05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 58:
 
<big><br />
किन्तु अन्यत्र हलादि-अजादि-भेदेन कार्ये भेदः | यद्यपि कार्ये कित्‌-ङित्‌ इति प्रसङ्गः अस्ति, परन्तु सूत्रेषु "हलादि परे”, "अजादि परे" इति कुत्रचित्‌ उक्तम्‌ | यथा प्रत्ययः हलादिः कित्‌-ङित्‌ चेत्‌, '''हलि च''' (८.२.७७) इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति | दिवादिगणे श्यन्‌ हलादिः अतः इदं कार्यं भवति (जॄ + य → जिर्‍जिर् + य → '''जीर्‍जीर्''' + य → जीर्यति); तुदादौ श अजादिः अतः न भवति | अन्यत्र प्रत्ययः अजादिः कित्‌-ङित्‌ चेदेव भवति | यथा '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण अचि (किति ङिति) परे, इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयङ्‌ उवङ्‌ आदेशः भवति | रि + अ + ति → र्‍र् + इय्‌ + अ + ति → रियति | दिवादौ श्यन्‌ हलादिः अतः इदं कार्यं न सम्भवति |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits