05---sArvadhAtukaprakaraNam-adantam-aGgam/09---tudAdigaNe-itopi-visheShadhAtavaH: Difference between revisions
05---sArvadhAtukaprakaraNam-adantam-aGgam/09---tudAdigaNe-itopi-visheShadhAtavaH (view source)
Revision as of 17:04, 3 June 2021
, 2 years agono edit summary
No edit summary |
No edit summary |
||
Line 17:
Line 30 ⟶ 31:
<big>'''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां, पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः''' (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम् |अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद् च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम् |'''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— '''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां अङ्गस्य''' '''पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः शिति''' |</big>
<big>षद्लृ + श → सद् + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्येनेन सीद-आदेशः → सीद + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः → सीद इति अङ्गम् → सीद + ति → सीदति</big>
<big>षद्लृ विसरणगत्यवसादनेषु इति धातुः भ्वादौ अपि तुदादौ अपि भवति | भेदः अस्ति '''आच्छीनद्योर्नुम्''' (७.१.८०) इत्यनेन तुदादौ शतरि स्त्रीयां नुम्-विकल्पः | पुंसि सीदन्, स्त्रियां सीदन्ती/सीदती |</big>
<big>शद्लृ + श → शद् + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्यनेन शीय-आदेशः → शीय + अ → '''अतो गुणे''' (६.१.९७) → शीय इति अङ्गम् → शीय + ते → शीयते</big>
<big>शद्लृ शातने इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि |</big>
<big>'''अतो गुणे''' (६.१.९७) = अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः संहितायाम् | गुणः इत्युक्तौ अ, ए, ओ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''उस्यपदान्तात्''' (६.१.९६) इत्यस्मात् '''अपदान्तात्''' अपि च '''एङि पररूपम्'''(६.१.९४) इत्यस्मात् '''पररूपम्''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रम्— '''गुणे अपदान्तात् अतः पूर्वपरयोः एकः पररूपं संहितायाम्''' |</big>
<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८), '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनयोः अपवादभूतसूत्रम् |</big>
<big>यथा—</big>
Line 47 ⟶ 52:
<big>पठ + अन्ति → पठन्ति '''अतो गुणे''' (६.१.९७), अत्र '''अकः सवर्णे दीर्घः''' इत्यस्य अपवादभूतसूत्रम्</big>
<big>सेव + ए → सेवे '''अतो गुणे''' (६.१.९७), अत्र '''वृद्धिरेचि''' इत्यस्य अपवादभूतसूत्रम्</big>
<big>b. इष्-धातोः छकारादेशः (एकः धातुः)</big>
<big>तुदादौ इष इच्छायाम् इति धातुः |</big>
<big>'''इषुगमियमां छः''' (७.३.७७) = इष्, गम्, यम् एषां छकारादेशः भवति शिति परे | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन छ्-आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने | इषुश्च गमिश्च यम् च तेषामितरेतरद्वन्द्वः इषुगमियमः, तेषाम् इषुगमियमाम् |इषुगमियमां षष्ठ्यन्तं, छः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इषुगमियमाम् अङ्गस्य छः शिति''' |</big>
<big>केवलं शिति परे इति धेयम् | अतः इच्छति परन्तु एषिष्यति |</big>
<big>इष् + श → '''इषुगमियमां छः''', '''अलोन्त्यस्य''' इत्याभ्यं ष्-स्थाने छ् → इछ् + अ → '''छे च''' (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक्-आगमो भवति | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन इकारस्य अनन्तरं (न तु पूर्वम्) | इछ्+ अ → इत्छ् + अ → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन तवर्गस्य शकारचवर्गाभ्यां योगे तवर्गस्य क्रमात् चवर्ग आदेशः → इत्छ् + अ → इच्छ् + अ → इच्छ इति अङ्गम् → इच्छ + ति → इच्छति</big>
Line 69 ⟶ 77:
<big>इच्छ् + अ → इच्छ वर्णमेलने</big>
<big>इच्छ + ति → इच्छति</big>
<big>'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्-आगमो भवति | तुक् कित् अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७०) इत्यस्मात् '''ह्रस्वस्य''', '''तुक्''' इत्यनयोः अनुवृतिः | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वस्य तुक् छे च संहितायाम्''' |</big>
<big>अत्र इछ् इति स्थितिः | इछ् इत्यस्मिन् 'इ' ह्रस्वस्वरः, अपि च छकारः परोऽस्ति | अतः तुक्-आगमः भवति— किन्तु कुत्र ? प्रथमप्रश्नः अस्ति यत् अयं तुगागमः कस्य आगमः ? ह्रस्वस्वरस्य इति सूत्रेण उक्तम् | तदा इकारात् प्राक् अथवा परमिति जिज्ञासायां सत्याम्, अग्रिमसूत्रेण समाधानम् |</big>
<big>'''आद्यन्तौ टकितौ''' (१.१.४६) = टित् च कित् च यस्य आगमः, तस्य क्रमशः आदौ च अन्ते च अवयवः भवति | आगमः टित् चेत् पूर्वम् आयाति; आगमः कित् चेत् अन्ते आयाति | आदिश्च अन्तश्च आद्यन्तौ इतरेतरद्वन्द्वः, टश्च कश्च टकौ, इतरेतरद्वन्द्वः,टकौ इतौ ययोः तौ टकितौ, बहुव्रीहिः | आद्यन्तौ प्रथमान्तं, टकितौ प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''आद्यन्तौ टकितौ''' |</big>
Line 79 ⟶ 89:
<big>तुक् कित् अस्ति अतः अनेन सूत्रेण 'इछ्' इत्यस्मिन् इकारात् परमायाति | तुक्-आगमे ककारः उकारः च इत्-सज्ञकौ वर्णौ; तकारः एव अवशिष्यते | अतः इछ् → इत्छ् |</big>
<big><u>2. सम्प्रसारणिनः धातवः (4 धातवः)</u></big>
<big>तुदादिगणे चत्वारः सम्प्रसारणिनः धातवः—</big>
<big>ओव्रश्चू छेदने (कर्तयति) → व्रश्च्</big>
|