05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 402:
 
<big>अन्यच्च अस्मिन्‌ सूत्रे ये ये धातवः सन्ति, ते सर्वे भ्वादिकाः, किन्तु एषु केचन अपरेषु गणेष्वपि पठिताः, यथा सृ-धातुः जुहोत्यादिगणेऽपि ससर्ति; शद्‌, सद्‌ च तुदादिगणेऽपि पठितौ शीयते सीदति इति |</big>
 
<big>'''अतो गुणे''' (६.१.९६) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं '''वृद्धिरेचि''' (६.१.८७), '''अकः सवर्णे दीर्घः''' (६.१.९९) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''उस्यपदान्तात्‌''' (६.१.९५) इत्यस्मात्‌ '''अपदान्तात्‌''' अपि च एङि पररूपम्‌ (६.१.९३) इत्यस्मात्‌ '''पररूपम्‌''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌''' |</big>
 
<big>'''अदेङ्‌गुणः''' (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात्‌ | अत्‌ एङ्‍ च गुणसंज्ञः स्यात्‌ इति | अत्‌ च एङ्‌ च अदेङ्‌ | अदेङ्‌ प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''अत्‌ एङ्‌ गुणः''' |</big>
 
page_and_link_managers, Administrators
5,097

edits