page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |
||
(16 intermediate revisions by 3 users not shown) | |||
Line 1:
{{DISPLAYTITLE:09 - तुदादिगणे इतोऽपि विशेषधातवः}}
{| class="wikitable mw-collapsible mw-collapsed"
!'''<big>ध्वनिमुद्रणानि</big>'''
Line 12 ⟶ 13:
|२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/40_tudAdigaNaH--5_samprasAraNinaH-dhAtavaH__mucAdyantargaNaH-numAgamaH__lasja-masja__vicChAyati_2015-08-18.mp3 tudAdigaNaH--5_samprasAraNinaH-dhAtavaH_+_mucAdyantargaNaH-numAgamaH_+_lasja-masja_+_vicChAyati_2015-08-18]
|}
<big>अस्मिन् पाठे तुदादिगणीयाः अवशिष्टविशेष-धातवः उपस्थाप्यन्ते | स्मारणार्थं विशेषधातुः नाम तादृशधातुः यस्य अङ्गस्य साधनकार्यं केवलं गणसम्बद्ध-सामान्यसूत्राणि अधिकृत्य न भवति अपि तु विशिष्टसूत्राणि अधिकृत्य भवति |</big>
<big><u>1.धात्वादेशः</u></big>
<big>a. पा-आदिधातूनां धात्वादेशः (द्वौ धातू स्तः)</big>
<big>तुदादौ धातुद्वयम्— षद्ऌ, शद्ऌ |</big>
<big>'''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां, पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः''' (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम् |अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद् च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम् |'''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— '''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां अङ्गस्य''' '''पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः शिति''' |</big>
<big>षद्ऌ + श → सद् + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्येनेन सीद-आदेशः → सीद + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः → सीद इति अङ्गम् → सीद + ति → सीदति</big>
<big>षद्ऌ विशरणगत्यवसादनेषु इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः | भेदः अस्ति '''आच्छीनद्योर्नुम्''' (७.१.८०) इत्यनेन तुदादौ शतरि स्त्रीयां नुम्-विकल्पः | पुंसि सीदन्, स्त्रियां सीदन्ती/सीदती | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः |</big>
<big>शद्ऌ + श → शद् + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्यनेन शीय-आदेशः → शीय + अ → '''अतो गुणे''' (६.१.९७) → शीय इति अङ्गम् → शीय + ते → शीयते ( अत्र '''शदेः शितः''' (१.३.६०) इत्यनेन आत्मनेपदित्वं विधीयते )</big>
<big>शद्ऌ शातने इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः |</big>
<big>'''अतो गुणे''' (६.१.९७) = अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः संहितायाम् | गुणः इत्युक्तौ अ, ए, ओ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''उस्यपदान्तात्''' (६.१.९६) इत्यस्मात् '''अपदान्तात्''' अपि च '''एङि पररूपम्'''(६.१.९४) इत्यस्मात् '''पररूपम्''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रम्— '''गुणे अपदान्तात् अतः पूर्वपरयोः एकः पररूपं संहितायाम्''' |</big>
<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८), '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनयोः अपवादभूतसूत्रम् |</big>
<big>यथा—</big>
<big>पठ + अन्ति → पठन्ति '''अतो गुणे''' (६.१.९७), अत्र '''अकः सवर्णे दीर्घः''' इत्यस्य अपवादभूतसूत्रम्</big>
<big>सेव + ए → सेवे '''अतो गुणे''' (६.१.९७), अत्र '''वृद्धिरेचि''' इत्यस्य अपवादभूतसूत्रम्</big>
<big>b. इष्-धातोः छकारादेशः (एकः धातुः)</big>
<big>तुदादौ इष इच्छायाम् इति धातुः |</big>
<big>'''इषुगमियमां छः''' (७.३.७७) = इष्, गम्, यम् एषां छकारादेशः भवति शिति परे | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन छ्-आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने | इषुश्च गमिश्च यम् च तेषामितरेतरद्वन्द्वः इषुगमियमः, तेषाम् इषुगमियमाम् |इषुगमियमां षष्ठ्यन्तं, छः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इषुगमियमाम् अङ्गस्य छः शिति''' |</big>
<big>केवलं शिति परे इति धेयम् | अतः इच्छति परन्तु एषिष्यति |</big>
<big>इष् + श → '''इषुगमियमां छः''', '''अलोन्त्यस्य''' इत्याभ्यं ष्-स्थाने छ् → इछ् + अ → '''छे च''' (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक्-आगमो भवति | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन इकारस्य अनन्तरं (न तु पूर्वम्) | इछ्+ अ → इत्छ् + अ → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन तवर्गस्य शकारचवर्गाभ्यां योगे तवर्गस्य क्रमात् चवर्ग आदेशः → इत्छ् + अ → इच्छ् + अ → इच्छ इति अङ्गम् → इच्छ + ति → इच्छति</big>
<big>इष → इष् ''' उपदेशेऽजनुनासिक इत्'''</big>
<big>इष् + अ → इछ् + अ ''' इषुगमियमां छः''' (७.३.७७)</big>
<big>इछ् → इत्छ् ''' छे च''' (६.१.७३), '''आद्यन्तौ टकितौ''' (१.१.४६)</big>
<big>इत्छ् → इच्छ् '''स्तोः श्चुना श्चुः''' (८.४.४०)</big>
<big>इच्छ् + अ → इच्छ वर्णमेलने</big>
<big>इच्छ + ति → इच्छति</big>
<big>'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्-आगमो भवति | तुक् कित् अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७०) इत्यस्मात् '''ह्रस्वस्य''', '''तुक्''' इत्यनयोः अनुवृतिः | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वस्य तुक् छे च संहितायाम्''' |</big>
<big>अत्र इछ् इति स्थितिः | इछ् इत्यस्मिन् 'इ' ह्रस्वस्वरः, अपि च छकारः परोऽस्ति | अतः तुक्-आगमः भवति— किन्तु कुत्र ? प्रथमप्रश्नः अस्ति यत् अयं तुगागमः कस्य आगमः ? ह्रस्वस्वरस्य इति सूत्रेण उक्तम् | तदा इकारात् प्राक् अथवा परमिति जिज्ञासायां सत्याम्, अग्रिमसूत्रेण समाधानम् |</big>
<big>'''आद्यन्तौ टकितौ''' (१.१.४६) = टित् च कित् च यस्य आगमः, तस्य क्रमशः आदौ च अन्ते च अवयवः भवति | आगमः टित् चेत् पूर्वम् आयाति; आगमः कित् चेत् अन्ते आयाति | आदिश्च अन्तश्च आद्यन्तौ इतरेतरद्वन्द्वः, टश्च कश्च टकौ, इतरेतरद्वन्द्वः,टकौ इतौ ययोः तौ टकितौ, बहुव्रीहिः | आद्यन्तौ प्रथमान्तं, टकितौ प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''आद्यन्तौ टकितौ''' |</big>
<big>तुक् कित् अस्ति अतः अनेन सूत्रेण 'इछ्' इत्यस्मिन् इकारात् परमायाति | तुक्-आगमे ककारः उकारः च इत्-सज्ञकौ वर्णौ; तकारः एव अवशिष्यते | अतः इछ् → इत्छ् |</big>
<big><u>2. सम्प्रसारणिनः धातवः (4 धातवः)</u></big>
<big>तुदादिगणे चत्वारः सम्प्रसारणिनः धातवः—</big>
<big>ओव्रश्चू छेदने (कर्तयति) → व्रश्च्</big>
<big>प्रच्छ ज्ञीप्सायाम् → प्रच्छ्</big>
<big>भ्रस्ज् पाके (to fry, parch, roast) → भ्रस्ज्</big>
<big>व्यच व्याजीकरणे (वञ्चयति) → व्यच्</big>
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तम्, ङिति सप्तम्यन्तम्, च अव्ययम्, त्रिपदमिदं सूत्रम् | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात् '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्'''इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च''' '''सम्प्रसारणम्''' |</big>
<big>व्रश्च् → व्रश्च् + श → व्रश्च् + अ → '''ग्रहि ज्या''' इत्यनेन सम्प्रसारणम् → वृश्च् + अ → वृश्च इति अङ्गम् → वृश्च + ति → वृश्चति</big>
<big>प्रच्छ् → प्रच्छ् + श → '''ग्रहि ज्या''' इत्यनेन सम्प्रसारणम् → पृच्छ् + अ → पृच्छ इति अङ्गम् → पृच्छ + ति → पृच्छति</big>
<big>भ्रस्ज् → भ्रस्ज् + श → भ्रस्ज् + अ → '''ग्रहि ज्या''' इत्यनेन सम्प्रसारणम् → भृस्ज् + अ → '''स्तोः श्चुना श्चुः''' → भृश्ज् + अ → '''झलां जश् झशि''' → भृज्ज् + अ → भृज्ज इति अङ्गम् → भृज्ज + ति/ते → भृज्जति, भृज्जते</big>
<big>व्यच् → व्यच् + श → व्यच् + अ → '''ग्रहि ज्या''' इत्यनेन सम्प्रसारणम् → विच् + अ → विच इति अङ्गम् → विच + ति → विचति</big>
<big>क्त प्रत्यये परे (किति इत्यस्य उदाहरणम्)—</big>
<big>व्रश्च् → वृक्णः</big>
<big>प्रच्छ् → पृष्टः</big>
<big>भ्रस्ज् → भृष्टः</big>
<big>व्यच् → विचितः</big>
<big>'''इग्यणः सम्प्रसारणम्''' (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''यणः इक् सम्प्रसारणम्''' |</big>
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''', '''अमि पूर्वः''' (६.१.१०७)इत्यस्मात् '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवति | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्''' |</big>
<big>'''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''न सम्प्रसारणे सम्प्रसारणम्''' |</big>
<big>3.<u>नुमागमः</u> (8 धातवः)</big>
<big>एतावता अस्माभिः दृष्टं यत् धातुः इदित् चेत्, नुमागमस्य प्रसक्तिः | यथा वदि-धातुः इदित् (ह्रस्व-इकारः इत् यस्य सः) अस्ति अतः '''इदितो नुम् धातोः''' (७.१.५८) इति सूत्रेण नुमागमः विहितः | वदि → वद् → वन्द् → वंद् → वन्द् इति भवति |परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति (मुचाद्यन्तर्गणः) यत्र धातुः इदित् नास्ति चेदपि नुमागमः विधीयते |</big>
<big><u>मुचाद्यन्तर्गणः</u></big>
<big>अस्मिन् अन्तर्गणे अष्टौ धातवः सन्ति— मुच्, सिच्, विद्, खिद्, पिश्, कृत्, लिप्, लुप्</big>
<big>मुच्ऌ मोक्षणे (मुक्तीकरणे) → मुच्</big>
<big>षिच क्षरणे (सिञ्चने) → सिच्</big>
<big>विद्ऌ लाभे (प्राप्तौ)→ विद्</big>
<big>खिद परिघाते (खिन्नः भवति, दुःखम् अनुभवति) → खिद्</big>
<big>पिश अवयवे (भागविभागीकरणे) → पिश्</big>
<big>कृती छेदने (कर्तयति) → कृत्</big>
<big>लिप उपदेहे (लेपने) → लिप्</big>
<big>लुप्ऌ छेदने (कर्तयति) → लुप्</big>
<big>मुच् + श → मुच् + अ →</big>
<big>'''शे मुचादीनाम्''' (७.१.५९) = मुचादीनां नुमागमः भवति शे परे | मुच् आदिर्येषां ते मुचादयः, तेषां मुचादीनाम् | शे सप्तम्यन्तं, मुचादीनां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''इदितो नुम् धातोः''' (७.१.५८) इत्यस्मात् '''नुम्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१)इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मुचादीनाम् अङ्गस्य नुम् शे''' |</big>
<big>'''मिदचोऽन्त्यात्परः''' (१.१.४७) = यः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म् इत् यस्य सः मित्, बहुव्रीहिः | मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तम्,परः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यस्मात् '''अन्तः''' इत्यस्य अनुवृत्तिः | अस्मिन् सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्" इत्यस्य अर्थः निर्धारणम्— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्" | अत्र '''अचः''' एकवचने यतोहि अनेन अच्-जातिः इति इष्टम् | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्) | '''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्''' (१.२.५८) = जाति-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; '''षष्ठी स्थानेयोगा''' (१.१.४९) इति सामान्यम्, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— '''मित् अचः अन्त्यात् परः अन्तः''' |</big>
<big>अनेन सूत्रेण नुम् "यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति", इत्युक्तम् | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, '''लशक्वतद्धिते''' (१.३.८) इत्यनेन 'इ' अवशिष्यते] → '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन नुमागमः → ज्ञान + न् + इ → अयं नकारः ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन '''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) इत्यनेन अङ्गस्य उपधायाः दीर्घः → ज्ञानान् + इ → ज्ञानानि |यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः नाभविष्यत्, अकारः उपधायां नाभविष्यत्, '''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत् |</big>
<big>(प्रश्नः— अत्रोक्तं 'ज्ञान + इ [शि-प्रत्ययः]' | सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस् इत्यादयः | तर्हि प्रथमपुरुषस्य बहुवचने 'जस्' इति प्रत्ययः भवेत्; कथं वा 'शि' इति जातम् ? मूलप्रत्ययाः सु, औ, जस् इति तु सत्यम् | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति— मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम् अनुसृत्य, कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे '''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात् अङ्गात् जस्-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्य बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)</big>
<big>नुम् आगमः मित् अस्ति (मकारः इत् यस्य सः), अतः नुम् अचः अन्त्यात् परम् आयाति |</big>
<big>उदा—</big>
<big>मुचऌ → मुच् ''' उपदेशेऽजनुनासिक इत्'''</big>
<big>मुच् → मुन्च् '''शे मुचादीनाम्'''</big>
<big>मुन्च् → मुंच् ''' नश्चापदान्तस्य झलि'''</big>
<big>मुंच् → मुञ्च् '''अनुस्वारस्य ययि परसवर्णः'''</big>
<big>मुञ्च् + श → मुञ्च इति अङ्गम्</big>
<big>मुञ्च + ति → मुञ्चति</big>
<big>धेयं यत् श-विकरणप्रत्ययः यत्र न विहितः, तत्र नुमागमो न भवति | मुच् + क्त → मुक्तः |</big>
<big>षिच → सिच् + श → सिन्च् + अ → सिंच् + अ → सिञ्च् + अ → सिञ्च इति अङ्गम् → सिञ्च + ति → सिञ्चति</big>
<big>विद्ऌ → विद् + श → विन्द् + अ → विंद् + अ → विन्द् + अ → विन्द इति अङ्गम् → विन्द + ति → विन्दति</big>
<big>खिद → खिद् + श → खिन्द् + अ → खिंद् + अ → खिन्द् + अ → खिन्द इति अङ्गम् → खिन्द + ति → खिन्दति</big>
<big>पिश → पिश् + श → पिन्श् + अ → पिंश् + अ → पिंश इति अङ्गम् → पिंश + ति → पिंशति</big>
<big>कृती → कृत् + श → कृन्त् + अ → कृंत् + अ → कृन्त् + अ → कृन्त इति अङ्गम् → कृन्त + ति → कृन्तति</big>
<big>लिप → लिप् + श → लिन्प् + अ → लिंप् + अ → लिम्प् + अ → लिप्म इति अङ्गम् → लिम्प + ति → लिम्पति</big>
<big>लुप्ऌ → लुप् + श → लुन्प् + अ → लुंप् + अ → लुम्प् + अ → लुम्प इति अङ्गम् → लुम्प + ति → लुम्पति</big>
<big>अनुस्वारादेशः— '''नश्चापदान्तस्य झलि''' |</big>
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' (८.३.२३) इत्यस्मात् '''मः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्'''इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
<big>परसवर्णादेशः— '''अनुस्वारस्य ययि परसवर्णः''' |</big>
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>
<big><u>4.सन्धिकार्यम्</u> (2 धातू)</big>
<big>ओलस्जी व्रीडायाम् (लज्जितो भवति) → लस्ज्</big>
<big>टुमस्जो शुद्धौ (निर्मलो भवति, स्वच्छो भवति, स्नानं करोति; जले निमग्नो भवति) → मस्ज्</big>
<big>ओलस्जी → लस्ज् ''' उपदेशेऽजनुनासिक इत्'''</big>
<big>लस्ज् → लश्ज् ''' स्तोः श्चुना श्चुः''' (८.४.४०)</big>
<big>लश्ज् → लज्ज् ''' झलां जश् झशि''' (८.४.५३)</big>
<big>लज्ज् + श → लज्ज इति अङ्गम्</big>
<big>लज्ज + ते → लज्जते</big>
<big>'''झलां जश् झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''झलां जश् झशि संहितायाम्''' |</big>
<big>टुमस्जो → मस्ज् → मश्ज् → मज्ज् → मज्ज् + अ → मज्ज इति अङ्गम् → मज्ज + ति → मज्जति</big>
<big><u>5.आय प्रत्ययः</u> (1 धातुः)</big>
<big>तुदादौ विच्छ गतौ → विच्छ् इति धातुः |</big>
<big>'''गुपूधूपविच्छिपणिपनिभ्य आयः''' (३.१.२८) = गुपू, धूप, विच्छ, पण, पन, एतेभ्यः धातुभ्यः आय-प्रत्ययो भवति स्वार्थे | गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषामितरेतरद्वन्द्वः गुपूधूपविच्छिपणिपनयः, तेभ्यः गुपूधूपविच्छिपणिपनिभ्यः |गुपूधूपविच्छिपणिपनिभ्यः पञ्चम्यन्तम्, आयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गुपूधूपविच्छपणिपनिभ्यः धातुभ्यः आयः''' '''प्रत्ययः परश्च''' |</big>
<big>विच्छ् + आय → विच्छाय → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → विच्छाय इति धातुः → कर्त्रर्थे सार्वधातुके परे '''तुदादिभ्यः शः''' (३.१.७७) ( विच्छिरयं तुदादौ पाठः, तत्सामर्थ्यात् आयप्रत्ययान्तात् अपि श-विकरणो भवति, न तु शप् इति पदमञ्जर्याम् उक्तम्) → विच्छाय + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः पररूपम् एकादेशः → विच्छाय इति अङ्गम् → विच्छाय + ति → विच्छायति</big>
<big>अत्र आय-प्रत्ययो भवति स्वार्थे इत्युक्तं स्पष्टीकरणार्थं यथा णिच्-प्रत्ययः चुरादिगणे; इमौ प्रत्ययौ धातोः स्वस्य अर्थपोषणं करोति नान्यत् किमपि | नाम अनयोः प्रत्यययोः संयोजनेन धातोः अर्थः न परिवर्तते | केवलं रूपस्य साधनार्थम् अयं आय-प्रत्ययः उपयुज्यते पाणिनिना; धातुः अस्ति विच्छ्, रूपम् अस्ति विच्छायति— तस्य साधनार्थम् आय-प्रत्ययः अपेक्षितः |</big>
<big>अस्मिन् सूत्रे अवशिष्टाः धातवः भ्वादिगणे; भ्वादिगणस्य पाठे तेषां विवरणम्— गोपायति, धूपायति, पणायति, पनायति |</big>
<big><u>6.विकरणप्रत्यय-विकल्पः</u> (1 धातुः)</big>
<big>'''वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः''' (३.१.७०) = भ्राश्, भ्लाश्, भ्रमु चलने, क्रम्, क्लम्, त्रस्, '''त्रुट्''', लष्, एतेभ्यः श्यन् विकल्पेन भवति, कर्त्रर्थके प्रत्यये परे | भ्रशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च, क्लमुश्च, त्रसिश्च त्रुटिश्च लष् च तेषां समाहारद्वन्द्वः भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष्, तस्मात् भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः | वा अव्ययपदं, भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''दिवादिभ्यः श्यन्''' (३.१.६९) इत्यस्मात् '''श्यन्''' इत्यस्य अनुवृत्तिः, '''कर्तरि शप्'''(३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः, '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातुभ्यः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः धातुभ्यः श्यन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके''' |</big>
<big>तुदादौ त्रुट् → श-प्रत्यये त्रुटति, विकल्पेन श्यन्-प्रत्यये त्रुट्यति |</big>
<big>अस्मिन् सूत्रे त्रुट्-धातुः तुदादिगणे, त्रसीँ (उद्वेगे) इति धातुः दिवादिगणे, अवशिष्टाः सर्वे धातवः भ्वादिगणे सन्ति | इत्थं च विशिष्टसूत्रेण श्यन् इति विकरणप्रत्ययः विहितः; श्यन्-अभावे शप् इति सामान्यं भ्वादौ, श इति सामान्यं तुदादौ |</big>
<big>इति तुदादिगणे समग्रं तिङ्-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम् |</big>
<big>Swarup – May 2013 (updated August 2015)</big>
[https://static.miraheze.org/samskritavyakaranamwiki/9/98/%E0%A5%AF_-_%E0%A4%A4%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%87%E0%A4%A4%E0%A5%8B%E0%A4%BD%E0%A4%AA%E0%A4%BF_%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%87%E0%A4%B7%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83.pdf 09 तुदादिगणे इतोऽपि विशेषधातवः.pdf]
|