05---sArvadhAtukaprakaraNam-adantam-aGgam/09---tudAdigaNe-itopi-visheShadhAtavaH: Difference between revisions

no edit summary
m (Protected "09 - तुदादिगणे इतोऽपि विशेषधातवः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 36:
<big>षद्लृ + श → सद्‌ + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्येनेन सीद-आदेशः → सीद + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन अपदान्तात्‌ अतः गुणे पूर्वपरयोः पररूपम्‌ एकादेशः → सीद इति अङ्गम्‌ → सीद + ति → सीदति</big>
 
<big>षद्लृ विसरणगत्यवसादनेषुविशरणगत्यवसादनेषु इति धातुः भ्वादौ अपि तुदादौ अपि भवति | भेदः अस्ति '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इत्यनेन तुदादौ शतरि स्त्रीयां नुम्‌-विकल्पः | पुंसि सीदन्‌, स्त्रियां सीदन्ती/सीदती |</big>
 
 
Line 259:
 
 
<big>'''गुपूधूपविच्छिपणिपनिभ्य आयः''' (३.१.२८) = गुपू, धूप, विच्छ, पण, पन, एतेभ्यः धातुभ्यः आय-प्रत्ययो भवति स्वार्थे | गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषामितरेतरद्वन्द्वः गुपूधूपविच्छिपणिपनयः, तेभ्यः गुपूधूपविच्छिपणिपनिभ्यः |गुपूधूपविच्छिपणिपनिभ्यः पञ्चम्यन्तम्‌, आयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचोधातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''गुपूधूपविच्छपणिपनिभ्यः धातुभ्यः आयः''' '''प्रत्ययः परश्च''' |</big>
 
 
<big>विच्छ्‌ + आय → विच्छाय → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → विच्छाय इति धातुः → कर्त्रर्थे सार्वधातुके परे '''तुदादिभ्यः शः''' (३.१.७७) ( विच्छिरयं तुदादौ पाठः, तत्सामर्थ्यात् आयप्रत्ययान्तात् अपि श-विकरणो भवति, न तु शप् इति पदमञ्जर्याम् उक्तम्) → विच्छाय + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः पररूपम्‌ एकादेशः → विच्छाय इति अङ्गम्‌ → विच्छाय + ति → विच्छायति</big>
 
<big>अत्र आय-प्रत्ययो भवति स्वार्थे इत्युक्तं स्पष्टीकरणार्थं यथा णिच्‌-प्रत्ययः चुरादिगणे; इमौ प्रत्ययौ धातोः स्वस्य अर्थपोषणं करोति नान्यत्‌ किमपि | नाम अनयोः प्रत्यययोः संयोजनेन धातोः अर्थः न परिवर्तते | केवलं रूपस्य साधनार्थम्‌ अयं आय-प्रत्ययः उपयुज्यते पाणिनिना; धातुः अस्ति विच्छ्‌, रूपम्‌ अस्ति विच्छायति— तस्य साधनार्थम्‌ आय-प्रत्ययः अपेक्षितः |</big>
page_and_link_managers, Administrators
5,097

edits