05---sArvadhAtukaprakaraNam-adantam-aGgam/09---tudAdigaNe-itopi-visheShadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 56:
 
<big>b. इष्‌-धातोः छकारादेशः (एकः धातुः)</big>
 
 
 
<big>तुदादौ इष इच्छायाम्‌ इति धातुः |</big>
 
 
 
Line 91 ⟶ 94:
 
<big><u>2. सम्प्रसारणिनः धातवः (4 धातवः)</u></big>
 
 
 
<big>तुदादिगणे चत्वारः सम्प्रसारणिनः धातवः—</big>
 
 
 
Line 102 ⟶ 108:
 
<big>व्यच व्याजीकरणे (वञ्चयति) → व्यच्‌</big>
 
 
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तम्‌, ङिति सप्तम्यन्तम्‌, च अव्ययम्‌, त्रिपदमिदं सूत्रम्‌ | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌'''इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च''' '''सम्प्रसारणम्‌''' |</big>
Line 112 ⟶ 119:
 
<big>व्यच्‌ → व्यच्‌ + श → व्यच्‌ + अ → '''ग्रहि ज्या''' इत्यनेन सम्प्रसारणम्‌ → विच्‌ + अ → विच इति अङ्गम् → विच + ति → विचति</big>
 
 
<big>क्त प्रत्यये परे (किति इत्यस्य उदाहरणम्‌)—</big>
Line 122 ⟶ 130:
 
<big>व्यच्‌ → विचितः</big>
 
 
<big>'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |</big>
 
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''', '''अमि पूर्वः''' (६.१.१०७)इत्यस्मात्‌ '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌''' |</big>
 
 
<big>'''न सम्प्रसारणे सम्प्रसारणम्'''‌ (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं सम्पूर्णम्‌— '''न सम्प्रसारणे सम्प्रसारणम्'''‌ |</big>
 
 
<big>3. <u>नुमागमः</u> (8 धातवः)</big>
 
 
 
<big>एतावता अस्माभिः दृष्टं यत्‌ धातुः इदित्‌ चेत्‌, नुमागमस्य प्रसक्तिः | यथा वदि-धातुः इदित्‌ (ह्रस्व-इकारः इत्‌ यस्य सः) अस्ति अतः '''इदितो नुम्‌ धातोः''' (७.१.५८) इति सूत्रेण नुमागमः विहितः | वदि → वद्‌ → वन्द्‌ → वंद् → वन्द्‌ इति भवति |परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति (मुचाद्यन्तर्गणः) यत्र धातुः इदित्‌ नास्ति चेदपि नुमागमः विधीयते |</big>
 
 
<big><u>मुचाद्यन्तर्गणः</u></big>
 
<big>अस्मिन्‌ अन्तर्गणे अष्टौ धातवः सन्ति— मुच्‌, सिच्‌, विद्‌, खिद्‌, पिश्‌, कृत्‌, लिप्‌, लुप्‌</big>
 
 
<big>मुच्ऌ मोक्षणे (मुक्तीकरणे) → मुच्‌</big>
Line 152 ⟶ 167:
 
<big>लुप्‌ऌ छेदने (कर्तयति) → लुप्‌</big>
 
 
<big>मुच्‌ + श‌ → मुच्‌ + अ →</big>
 
<big>'''शे मुचादीनाम्''' (७.१.५९) = मुचादीनां नुमागमः भवति शे परे | मुच्‌ आदिर्येषां ते मुचादयः, तेषां मुचादीनाम्‌ | शे सप्तम्यन्तं, मुचादीनां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''इदितो नुम्‌ धातोः''' (७.१.५८) इत्यस्मात्‌ '''नुम्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१)इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मुचादीनाम् अङ्गस्य नुम्‌ शे''' |</big>
 
 
<big>'''मिदचोऽन्त्यात्परः''' (१.१.४७) = यः मित्‌ अस्ति, सः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति, अपि च अयं मित्‌ यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म्‌ इत्‌ यस्य सः मित्‌, बहुव्रीहिः | मित्‌ प्रथमान्तम्‌, अचः षष्ठ्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तम्‌,परः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यस्मात्‌ '''अन्तः''' इत्यस्य अनुवृत्तिः | अस्मिन्‌ सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्‌" इत्यस्य अर्थः निर्धारणम्‌— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्‌" | अत्र '''अचः''' एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) | '''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌''' (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; '''षष्ठी स्थानेयोगा''' (१.१.४९) इति सामान्यम्‌, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— '''मित्‌ अचः अन्त्यात्‌ परः अन्तः''' |</big>
 
<big>अनेन सूत्रेण नुम्‌ "यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति", इत्युक्तम्‌ | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, '''लशक्वतद्धिते''' (१.३.८) इत्यनेन 'इ' अवशिष्यते] → '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन नुमागमः → ज्ञान + न्‌ + इ → अयं नकारः ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन '''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) इत्यनेन अङ्गस्य उपधायाः दीर्घः → ज्ञानान्‌ + इ → ज्ञानानि |यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः नाभविष्यत्‌, अकारः उपधायां नाभविष्यत्‌, '''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत्‌ |</big>
 
 
<big>(प्रश्नः— अत्रोक्तं 'ज्ञान + इ [शि-प्रत्ययः]' | सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस्‌ इत्यादयः | तर्हि प्रथमपुरुषस्य बहुवचने 'जस्‌' इति प्रत्ययः भवेत्‌; कथं वा 'शि' इति जातम्‌ ? मूलप्रत्ययाः सु, औ, जस्‌ इति तु सत्यम्‌ | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति— मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम्‌ अनुसृत्य, कुत्रचित्‌ प्रातिपदिकस्य अन्तिमवर्णम्‌ अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे '''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्य बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)</big>
 
<big>नुम्‌ आगमः मित्‌ अस्ति (मकारः इत्‌ यस्य सः), अतः नुम्‌ अचः अन्त्यात्‌ परम्‌ आयाति |</big>
 
 
<big>उदा—</big>
Line 178 ⟶ 197:
 
<big>मुञ्च + ति → मुञ्चति</big>
 
 
<big>धेयं यत्‌ श-विकरणप्रत्ययः यत्र न विहितः, तत्र नुमागमो न भवति | मुच्‌ + क्त → मुक्तः |</big>
Line 194 ⟶ 214:
 
<big>लुप्‌ऌ → लुप्‌ + श → लुन्प्‌ + अ → लुंप्‌ + अ → लुम्प्‌ + अ → लुम्प इति अङ्गम्‌ → लुम्प + ति → लुम्पति</big>
 
 
<big>अनुस्वारादेशः— '''नश्चापदान्तस्य झलि''' |</big>
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्'''इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
 
 
<big>परसवर्णादेशः— '''अनुस्वारस्य ययि परसवर्णः''' |</big>
Line 203 ⟶ 225:
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>
 
 
<big><u>4. सन्धिकार्यम्‌</u> (2 धातू)</big>
 
 
 
<big>ओलस्जी व्रीडायाम्‌ (लज्जितो भवति) → लस्ज्‌</big>
 
<big>टुमस्जो शुद्धौ (निर्मलो भवति, स्वच्छो भवति, स्नानं करोति; जले निमग्नो भवति) → मस्ज्‌</big>
 
 
<big>ओलस्जी → लस्ज्‌ '''                 उपदेशेऽजनुनासिक इत्'''</big>
Line 218 ⟶ 244:
 
<big>लज्ज + ते → लज्जते</big>
 
 
<big>'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>
Line 223 ⟶ 250:
<big>टुमस्जो → मस्ज्‌ → मश्ज्‌ → मज्ज्‌ → मज्ज्‌ + अ → मज्ज इति अङ्गम्‌ → मज्ज + ति → मज्जति</big>
 
 
<big><u>5. आय प्रत्ययः</u> (1 धातुः)</big>
 
 
 
<big>तुदादौ विच्छ गतौ → विच्छ्‌ इति धातुः |</big>
 
 
<big>'''गुपूधूपविच्छिपणिपनिभ्य आयः''' (३.१.२८) = गुपू, धूप, विच्छ, पण, पन, एतेभ्यः धातुभ्यः आय-प्रत्ययो भवति स्वार्थे | गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषामितरेतरद्वन्द्वः गुपूधूपविच्छिपणिपनयः, तेभ्यः गुपूधूपविच्छिपणिपनिभ्यः |गुपूधूपविच्छिपणिपनिभ्यः पञ्चम्यन्तम्‌, आयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''गुपूधूपविच्छपणिपनिभ्यः धातुभ्यः आयः''' '''प्रत्ययः परश्च''' |</big>
teachers
340

edits