05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 658:
 
<big>'''सन्यतः''' (७.४.७९) इत्यनेन सन्‌-प्रत्यये परे अभ्यासस्य ह्रस्व-अकारस्य स्थाने इकारादेशो भवति |</big>
 
 
 
<big>एतैः वार्तिकैः बुद्धं यत्‌ एषां चतुर्णां धातूनाम्‌ अर्थविशेषे एव सन्‌-प्रत्ययः विधीयते —</big>
 
<big>'''वार्तिकं मानेर्जिज्ञासायाम् | वार्तिकं बधेश्चित्तविकारे | वार्तिकं दानरार्जवे | वार्तिकं शानेर्निशाने |'''</big>
 
Line 734 ⟶ 736:
<big>भ्रमु चलने = भ्रमणं करोति | भ्रम्‌ + शप्‌/श्यन्‌ → भ्रम/भ्रम्य → भ्रमति/भ्रम्यति</big>
 
<big>क्रमु पादविक्षेपे = पादाभ्यां चलति | क्रम्‌ + शप्‌/श्यन्‌ → '''क्रमः परस्मैपदेषु''' (७.३.७६)* → क्रम/क्रम्य/क्राम/क्राम्य → क्रमते***/क्रम्यते/क्रामति/क्राम्यति</big>
 
<big>क्लमु ग्लानौ = श्रान्तः भवति | क्लम्‌ + शप्‌/श्यन्‌ → '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५)** → क्लाम/क्लाम्य → क्लामति/क्लाम्यति</big>
Line 744 ⟶ 746:
 
<big>*'''क्रमः परस्मैपदेषु''' (७.३.७६) = क्रम्‌-धातुरूपि-अङ्गस्य अचः दीर्घत्वं परस्मैपदे शिति परे | क्रमः षष्ठ्यन्तं, परस्मैपदेषु सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात्‌ '''शिति''' इत्यस्य अनुवृत्तिः, वचनपरिणामं कृत्वा '''शित्सु''' | '''शमामष्टानां दीर्घः श्यनि''' (७.३.७४) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अचश्च''' (१.२.२८) इति परिभाषा-सूत्रेण यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''क्रमः अङ्गस्य अचः दीर्घः शित्सु परस्मैपदेषु''' |</big>
 
<big>***'''अनुपसर्गाद्वा''' ( १.३.४३) = उपसर्गरहितात् 'क्रम्' धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति</big> <big>|</big>
 
 
<big>'''अचश्च''' (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | परिभाषा-सूत्रम्‌ | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात्‌ '''अच्‌''', '''ह्रस्वदीर्घप्लुतः''' इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, '''ह्रस्वदीर्घप्लुतैः''' ('''शब्दैः''') | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वदीर्घप्लुतैः अचः च अच्‌''' |</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits