05---sArvadhAtukaprakaraNam-adantam-aGgam/09---tudAdigaNe-itopi-visheShadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 273:
 
 
<big>'''वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः''' (३.१.७०) = भ्राश्‌, भ्लाश्‌, भ्रमु चलने, क्रम्‌, क्लम्‌, त्रस्‌, '''त्रुट्‌''', लष्‌, एतेभ्यः श्यन्‌ विकल्पेन भवति, कर्त्रर्थके प्रत्यये परे | भ्रशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च, क्लमुश्च, त्रसिश्च त्रुटिश्च लष्‌ च तेषां समाहारद्वन्द्वः भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष्‌, तस्मात्‌ भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः | वा अव्ययपदं, भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''दिवादिभ्यः श्यन्‌''' (३.१.६९) इत्यस्मात्‌ '''श्यन्‌''' इत्यस्य अनुवृत्तिः, '''कर्तरि शप्‌'''(३.१.६८) इत्यस्मात्‌ '''कर्तरि''' इत्यस्य अनुवृत्तिः, '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातुभ्यः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः धातुभ्यः श्यन्‌ प्रत्ययः परश्च वा कर्तरि सार्वधातुके''' |</big>
 
 
Line 286:
 
 
[[https:File:05 09 तुदादिगणे इतोऽपि विशेषधातवः//static.miraheze.org/samskritavyakaranamwiki/c/c4/05_09_%E0%A4%A4%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%87%E0%A4%A4%E0%A5%8B%E0%A4%BD%E0%A4%AA%E0%A4%BF_%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%87%E0%A4%B7%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83.pdf|File:05 09 तुदादिगणे इतोऽपि विशेषधातवः.pdf]]