05---sArvadhAtukaprakaraNam-adantam-aGgam/11---curAdigaNe-visheShadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary

(10 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:11 - चुरादिगणे विशेषधातवः}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि
Line 21 ⟶ 22:

चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टम् | तानि च '''अचो ञ्णिति''', '''अत उपधायाः''', '''पुगन्तलघूपधस्य च''' | इदं कार्यं सामान्यम्‌ इत्युच्यते अस्मिन्‌ गणे | पुनः चुरादिगणे बहवः हलन्तधातवः सन्ति यत्र किमपि कार्यं नार्हति यतः उपधायां ह्रस्व-अकारः (अत्‌) अपि नास्ति, लघु इक्‌ अपि नास्ति | तान्‌ अपि वयम्‌ अपश्याम | अस्मिन्‌ करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति, तान्‌ अवलोकयाम |

चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टम् | तानि च '''अचो ञ्णिति''', '''अत उपधायाः''', '''पुगन्तलघूपधस्य च''' | इदं कार्यं सामान्यम्‌ इत्युच्यते अस्मिन्‌ गणे | पुनः चुरादिगणे बहवः हलन्तधातवः सन्ति यत्र किमपि कार्यं नार्हति यतः उपधायां ह्रस्व-अकारः (अत्‌) अपि नास्ति, लघु इक्‌ अपि नास्ति | तान्‌ अपि वयम्‌ अपश्याम | अस्मिन्‌ करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति, तान्‌ अवलोकयाम |

१. अदन्तधातवः (93 धातवः)
Line 30 ⟶ 32:
चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति | यथा कथ, गृह, गण, क्षिप— एषाम्‌ अन्ते ह्रस्व-अकारः वर्तते | तस्य अकारस्य लोपः तु भवति, परन्तु '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण इति न | यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः (अँ) नास्त्येव; अतः इमे अकाराः इत्‌-संज्ञकवर्णाः न सन्ति | तर्हि एषां धातूनाम् अन्त्यः अकारः कथं लुप्यते ? चुरादिगणे धातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः एकं सूत्रम्‌ अस्ति '''अतो लोपः''', यस्य द्वारा अकार-लोपः सिध्यति—

'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः अङ्गस्य''' नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌—सहितसूत्रम्‌— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |

णिच्‌-प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत्‌, '''अतो लोपः''' (६.४.४८) इत्यस्य प्रसक्तिः भवति |
Line 37 ⟶ 41:
यथा—

कथ + णिच्‌ → कथ्‌ + इ

गृह + णिच्‌ → गृह्‌ + इ

इदानीं कथ्‌ इति धातुः अस्ति, गृह्‌ इति धातुः अस्ति | अस्यां दशायां कथ्‌-धातोः उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्‌-धातोः उपधायां लघु-इकः गुणः |
Line 45 ⟶ 49:

'''अत उपधायाः''' (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |

'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

अनयोः सूत्रयोः प्रसक्तिः स्यात्‌ | परन्तु अनेन परिभाषा-सूत्रेण लोपः लुप्त-अकारः इव भवति—

'''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्‌' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच्‌ इव— 'स्थानिवत्‌' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन्‌ इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन्‌ पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन्‌ सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात्‌ '''स्थानिवत्‌''', '''आदेशः''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्‌—सहितसूत्रम्‌— '''अचः आदेशः स्थानिवत्‌ परस्मिन्‌ पूर्वविधौ''' |

इत्थं च चुरादिगणे अदन्तधातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः लोपः स्थानिवत्‌ नाम ह्रस्व-अकारः इव | अनेन कारणेन '''अत उपधायाः''' इति सूत्रस्य दृष्ट्या कथ्‌-धातुः 'कथ' इतिवत्‌ दृश्यते | तस्मात्‌ उपधायां थकारः प्रतीयते न तु ह्रस्व-अकारः | अस्यां दशायां किमपि कार्यं न सम्भवति | यथा—

कथ + णिच्‌ → '''अतो लोपः''' → कथ्‌‍ + णिच्‌ → '''अत उपधायाः''' इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म → '''अचः परस्मिन्‌ पूर्वविधौ''' → कथ्‌ धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → '''अत उपधायाः''' इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति |

चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र—
Line 69 ⟶ 80:

गृह्‌ + णिच्‌ → गृहि + शप्‌ → गृहयति/ते

प्रश्नः उदेति यदि कथ इति धातोः उपदेशावस्थायां धात्वन्ते स्थितः अत्‌ अनुनासिको न, तर्हि किमर्थं '''अतो लोपः''' (६.४.४८) इत्यस्य स्थाने '''अचो ञ्णिति''' (७.२.११५) इत्यनेन अतः वृद्धिः न स्यात्‌ ? द्वयोः सूत्रयोः अन्यत्रलब्धावकाशः अस्ति, अपि च '''अचो ञ्णिति''' (७.२.११५) इति परसूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्य निमित्तम्‌ 'आर्धधातुके परे', अतः यावन्तः आर्धधातुकप्रत्ययाः सन्ति ते च पराः चेत्‌, '''अतो लोपः''' (६.४.४८) इत्यस्य अवकाशः | अतः '''अचो ञ्णिति''' (७.२.११५) इत्यस्य परत्वात्‌ वृद्धिः भवेत्‌ |

प्रत्युत्तरम्‌ एवं यत्‌ '<nowiki/>'''आर्धधातुके'''<nowiki/>' इत्यनेन विषयसप्तमी मन्यते चेत्‌, '''अतो लोपः''' (६.४.४८) इत्यस्य कार्यं भविष्यति; '<nowiki/>'''आर्धधातुके'''<nowiki/>' इत्यनेन परसप्तमी मन्यते चेत्‌, परत्वात्‌ '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः | विषयसप्तमी नाम यदा हि विचारः आयाति यत्‌ आर्धधातुकप्रत्ययः आगमिष्यति, तदा हि तेन निर्दिष्टं कार्यं सिध्यति— आर्धधातुकप्रत्ययस्य आगमनात्‌ प्रागेव | '<nowiki/>'''आर्धधातुके'''<nowiki/>' इति यदा विषयः उदेति यत्‌ आर्धधातुकप्रत्ययः आगम्यमानः— तावता प्रत्ययः शारीरिकरूपेण पुरतः नास्ति, केवलम्‌ आगम्यमानः— तदानीम्‌ '''अतो लोपः''' (६.४.४८) इत्यनेन अतः लोपो भवति | '''अचो ञ्णिति''' (७.२.११५) इत्यस्मिन्‌ परसप्तमी अतः ञित्‌ णित्‌ प्रत्ययः शारीरिकरूपेण पुरतः स्थितः चेदेव कार्यं सेत्स्यति | अत्र बहुसंख्यता विषयसप्तमीं मन्यते; अस्मिन्‌ पक्षे कथयति इति रूपम्‌ | परन्तु केचन परिगणिताः वदन्ति यत्‌ अत्र परसप्तमी स्यात्‌; तेषां मतेन कथायति इति रूपम्‌ |

<nowiki>*</nowiki>'''अतो लोपः''' (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम्‌ '''उपदेशे''' इत्युक्तम्‌ | उत्तरम्‌ एवं यत्‌ अनुवृत्तौ '''उपदेशे''' इति यदि नाभविष्यत्‌, तर्हि कासुचित्‌ स्थितिषु (अनुपदेशावस्थायाम्‌) इष्टं रूपं न प्राप्स्यत्‌ | यथा— भ्वादिगणे अय्‌ गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप्‌ |

अय्‌ + क्विप्‌ → अनुबन्धलोपे → अय्‌ + व्‌ → '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः → अ + व्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अ-लोपः, '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्‌-लोपः → शून्यम्‌ अवशिष्यते |

अतः '''उपदेशे''' नास्ति चेत्‌ इष्टं रूपं न प्राप्यते | '''उपदेशे''' अस्ति चेत्‌ अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |

अ + व्‌ → '''ह्रस्वस्य''' '''पिति कृति तुक्‌''' (६.१.७०) इत्यनेन तुक्‌-आगमः → अत्‌ + व्‌ → '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्‌-लोपः → अत्‌ इति इष्टं रूपं प्राप्तम्‌ |

२. कृप्‌-धातोः विधिः

कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |

'''कृपो रो लः''' (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे '''कृपो''' → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— '''कृपः उः कृपः रः लः''' |

यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलम्‌; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ |

लटि कल्पयति/ते | कृप्‌ + णिच्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प्‌ + इ → '''कृपो रो लः''' (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प्‌ + इ → कल्पि इति धातुः → कल्पि + शप्‌ → कल्पय इति अङ्गम्‌ → कल्पय + ति → कल्पयति/ते

लिट्‌-लकारे गुणनिषेधत्वात्‌ ऋकारस्य उदाहरणम्‌—

लिटि चकॢपे | कृप्‌ + ए → द्वित्वम्‌ अभ्यासकार्यम्‌ च → चकृप्‌ + ए → '''कृपो रो लः''' (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप्‌ + ए → चकॢपे

प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप्‌ न स्यात्‌ ? उतरम्‌ अस्ति यत्‌ वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम्‌ इङ्गितम्‌ | अतः वेदे अयं धातुः ऋदुपदधातुः भवेत्‌ |

३. कॄत्‌-धातोः विधिः

कॄत संशब्दने = प्रसिद्धं करोति, उद्घोषणं करोति, गुणं प्रसारयति |

'''उपधायाश्च''' (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात्‌ | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य स्थाने ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' '''उपधायाश्च''' |

अनेन कॄत्‌ धातोः ॠकारस्य ह्रस्व-इकारादेशः भवति |

स्मारणार्थं यत्र धातुः ऋकारान्तः, तत्र '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यनेन ऋकारस्य स्थाने इकारादेश | यथा तुदादिगणे अस्माभिः दृष्टम्— कॄ-धातोः ॠकारः → इ आदेशः, कॄ → कि → '''उरण्‌ रपरः''' इत्यनेन रपरः → किर् → किर्‍किर् + अ + ति → किरति |

'''ॠत इद्‌ धातोः''' (७.१.१००) = ऋदन्तस्यॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्‌-ङित्‌ भिन्नप्रत्ययः परे चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | ऋतःॠतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ऋतःॠतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' |

Line 138 ⟶ 171:

कीर्तय + ति/ते → कीर्तयति/कीर्तयते

'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उः स्थाने अण्‌ रपरः''' |

[सत्वं, नत्वं, नुमागमः] उपधादीर्घः |

'''उपधायां च''' (८.२.७८) = येषां धातूनाम्‌धातूनां उपधायांयौ उपधाभूतौ रेफवकारौ हल्परौ, ताभ्यां प्राक्‌ वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम्‌सूत्रार्थे उपधायां'उपधा'-शब्दः रेफःर्वोः वाइत्यस्य वकारःविशेषणं; वार्वोः अस्तितु चेत्‌,षष्ठीद्विवचने तयोःअतः वर्णयोः'उपधायां' पूर्वम्‌अपि इकःतथा दीर्घःषष्ठीद्विवचने भवतियद्यपि सूत्रे सप्तम्येकवचनं दत्तमस्ति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''र्वोरुपधाया दीर्घःदीर्घ इकः''' (८.२.७६) इत्यस्मात्‌इत्यस्य पूर्णतया अनुवृत्तिः; मूलसूत्रे '<nowiki/>'''र्वोः''',<nowiki/>' षष्ठ्यन्तं 'धातोः' इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वन्ते इत्यर्थः; अत्र 'इकः<nowiki/>''', र्वोः'''दीर्घः<nowiki/>' इत्यनेन सम्बन्धषष्ठी 'इकः' एषाम्‌इत्यनेन अनुवृत्तिःसह | '''हलि च''' (८.२.७७) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः; |विभक्तिपरिणामेन अनुवृत्ति-सहितसूत्रम्‌—षष्ठ्यन्तं '<nowiki/>''धातोः हलि र्वोः'हलः'' '<nowiki/>' 'धातोः'उपधायां इत्यस्य विशेषणं, उपधायाम्‌तदन्तविधिश्च | अनुवृत्ति-सहितसूत्रम्‌— '''हलः धातोः उपधयोः र्वोः उपधायाः इकः''' '''दीर्घः''' |

कुर्द भ्वादौ = क्रीडति, नृत्यति
Line 157 ⟶ 194:

तथैव खुर्द → खूर्द्‌, गुर्द‌ → गूर्द्‌ |

४. ज्ञपादयः मितः

सामान्यतया '''अत उपधायाः''' (७.२.११६) इति सूत्रेण उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) अस्ति चेत्‌, तस्य वृद्धिः भवति— अकारस्य स्थाने आकारः— ञिति णिति प्रत्यये परे | परन्तु एकः अन्तर्गणः वर्तते यस्य नाम अस्ति 'मित्‌' | चुरादिगणे षट्‌ मित्‌-धातवः सन्ति | तेषाम्‌ उपधायाम्‌ '''अत उपधायाः''' इति सूत्रेण अतः‌ (ह्रस्व-अकारस्य) वृद्धिः तु भवति, परन्तु पुनः '''मितां ह्रस्वः''' इति सूत्रेण उपधायां स्थितः आकारः ह्रस्वः भवति |

'''मितां ह्रस्वः''' (६.४.९२)= मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात्‌ '''णौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मितां अङ्गानाम्‌ उपधायाः ह्रस्वः णौ''' |

'''अत उपधायाः''' (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः; '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात्‌ '''ञ्णिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |

ज्ञप्‌ + णिच्‌ → ज्ञप्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः णिति प्रत्यये परे→ ज्ञापि → '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन उपधायाः स्वरः ह्रस्वः णिचि → ज्ञपि इति धातुः → ज्ञपि + शप्‌ → ज्ञपय इति अङ्गम्‌ → ज्ञपय + ति → ज्ञपयति/ते

षट्‌ धातवः— ज्ञप, यम, चह, रह, बल, चिञ्‌

Line 199 ⟶ 245:

५. पदव्यवस्था

सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति '''णिचश्च''' (१.३.७४), '''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८) इति सूत्रद्वयेन | परन्तु चुरादौ अपवादभूत-अन्तर्गणद्वयं वर्तते, यत्र धातवः आत्मनेपदिनः सन्ति |

आकुस्मादात्मनेपदिनः (आकुस्मीयाः) = 39 नित्य-आत्मनेपदिनः धातवः

एषु प्रायः न कोऽपि धातुः प्रसिद्धः लोके |
Line 218 ⟶ 268:

कुस्म्‌ → कुस्मयते (अयोग्यरूपेण, कुत्सितरूपेण हसति)

आगर्वादात्मनेपदिनः = 10 अदन्तवर्गीयाःअदन्ताः आवर्गीयाः नित्य-आत्मनेपदिनः धातवः

इमे धातवः अदन्ताः, नाम तस्मिन्‌ समूहे सन्ति यस्मिन्‌ धातोः अन्ते अननुनासिकः अत्‌, '''अतो लोपः''' (६.४.४८) इत्यनेन अतः लोपः, '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति परिभाषया पूर्वविधिः न भवति, यस्मात्‌ '''अत उपधायाः''' (७.२.११६), '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनयोः अवकाशो न भवति |

Line 244 ⟶ 297:

गर्व माने → गर्व्‌ → गर्वयते

द्वयोः गणयोः अपि धातवः नित्य-आत्मनेपदिनः | भेदः अयं यत्‌ आकुस्मादात्मनेपदिधातुषु यत्र यत्र उपधायां लघु इक्‌ वा लघु अकारः (अत्‌) अस्ति, तत्र तत्र यथासामान्यं गुणः वृद्धिः वा भवति एव | किन्तु आगर्वादात्मनेपदिनः यतः अदन्तधातवः, अतः तत्र उपधायां लघु इक्‌ वा लघु अकारः (अत्‌) अस्ति चेदपि '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन गुणः वृद्धिः च न भवतः |

ये धातवः आकुस्मादात्मनेपदिनः अपि आगर्वादात्मनेपदिनः अपि न सन्ति, ते सर्वे '''णिचश्च''' इति सूत्रेण उभयपदिनः एव, यथा चोरयति / चोरयते इत्यादीनि रूपाणि |

Line 273 ⟶ 329:

युज्‌ + शप्‌ → योज → योजति

Line 278 ⟶ 335:

'''कर्तरि शप्‌''' (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः शप्‌ प्रत्ययः''' '''परश्च कर्तरि सार्वधातुके''' |

इमे वैकल्पिकाः णिजन्तधातवः पञ्चसु विभागेषु विभक्ताः सन्ति—आकुस्मीयाः; आस्वदीयाः; आधृषीयाः युजादयः च; णिजन्ताश्चुरादयः; इदितः उदितः च | एते अन्तर्गणाः सन्ति; एकैकस्य लक्षणं भिन्नम्‌ | यथा आस्वदीय-अन्तर्गणे यत्र धातुः सकर्मकः, तत्र णिच्‌ भवति; यत्र धातुः अकर्मकः, तत्र णिच्‌ न भवति | चुरादिगणे धातुः उदित्‌ चेत्‌, इत्‌-संज्ञक-उकारस्य अन्यत्‌ फलं नास्ति चेत्‌, णिच्‌-वैकल्पिकम्‌ इति सूचयति | एषु पञ्चसु सर्वत्र णिजभावे धातुः परस्मैपदी एव भवति |

आकुस्मीयाः धातवः (आकुस्मादात्मनेपदिनः) द्विविधाः— केचन नित्यणिजन्ताः, अन्ये 'वा णिजन्ताः' अपि | ये 'वा णिजन्ताः' सन्ति, ते णिच्‌-अभावे '''शेषात्‌ कर्तरि परस्मैपदम्'''‌ इत्यनेन परस्मैपदिनः एव |

Line 293 ⟶ 354:

चत्वारः धातुगणाः सन्ति यत्र अङ्गम्‌ अदन्तं भवति; ते भ्वादिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः च | एषां गणानां कृते अधुना सार्वधातुकलकाराणां पाठः परिसमाप्तः | आहत्य एषु चतुर्षु गणेषु १७०४ धातवः सन्ति | धातुः सामान्यो वा विशेषो वा, एषां सर्वेषां धातूनां कृते लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ च तिङन्तरूपाणि अस्माभिः ज्ञातानि | पाणिनीयधातुपाठे आहत्य १९४३ धातवः सन्ति | अतः एतावता १९४३ इत्येषु १७०४ इत्येषां सार्वधातुकलकार-रूपाणि अस्माभिः अवलोकितानि | किञ्चित्‌ पुनस्स्मरणं क्रियते चेत्‌, ज्ञास्यते यत्‌ बहु किमपि व्यावहारिकं ज्ञानं सम्पादितम्‌ | अवशिष्टाः केवलं २३९ धातवः सन्ति येषाम्‌ अङ्गम्‌ अदन्तं नास्ति; सम्प्रति तेषां सार्वधातुकलकार-रूपाणि परिशीलयिष्यामः |
Line 302 ⟶ 364:

[https://static.miraheze.org/samskritavyakaranamwiki/0/01/११_%E0%A5%A7%E0%A5%A7_-_चुरादिगणे_विशेषधातवः_%E0%A4%9A%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%87%E0%A4%B7%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83.pdf ११ - चुरादिगणे विशेषधातवः.pdf]] (67k) Swarup Bhai, Mar 31, 2019, 9:00 AM
page_and_link_managers, Administrators
5,094

edits