन; तत्र श्तिपः प्रयोजनम् इदं यत् तेन सूत्रेण यत् कार्यं विधीयते, यङ्लुकः प्रसङ्गे अस्य धातोः तादृशं कार्यं न भवति |</big>
Line 322 ⟶ 359:
<big><u>श्तिपः यङ्लुकि उदाहरणम्— सम्प्रसारणम्</u></big>
<big>सम्प्रसारणं नामकम् एकं कार्यं भवति व्याकरणे | अनेन यणः स्थाने इगादेशो भवति | दिवादिगणे सम्प्रसारणस्य परिचयो भविष्यति | अग्रे च न केवलं दिवादिगणे, अपि तु द्रक्ष्यामः यत् बहुत्र सम्प्रसारणं भवति | यङ्लुकि अपि सम्प्रसारणस्य अवसरः | अत्र सम्प्रसारणेन किं किं भवति इति न एव लक्ष्यम् अस्माकं, तस्य च पाठः अग्रे भविष्यति | अत्र 'श्तिपा यङ्लुकि विहीतं कार्यं न भवति' इति प्रदर्शनार्थं सम्प्रसारणस्य उदाहरणं दीयते, तावदेव |</big>
<big>अधुना '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इति सम्प्रसारण-विधायकं सूत्रम् | अनेन किति ङिति प्रत्यये परे सम्प्रसारणं भवति | अस्मिन् सूत्रे ग्रहि, वयि, व्यधि इति त्रयः धातवः इक्-प्रत्ययेन उक्ताः; वष्टि विचति वृश्चति पृच्छति भृज्जति इत्येते पञ्च धातवः च श्तिप्-प्रत्ययेन उक्ताः | ज्या न श्तिप्-द्वारा न वा इक्-द्वारा | आहत्य नव धातवः | एषां च सर्वेषां नवानां धातूनां सम्प्रसारणं विधीयते यत्र कित्ङित् प्रत्ययः परो भवति | किन्तु ये पञ्च धातवः श्तिप्-प्रत्ययेन उक्ताः, किति ङिति प्रत्यये परे सत्यपि यङ्लुकि तेषां सम्प्रसारणं न भवति | ये त्रयः धातवः उक्ताः इक्-प्रत्ययेन, तेषां किति ङिति प्रत्यये परे यङ्लुकि यथासामान्यं सम्प्रसारणं भवति |</big>
<big>दृष्टान्ते ग्रह्-धातुः सम्प्रसारणविधायकसूत्रे इक्-प्रत्ययेन उक्तः—'ग्रहि'—अतः यङ्लुकि सम्प्रसारणं भवति | यङ्लुक्-प्रक्रियायां, ग्रह्-धातोः यङ्लुगन्तधातुः जाग्रह् | लट्-लकारस्य प्रथमपुरुषस्य द्विवचने जाग्रह् + तस् → तस् अपित्त्वात् ङिद्वत् अतः सम्प्रसारणस्य प्रसक्तिः → जागृढः इति रूपम् | किन्तु प्रच्छ्-धातुः सम्प्रसारणविधायकसूत्रे श्तिप्-प्रत्ययेन उक्तः, अतः यङ्लुकि ङिति प्रत्यये परे अपि सम्प्रसाराणं न भवति | प्रच्छ्-धातोः यङ्लुगन्तधातुः पाप्रच्छ् | लट्-लकारस्य प्रथमपुरुषस्य द्विवचने पाप्रच्छ् + तस् → तस् अपित्त्वात् ङिद्वत् सम्प्रसारणं स्यात् किन्तु न भवति → पाप्रष्टः |</big>
Line 331 ⟶ 370:
<big><u>पा-घ्रा-ध्मा इत्यादीनां धात्वादेश-प्रक्रिया</u></big>
<big>पा + शप् → पिब + अ → '''अतो गुणे''' → पिब → पिब + तिप् → पिबति</big>
Line 356 ⟶ 396:
<big>धेयं यत् सृ-धातोः स्थाने धौ-आदेशः भवति तदा यदा 'to run' इत्यर्थे अस्ति, न तु 'to go, to flow' इत्यर्थे | अतः भ्वादिगणे, सृ-धातोः लटि एकस्मिन् अर्थे धावति, अपरस्मिन् अर्थे 'सरति' |</big>
<big>दाण् दाने, अनेन सूत्रेण शिति परे यच्छ-आदेशः, अतः यथा लटि 'यच्छति' दानार्थे भवति | माता बालकाय भोजनं प्रयच्छति |</big>
<big>अन्यच्च अस्मिन् सूत्रे ये ये धातवः सन्ति, ते सर्वे
<big>'''अतो गुणे''' (६.१.९६) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं '''वृद्धिरेचि''' (६.१.८७), '''अकः सवर्णे दीर्घः''' (६.१.९९) इत्यनयोः अपवादसूत्रम् | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''उस्यपदान्तात्''' (६.१.९५) इत्यस्मात् '''अपदान्तात्''' अपि च एङि पररूपम् (६.१.९३) इत्यस्मात् '''पररूपम्''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्''' |</big>
<big>'''अदेङ्गुणः''' (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात् | अत् एङ् च गुणसंज्ञः स्यात् इति | अत् च एङ् च अदेङ् | अदेङ् प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''अत् एङ् गुणः''' |</big>
<big>c. दंश्, सञ्ज्, स्वञ्ज्, रञ्ज् इत्येषां न-लोपः—</big>
<big>'''दंशसञ्जस्वञ्जां शपि''' (६.४.२५) = दंश्, सञ्ज्, स्वञ्ज् एतेषां नकारस्य लोपः भवति शपि परे | दंशश्च, सञ्जश्च, स्वञ्जश्च
<big>यथा—</big>
<big>दंश् + शप् → दश् + अ → दश + तिप् → दशति</big>
Line 377 ⟶ 427:
<big>'''रञ्जेश्च''' (६.४.२६) = रञ्ज्-धातोः अपि नकारस्य लोपः भवति शपि परे | रञ्जेः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''नलोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रञ्जेः च अङ्गस्य नलोपः शपि''' |</big>
<big>'''रञ्जेश्च''', '''दंशसञ्जस्वञ्जां शपि''' इति सूत्रयोः कार्यं समानम् | तर्हि '''रञ्जेश्च''' इति पृथक् सूत्रं कुतः ? यतोहि अग्रिमेषु सूत्रेषु रञ्ज्-धातोः अनुवृत्तिः भवति किन्तु दंश्, सञ्ज्, स्वञ्ज् एतेषां न भवति | अनुवृत्त्यर्थं पृथक्कृतम् |</big>
Line 382 ⟶ 433:
<big>रञ्ज् + शप् → रज् + अ → रज + तिप् → रजति</big>
<big>d. जभ्-धातोः नुम्-आगमः</big>
Line 387 ⟶ 439:
<big>उपदेशे अयं मूलधातुः जभी इति ईकारः अनुबन्धः न तु इकारः, अतः '''इदितो नुम् धातोः''' (७.१.५८) इत्यनेन नुम्-आगमो न भवति | परन्तु विशिष्टसूत्रम् अस्ति येन रध्, जभ् अनयोः धात्वोः नुम्-आगमो विहितः |</big>
<big>'''रधिजभोरचि''' (७.१.६१) = रध्, जभ् अनयोः धात्वोः नुम्-आगमो भवति अजादि-प्रत्यये परे | '''अङ्गस्य''' (६.४.१) इत्यनेन अङ्गकार्यम् इदम् अतः अचि इत्युक्तौ अजादि-प्रत्यये परे | रधिश्च जभ् च तयोरितरेतरयोगद्वन्द्वः रधिजभौ, तयोः रधिजभोः | रधिजभोः षष्ठ्यन्तम्, अचि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''इदितो नुम् धातोः''' (७.१.५८) इत्यस्मात् '''नुम्''', '''धातोः''' इत्यनयोः अनुवृत्तिः (वचनपरिणामं कृत्वा '''धात्वोः''') | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रधिजभोः धात्वोः अङ्गयोः नुम् अचि''' |</big>
<big>जभी → जभ् इति अनुबन्धरहित-धातुः → '''रधिजभोरचि''' इत्यनेन अजादि
<big>नुम्-आगमः नाम नकारः |</big>
Line 408 ⟶ 462:
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' (८.३.२३) इत्यस्मात् '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>
Line 418 ⟶ 473:
<big>कृपूँ सामर्थ्ये</big>
<big>'''कृपो रो लः''' (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे '''कृपो''' → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— '''कृपः उः कृपः रः लः''' |</big>
<big>यत्र कृप्-धातोः उपधायाः गुणः भवति
<big>कल्पते | कृप् + शप् + ते → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपधगुणः → कर्प् + अ + ते → '''कृपो रो लः''' (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प् + अ + ते → कल्प इति अङ्गम | लटि कल्पते |</big>
<big>लिट्-लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणम्—</big>
<big>लिटि चकॢपे | कृप् + ए → द्वित्वम् अभ्यासकार्यम् च → चकृप् + ए → '''कृपो रो लः''' (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप् + ए → चकॢपे</big>
Line 435 ⟶ 493:
<big>प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप् न स्यात् ? उतरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम् | अतः वेदे अयं धातुः ऋदुपदधातुः भवेत् |</big>
<big>f. उपदेशे षस्ज् → सज्ज</big>
<big>षस्ज → '''धात्वादेः षः सः''' (६.१.६३), '''उपदेशेऽजनुनासिक इत्''' (१.३.२) → सस्ज्</big>
<big>'''धात्वादेः षः सः''' (६.१.६३) = मूलधातोः आदौ षकारः अस्ति चेत्, षकारस्य स्थाने सकारादेशः भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''आदेच उपदेशे''' (६.१.४५) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः षः सः उपदेशे''' |</big>
<big>सस्ज् → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन श्चुत्वम् → सश्ज् → '''झलां जश् झशि''' (८.४.५३) इत्यनेन जश्त्वम् → सज्ज् → सज्ज् + शप् → सज्ज इति अङ्गम् → सज्ज + ति/ते → सज्जति / सज्जते</big>
<big>'''झलां जश् झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं,
<big>तथैव—</big>
<big>तुदादिगणे लस्ज् → लज्जते</big>
Line 467 ⟶ 530:
<big>'''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) = ष्ठिव्, क्लम्, चम् एषां धातुरूपि-अङ्गानाम् अचः दीर्घत्वं शिति प्रत्यये परे | ष्ठिवुश्च क्लमुश्च चम् च तेषामितरेतरद्वन्द्वः ष्ठिवुक्लमुचमः, तेषां ष्ठिवुक्लमुचमाम् | ष्ठिवुक्लमुचमां षष्ठ्यन्तं, शिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''शमामष्टानां दीर्घः श्यनि''' (७.३.७४) इत्यस्मात् '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अचश्च''' (१.२.२८) इति परिभाषा-सूत्रेण यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ष्ठिवुक्लमुचमां अङ्गस्य अचः दीर्घः शिति''' |</big>
<big>'''अचश्च''' (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषा-सूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात् '''अच्''', '''ह्रस्वदीर्घप्लुतः''' इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, '''ह्रस्वदीर्घप्लुतैः''' ('''शब्दैः''') | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वदीर्घप्लुतैः अचः च अच्''' |</big>
Line 472 ⟶ 536:
<big>'''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इति संज्ञा-सूत्रम् | अनेन 'उ' इत्यस्य नाम ह्रस्वः, 'ऊ' इत्यस्य नाम दीर्घः, 'ऊ३' इत्यस्य नाम प्लुतः | ततः अग्रिमं सूत्रं '''अचश्च''' (१.२.२८) वक्ति यत् यत्र यत्र एतैः शब्दैः आदेशः इष्टः, तत्र तत्र अचः स्थाने एव अयम् आदेशो भवति |</big>
<big>वार्तिकम्— '''आङि चम इति वक्तव्यम् | आचामति | आङि किम् ? चमति | विचमति | अचमीत् |''' नाम आ इति उपसर्गः अस्ति चेदेव चम् धातोः अच् दीर्घो भवति |</big>
Line 477 ⟶ 542:
<big>आङः चमु → आचम् → आचम् + शप् → '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) → आचाम → आचामति</big>
<big>क्लमु → क्लम् → क्लम् + शप् → '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) → क्लाम → क्लामति (दिवादिगणे क्लाम्यति)</big>
<big>ष्ठिवु → ष्ठिव् → ष्ठिव् + शप् → '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) → ष्ठीव → ष्ठीवति</big>
<big>'''सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः''' इति वार्तिकं, '''धात्वादेः षः सः''' (६.१.
<big>धेयं यत् 'ष्ठिव् + शप्' इति स्थितौ '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५), '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनयोर्मध्ये '''पुगन्तलघूपधस्य च''' (७.३.८६) परसूत्रम् | किन्तु ष्ठिव्-धातोः शित्-प्रत्यये परे '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणो भवति चेत्, '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मिन् ष्ठिव् इति भागस्य अन्यत्रलब्धावकाशो नास्ति; तस्मात् अत्र तु अपवादस्य वार्ता | इत्थञ्च एतादृशेषु स्थलेषु '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) एव प्रवर्तते न तु '''पुगन्तलघूपधस्य च''' (७.३.८६) |</big>
Line 489 ⟶ 558:
<big>h. गुह्-धातोः उपधा दीर्घः अजादि-प्रत्यये परे</big>
<big>गुहू → गुह् (गुहू संवरणे = आवृणोति)</big>
Line 494 ⟶ 564:
<big>'''ऊदुपधाया गोहः''' (६.४.८९) = गुह्-धातोः उपधायाः दीर्घ-ऊकारादेशो भवति गुणहेतावजादौ प्रत्यये परे | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तम्, त्रिपदमिदं सुत्रम् | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गोहः''' '''अङ्गस्य''' '''उपधायाः ऊत् अचि''' |</big>
<big>गुहू → गुह् → गुह् + शप् → '''ऊदुपधाया गोहः''' (६.४.८९) → गूह → गूहति / गूहते</big>
Line 500 ⟶ 571:
<big>अत्र प्रश्नः उदेति यत् सूत्रे 'गोहः' इत्यस्य कथनेन प्रथमतया गुणः भवति '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन, तदा एव गोह् इत्यस्य गुणसंज्ञक-ओकारस्य स्थाने ऊकारादेशः इति वा ? किन्तु तथा नास्ति; अत्र सूत्रे स्थितस्य 'गोहः' इत्यस्य सन्देशः अयं यत् यत्र यत्र लघूपधगुणः सम्भावनीयः, तत्र तत्र गुणं प्रबाध्य ऊकारादेशः स्यात् | अतः अत्र वास्तवे '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रं कार्यं न करोति; यत्र तस्य कार्यं सम्भाव्यं, तत्र '''ऊदुपधाया गोहः''' (६.४.८९) इति सूत्रं प्रवर्तनीयम् |</big>
<big>i. भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्यय-विकल्पः— कुत्रचित् विकल्पेन श्नु (स्वादिः इव), कुत्रचित् द्वित्वं (सनन्तः इव), कुत्रचित् णिङ् , कुत्रचित् श्यन् (दिवादिः इव) | एषु शप् इति सामान्यम्, अन्यत् किमपि विकरणं विकल्पेन आयाति चेत् तच्च विशेषम् | यस्मिन् गणे कश्चन धातुः पठितः—नाम यस्मिन् गणे उक्तः—तदनुसृत्य तस्मात् धातुतः स्वस्य गणस्य विकरणप्रत्ययः विहितः; कस्यचिदपि विशिष्टसूत्रस्य आवश्यकता नास्ति | केनचित् विशिष्टसूत्रेण अन्यत् विकरणं विहितं चेत्, अयं धातुः तस्य विकरणस्य तद्विकरण-सम्बद्ध-गणे न भवेत्, यतोहि तस्मिन् गणे यदि अभविष्यत् तर्हि तस्य गणस्य विकरणं निरायासेन आगमिष्यत् | '''स्वादिभ्यः श्नुः''' (३.१.७३), '''दिवादिभ्यः श्यन्''' (३.१.६९), यस्मिन् कस्मिन् अपि गणे भवतु नाम, तस्मिन् गणे एतादृशेन सूत्रेण विकरणं विहितं; तस्मिन् गणे नास्ति चेदेव तद्गणस्य विकरणस्य विधानार्थं विषिष्टसूत्रम् आवश्यकम् |</big>
<big><u>स्वादिगणीयः इव श्नु इति विकरणम्</u></big>
<big>अक्षू → अक्ष् (अक्षू व्याप्तौ = व्याप्नोति)</big>
<big>'''अक्षोऽन्यतरस्याम्''' (३.१.७५) = अक्ष्-धातोः शप्-प्रत्ययः भवति कर्तरि सार्वधातुके; पक्षे विकल्पेन श्नु-प्रत्ययः भवति | अक्षः पञ्चम्यन्तम्, अन्यतरस्यां सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः, '''कर्तरि शप्''' (३.१.६८) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः, '''स्वादिभ्यः श्नुः''' (३.१.७३)
<big>शपि अक्ष् + शप् → अक्ष् + अ → अक्ष इति अङ्गम् → अक्ष + ति → अक्षति</big>
Line 515 ⟶ 589:
<big>'''तनूकरणे तक्षः''' (३.१.७६) = तक्ष्-धातोः शप्-प्रत्ययः भवति कर्तरि सार्वधातुके; तनूकरणार्थे, पक्षे विकल्पेन श्नु-प्रत्ययः भवति | तनूकरणे सप्तम्यन्तं, तक्षः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः, '''कर्तरि शप्''' (३.१.६८) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः, '''स्वादिभ्यः श्नुः''' (३.१.७३)
<big>शपि तक्ष् + शप् → तक्ष् + अ → तक्ष इति अङ्गम् → तक्ष + ति → तक्षति</big>
Line 522 ⟶ 597:
<big>तनूकरणं नाम 'to shave, pare, plane, make thin' | इयमेव क्रिया carpenter's लक्षणात्मकं कार्यं, तदर्थं संस्कृते carpenter
<big>इमौ द्वौ धातू (अक्ष्, तक्ष्) यदि स्वादिगणे अभविष्यतां, तर्हि श्नु-प्रत्ययस्य आनयनार्थं विशिष्ट-सूत्रस्य आवश्यकता नाभविष्यत् |</big>
Line 529 ⟶ 605:
<big><u>सनन्ताः इव सन् इति प्रत्ययः</u></big>
<big>अत्र सप्त धातवः सन्ति; इमे च सप्त धातवः मूले चुरादिगणीयाः | अतः तस्मिन् चुरादिगणे पठिताः; तत्रैव णिच् च शप् च विहितौ भवतः | यथा गुप-धातोः गोपयति, तिज्-धातोः तेजयति, कित्-धातोः सङ्केतयति— इमानि रूपाणि चुरादिगणे एव निष्पन्नानि, सूत्राणि च तत्रैव | परन्तु एषां धातूनां सनन्तरूपाणि अपि भवन्ति; तानि चुरादिगणे निष्पादयितुं न शक्यते यतोहि तत्र णिच्-प्रत्ययः सर्वदा विधीयते | चुरादौ णिच् तु भवत्येव, तदा सन् अपि आयाति चेत् फलं दोषाय | येन तन्न स्यात्, एषां सनन्तरूपाणि भ्वादिगणे पठितानि | तर्हि फलितार्थः एवं यत् एषां सप्तानां धातूनां कृते सन्-प्रत्ययः इति विशेषः भ्वादौ; सन्-अभावे णिच्-प्रत्ययः इति सामान्यं चुरादिगणे |</big>
<big>'''गुप्तिज्किद्भ्यः सन्''' (३.१.५) = 'गुप गोपने', 'तिज निशाने', 'कित निवासे', एतेभ्यः धातुभ्यः सन्-प्रत्ययो भवति | "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" इत्यनेन यदा कश्चन प्रत्ययः विहितः भवति किन्तु तस्य अर्थः नोक्तः, तदा स्वार्थे अस्ति इति मन्यते | स्वार्थे नाम तस्य प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति | गुप् च तिज् च किच्च तेषामितरेतरद्वन्द्वः गुप्तिज्किदः, तेभ्यः गुप्तिज्किद्भ्यः | गुप्तिज्किद्भ्यः पञ्चम्यन्तं, सन् प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''गुप्तिज्किद्भ्यः सन्''' |</big>
<big>एतैः वार्तिकैः बुद्धं यत् एषां त्रयाणां धातूनाम् अर्थविशेषे एव सन्-प्रत्ययः विधीयते –</big>
<big>'''वार्तिकं – गुपेर्निन्दायाम् | वार्तिकं – तिजेः क्षमायाम् | वार्तिकं – कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च |''' निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यते, अन्यत्र यथाप्राप्तं प्रत्ययाः भवन्ति |</big>
<big>गुप्-धातुः—</big>
Line 540 ⟶ 623:
<big>सामान्यः अर्थः 'to hide' चुरादौ, तत्र न सन्-प्रत्ययः— '''गोपयति'''</big>
<big>वार्तिकं – गुपेर्निन्दायाम् | विशेषार्थः निन्दायां 'to despise' भ्वादौ, तत्र सन्-प्रत्ययः— '''जुगुप्सते'''</big>
<big>तिज्-धातुः—</big>
<big>सामान्यः अर्थः 'to sharpen' चुरादौ, तत्र न सन्-प्रत्ययः— '''तेजयति'''</big>
<big>वार्तिकं – तिजेः क्षमायाम् | विशेषार्थः क्षमायां 'to endure' भ्वादौ, तत्र सन्-प्रत्ययः— '''तितिक्षते'''</big>
Line 554 ⟶ 640:
<big>सामान्यः अर्थः 'to make a sign' चुरादौ, तत्र न सन्-प्रत्ययः— '''सङ्केतयति'''</big>
<big>वार्तिकं – कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च | विशेषार्थाः व्याधिप्रतीकारे 'to heal', निग्रहे "to restrain", अपनयने "to remove" , नाशने "to destroy", संशये " to doubt/suspect", भ्वादौ, तत्र सन्-प्रत्ययः— '''चिकित्सति |''' प्रायेण हि लोके व्याधिप्रतीकारे चिकित्सतीति प्रयुज्यते |</big>
<big>तर्हि एषु रूपेषु सन्-प्रत्ययः स्वार्थे अस्ति, नाम धातोः मूलार्थः यः सः एव भवति; सन्-प्रत्ययस्य संयोजनेन
<big>अत्र सनन्तानां प्रक्रियावसरो नास्ति, किन्तु सङ्क्षेपे प्रदर्श्यते—</big>
<big>गुप् + सन् → सन्-संयोजनेन द्वित्वम्, '''कुहोश्चुः''' (७.४.६२) इत्यनेन तालव्यादेशः → जुगुप् + स → जुगुप्स → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → जुगुप्स इति धातुः → कर्त्रर्थे सार्वधातुके परे '''कर्तरि शप्''' (३.१.६८) → जुगुप्स + शप् → जुगुप्स इति अङ्गम् → लटि जुगुप्स + ते → जुगुप्सते</big>
Line 565 ⟶ 653:
<big>'''मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य''' (३.१.६) = 'मान पूजायाम्', 'बध बन्धने', 'दान अवखण्डने', 'शान अवतेजने', इत्येभ्यः धातुभ्यः सन्-प्रत्ययः भवति; अभ्यासस्य च इकारस्य दीर्घादेशो भवति | अत्र सन्-प्रत्ययः स्वार्थे, नाम तस्य संयोजनेन अर्थपरिवर्तनं न भवति | मान् च बधश्च दान च शान च तेषामितरेतरद्वन्द्वः मान्बधदान्शानः, तेभ्यः मान्बधदान्शान्भ्यः | मान्बधदान्शान्भ्यः पञ्चम्यन्तं, दीर्घः प्रथमान्तं, च अव्ययम्, अभ्यासस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''गुप्तिज्किद्भ्यः सन्''' (३.१.५) इत्यस्मात् '''सन्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''मान्बधदान्शान्भ्यः सन्; दीर्घः च अभ्यासस्य''' |</big>
<big>'''पूर्वोभ्यासः''' (६.१.४) इत्यनेन द्वित्वे सति प्रथमभागस्य अभ्यास-संज्ञा भवति |</big>
Line 571 ⟶ 660:
<big>एतैः वार्तिकैः बुद्धं यत् एषां चतुर्णां धातूनाम् अर्थविशेषे एव सन्-प्रत्ययः विधीयते —</big>
<big>'''वार्तिकं – मानेर्जिज्ञासायाम् | वार्तिकं – बधेश्चित्तविकारे | वार्तिकं – दानेरार्जवे | वार्तिकं – शानेर्निशाने |'''</big>
<big>'मान पूजायाम्' (to honor, मानयति चुरादौ) = जिज्ञासायां to investigate इत्यस्मिन् अर्थे '''मीमांसते''' भ्वादौ |</big>
<big>'बध बन्धने' (to bind, बाधयति/ते चुरादौ) = चित्तविकारे to loath इत्यस्मिन् अर्थे '''बीभत्सते''' भ्वादौ |</big>
<big>'दान अवखण्डने' (to cut, दानयति/ते चुरादौ) = स्पष्टीकरणं, to straighten इत्यस्मिन् अर्थे '''दीदांसति/ते''' भ्वादौ |</big>
<big>'शान अवतेजने' (to whet, शानयति/ते चुरादौ) = तीक्ष्णीकरणं to sharpen इत्यस्मिन् अर्थे '''शीशांसति/ते''' भ्वादौ |</big>
Line 588 ⟶ 683:
<big>पण व्यवहारे → पण्</big>
<big>पन
<big>'''गुपूधूपविच्छिपणिपनिभ्य आयः''' (३.१.२८) = गुपू, धूप, विच्छ, पण, पन, एतेभ्यः धातुभ्यः आय-प्रत्ययो भवति स्वार्थे | गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषामितरेतरद्वन्द्वः गुपूधूपविच्छिपणिपनयः, तेभ्यः गुपूधूपविच्छिपणिपनिभ्यः | गुपूधूपविच्छिपणिपनिभ्यः पञ्चम्यन्तम्, आयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''
<big>गुप् + आय → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → गोपाय → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → कर्त्रर्थे सार्वधातुके परे '''कर्तरि शप्''' (३.१.६८) → गोपाय + शप् + ति → '''अतो गुणे''' (६.१.९७) इति पररूपे → गोपाय् + अ + ति → गोपायति</big>
Line 607 ⟶ 703:
<big>'''आयादय आर्धधातुके वा''' (३.१.३१) = आर्धधातुक-प्रत्ययस्य विवक्षायाम् आय-आदयः प्रत्ययाः विकल्पेन भवन्ति | आयादौ त्रयः प्रत्ययाः अन्तर्भूताः— आय,
<big>आर्धधातुकलकारेषु विकल्पेन आय-प्रत्ययः | यथा गुप्-धातुः लृटि आय-पक्षे गोपायिष्यति, आय-अभावे गोपिष्यति | लिटि आय-पक्षे गोपायाञ्चकार, आय-अभावे जुगोप |</big>
Line 613 ⟶ 710:
<big><u>णिङ्-प्रत्ययः</u></big>
<big>'''कमेर्णिङ्''' (३.१.३०) = 'कमु कान्तौ' (इच्छार्थे) इत्यस्मात् णिङ्-प्रत्ययः भवति स्वार्थे | कमेः पञ्चम्यन्तं, णिङ् प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''कमेः णिङ्''' |</big>
Line 618 ⟶ 716:
<big>णिङ्-प्रत्यये णकारङकारयोः इत्-संज्ञा, इ इति अवशिष्यते | ङित् इत्यनेन आत्मनेपदं भवति; णित् इत्यस्मात् '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधाभूतस्य अकारस्य वृद्धिः भवति |</big>
<big>कमु → कम् → '''कमेर्णिङ्''' (३.१.३०) → कम् + इ → '''अत उपधायाः''' (७.२.११६) → कामि → कामि + शप् → गुणः → कामे + अ → कामय → कामयते</big>
<big>आर्धधातुकलकारेषु '''आयादय आर्धधातुके वा''' (३.१.३१) इत्यनेन विकल्पेन णिङ्-प्रत्ययः | यथा लृटि णिङ्-पक्षे कामयिष्यते, णिङ्-अभावे
<big><u>दिवादिगणीयः इव श्यन् इति विकरणम्</u></big>
<big>'''वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः''' (३.१.७०) = भ्राश्, भ्लाश्, भ्रमु चलने, क्रम्, क्लम्, त्रस्, त्रुट्, लष्, एतेभ्यः श्यन् विकल्पेन भवति, कर्त्रर्थके प्रत्यये परे | भ्राशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च, क्लमुश्च, त्रसिश्च त्रुटिश्च लष् च तेषां समाहारद्वन्द्वः भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष्, तस्मात् भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः | वा अव्ययपदं, भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''दिवादिभ्यः श्यन्''' (३.१.६९) इत्यस्मात् '''श्यन्''' इत्यस्य अनुवृत्तिः, '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः, '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातुभ्यः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः धातुभ्यः श्यन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके''' |</big>
Line 636 ⟶ 736:
<big>भ्रमु चलने = भ्रमणं करोति | भ्रम् + शप्/श्यन् → भ्रम/भ्रम्य → भ्रमति/भ्रम्यति</big>
<big>क्रमु पादविक्षेपे = पादाभ्यां चलति | क्रम् + शप्/श्यन् → '''क्रमः परस्मैपदेषु''' (७.३.७६)* → क्रम/क्रम्य/क्राम/क्राम्य → क्रमते***/क्रम्यते ***/क्रामति/क्राम्यति</big>
<big>क्लमु ग्लानौ = श्रान्तः भवति | क्लम् + शप्/श्यन् → '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५)** → क्लाम/क्लाम्य → क्लामति/क्लाम्यति</big>
Line 646 ⟶ 746:
<big>*'''क्रमः परस्मैपदेषु''' (७.३.७६) = क्रम्-धातुरूपि-अङ्गस्य अचः दीर्घत्वं परस्मैपदे शिति परे | क्रमः षष्ठ्यन्तं, परस्मैपदेषु सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः, वचनपरिणामं कृत्वा '''शित्सु''' | '''शमामष्टानां दीर्घः श्यनि''' (७.३.७४) इत्यस्मात् '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अचश्च''' (१.२.२८) इति परिभाषा-सूत्रेण यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''क्रमः अङ्गस्य अचः दीर्घः शित्सु परस्मैपदेषु''' |</big>
<big>***'''अनुपसर्गाद्वा''' ( १.३.४३) = उपसर्गरहितात् 'क्रम्' धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति</big> <big>| उपसर्गसहितः चेत् सङ्क्रामति |</big>
<big>'''अचश्च''' (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषा-सूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात् '''अच्''', '''ह्रस्वदीर्घप्लुतः''' इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, '''ह्रस्वदीर्घप्लुतैः''' ('''शब्दैः''') | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वदीर्घप्लुतैः अचः च अच्''' |</big>
Line 671 ⟶ 776:
<big>[https://static.miraheze.org/samskritavyakaranamwiki/8/8f/%E0%A5%AC_-_%E0%A4%AD%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf ६ - भ्वादिगणः.pdf] (123k)
<big>Swarup Bhai, Jul 15, 2020, 4:26 PM v.1</big>
|