05---sArvadhAtukaprakaraNam-adantam-aGgam/11---curAdigaNe-visheShadhAtavaH: Difference between revisions

Added spacing between sections same as orginal page
(Added section 6 and footnote. Removed extra character copy paste brought over for new line. Underlined the six headings. Added new lines above and below headings.)
(Added spacing between sections same as orginal page)
Line 22:
 
१. <u>अदन्तधातवः</u> (93 धातवः)
 
 
चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति | यथा कथ, गृह, गण, क्षिप— एषाम्‌ अन्ते ह्रस्व-अकारः वर्तते | तस्य अकारस्य लोपः तु भवति, परन्तु '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण इति न | यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः (अँ) नास्त्येव; अतः इमे अकाराः इत्‌-संज्ञकवर्णाः न सन्ति | तर्हि एषां धातूनाम् अन्त्यः अकारः कथं लुप्यते ? चुरादिगणे धातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः एकं सूत्रम्‌ अस्ति '''अतो लोपः''', यस्य द्वारा अकार-लोपः सिध्यति—
Line 28 ⟶ 29:
 
णिच्‌-प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत्‌, '''अतो लोपः''' (६.४.४८) इत्यस्य प्रसक्तिः भवति |
 
 
यथा—
Line 36 ⟶ 38:
 
इदानीं कथ्‌ इति धातुः अस्ति, गृह्‌ इति धातुः अस्ति | अस्यां दशायां कथ्‌-धातोः उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्‌-धातोः उपधायां लघु-इकः गुणः |
 
 
'''अत उपधायाः''' (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |
 
'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |
 
 
 
अनयोः सूत्रयोः प्रसक्तिः स्यात्‌ | परन्तु अनेन परिभाषा-सूत्रेण लोपः लुप्त-अकारः इव भवति—
 
 
'''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्‌' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच्‌ इव— 'स्थानिवत्‌' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन्‌ इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन्‌ पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन्‌ सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात्‌ '''स्थानिवत्‌''', '''आदेशः''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्‌— '''अचः आदेशः स्थानिवत्‌ परस्मिन्‌ पूर्वविधौ''' |
 
इत्थं च चुरादिगणे अदन्तधातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः लोपः स्थानिवत्‌ नाम ह्रस्व-अकारः इव | अनेन कारणेन '''अत उपधायाः''' इति सूत्रस्य दृष्ट्या कथ्‌-धातुः 'कथ' इतिवत्‌ दृश्यते | तस्मात्‌ उपधायां थकारः प्रतीयते न तु ह्रस्व-अकारः | अस्यां दशायां किमपि कार्यं न सम्भवति | यथा—
 
 
कथ + णिच्‌ → '''अतो लोपः''' → कथ्‌‍ + णिच्‌ → '''अत उपधायाः''' इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म → '''अचः परस्मिन्‌ पूर्वविधौ''' → कथ्‌ धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → '''अत उपधायाः''' इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति |
Line 64 ⟶ 67:
 
प्रश्नः उदेति यदि कथ इति धातोः उपदेशावस्थायां धात्वन्ते स्थितः अत्‌ अनुनासिको न, तर्हि किमर्थं '''अतो लोपः''' (६.४.४८) इत्यस्य स्थाने '''अचो ञ्णिति''' (७.२.११५) इत्यनेन अतः वृद्धिः न स्यात्‌ ? द्वयोः सूत्रयोः अन्यत्रलब्धावकाशः अस्ति, अपि च '''अचो ञ्णिति''' (७.२.११५) इति परसूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्य निमित्तम्‌ 'आर्धधातुके परे', अतः यावन्तः आर्धधातुकप्रत्ययाः सन्ति ते च पराः चेत्‌, '''अतो लोपः''' (६.४.४८) इत्यस्य अवकाशः | अतः '''अचो ञ्णिति''' (७.२.११५) इत्यस्य परत्वात्‌ वृद्धिः भवेत्‌ |
 
 
प्रत्युत्तरम्‌ एवं यत्‌ '<nowiki/>'''आर्धधातुके'''<nowiki/>' इत्यनेन विषयसप्तमी मन्यते चेत्‌, '''अतो लोपः''' (६.४.४८) इत्यस्य कार्यं भविष्यति; '<nowiki/>'''आर्धधातुके'''<nowiki/>' इत्यनेन परसप्तमी मन्यते चेत्‌, परत्वात्‌ '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः | विषयसप्तमी नाम यदा हि विचारः आयाति यत्‌ आर्धधातुकप्रत्ययः आगमिष्यति, तदा हि तेन निर्दिष्टं कार्यं सिध्यति— आर्धधातुकप्रत्ययस्य आगमनात्‌ प्रागेव | ''''आर्धधातुके'''<nowiki/>' इति यदा विषयः उदेति यत्‌ आर्धधातुकप्रत्ययः आगम्यमानः— तावता प्रत्ययः शारीरिकरूपेण पुरतः नास्ति, केवलम्‌ आगम्यमानः— तदानीम्‌ '''अतो लोपः''' (६.४.४८) इत्यनेन अतः लोपो भवति | '''अचो ञ्णिति''' (७.२.११५) इत्यस्मिन्‌ परसप्तमी अतः ञित्‌ णित्‌ प्रत्ययः शारीरिकरूपेण पुरतः स्थितः चेदेव कार्यं सेत्स्यति | अत्र बहुसंख्यता विषयसप्तमीं मन्यते; अस्मिन्‌ पक्षे कथयति इति रूपम्‌ | परन्तु केचन परिगणिताः वदन्ति यत्‌ अत्र परसप्तमी स्यात्‌; तेषां मतेन कथायति इति रूपम्‌ |
 
<nowiki>*</nowiki>'''अतो लोपः''' (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम्‌ '''उपदेशे''' इत्युक्तम्‌ | उत्तरम्‌ एवं यत्‌ अनुवृत्तौ '''उपदेशे''' इति यदि नाभविष्यत्‌, तर्हि कासुचित्‌ स्थितिषु (अनुपदेशावस्थायाम्‌) इष्टं रूपं न प्राप्स्यत्‌ | यथा— भ्वादिगणे अय्‌ गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप्‌ |
 
 
अय्‌ + क्विप्‌ → अनुबन्धलोपे → अय्‌ + व्‌ → '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः → अ + व्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अ-लोपः, '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्‌-लोपः → शून्यम्‌ अवशिष्यते |
 
अतः '''उपदेशे''' नास्ति चेत्‌ इष्टं रूपं न प्राप्यते | '''उपदेशे''' अस्ति चेत्‌ अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |
 
 
अ + व्‌ → '''ह्रस्वस्य''' '''पिति कृति तुक्‌''' (६.१.७०) इत्यनेन तुक्‌-आगमः → अत्‌ + व्‌ → '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्‌-लोपः → अत्‌ इति इष्टं रूपं प्राप्तम्‌ |
Line 79 ⟶ 85:
 
कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |
 
 
'''कृपो रो लः''' (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे '''कृपो''' → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— '''कृपः उः कृपः रः लः''' |
 
यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलम्‌; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ |
 
 
लटि कल्पयति/ते | कृप्‌ + णिच्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प्‌ + इ → '''कृपो रो लः''' (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प्‌ + इ → कल्पि इति धातुः → कल्पि + शप्‌ → कल्पय इति अङ्गम्‌ → कल्पय + ति → कल्पयति/ते
 
लिट्‌-लकारे गुणनिषेधत्वात्‌ ऋकारस्य उदाहरणम्‌—
 
 
लिटि चकॢपे | कृप्‌ + ए → द्वित्वम्‌ अभ्यासकार्यम्‌ च → चकृप्‌ + ए → '''कृपो रो लः''' (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप्‌ + ए → चकॢपे
 
प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप्‌ न स्यात्‌ ? उतरम्‌ अस्ति यत्‌ वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम्‌ इङ्गितम्‌ | अतः वेदे अयं धातुः ऋदुपदधातुः भवेत्‌ |
 
 
 
३. <u>कॄत्‌-धातोः विधिः</u>
 
 
कॄत संशब्दने = प्रसिद्धं करोति, उद्घोषणं करोति, गुणं प्रसारयति |
 
'''उपधायाश्च''' (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात्‌ | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य स्थाने ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' '''उपधायाश्च''' |
 
 
अनेन कॄत्‌ धातोः ॠकारस्य ह्रस्व-इकारादेशः भवति |
 
स्मारणार्थं यत्र धातुः ऋकारान्तः, तत्र '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यनेन ऋकारस्य स्थाने इकारादेश | यथा तुदादिगणे अस्माभिः दृष्टम्— कॄ-धातोः ॠकारः → इ आदेशः, कॄ → कि → '''उरण्‌ रपरः''' इत्यनेन रपरः → किर् → किर्‍ + अ + ति → किरति |
 
 
'''ॠत इद्‌ धातोः''' (७.१.१००) = ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्‌-ङित्‌ भिन्नप्रत्ययः परे चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | ऋतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ऋतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' |
 
 
 
Line 120 ⟶ 134:
 
कीर्तय + ति/ते → कीर्तयति/कीर्तयते
 
 
'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उः स्थाने अण्‌ रपरः''' |
 
[सत्वं, नत्वं, नुमागमः] उपधादीर्घः |
 
 
'''उपधायां च''' (८.२.७८) = येषां धातूनाम्‌ उपधायां रेफवकारौ हल्परौ, ताभ्यां प्राक्‌ वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम्‌ उपधायां रेफः वा वकारः वा अस्ति चेत्‌, तयोः वर्णयोः पूर्वम्‌ इकः दीर्घः भवति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्मात्‌ '''र्वोः''', '''इकः''', '''दीर्घः''' एषाम्‌ अनुवृत्तिः | '''हलि च''' (८.२.७७) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः हलि र्वोः''' '''उपधायां च, उपधायाम्‌ इकः''' '''दीर्घः''' |
Line 134 ⟶ 150:
 
कूर्द्‌ + शप्‌ + ते → कूर्दते
 
तथैव खुर्द → खूर्द्‌, गुर्द‌ → गूर्द्‌ |
 
 
तथैव खुर्द → खूर्द्‌, गुर्द‌ → गूर्द्‌ |
 
४. <u>ज्ञपादयः मितः</u>
 
सामान्यतया '''अत उपधायाः''' (७.२.११६) इति सूत्रेण उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) अस्ति चेत्‌, तस्य वृद्धिः भवति— अकारस्य स्थाने आकारः— ञिति णिति प्रत्यये परे | परन्तु एकः अन्तर्गणः वर्तते यस्य नाम अस्ति 'मित्‌' | चुरादिगणे षट्‌ मित्‌-धातवः सन्ति | तेषाम्‌ उपधायाम्‌ '''अत उपधायाः''' इति सूत्रेण अतः‌ (ह्रस्व-अकारस्य) वृद्धिः तु भवति, परन्तु पुनः '''मितां ह्रस्वः''' इति सूत्रेण उपधायां स्थितः आकारः ह्रस्वः भवति |
 
 
'''मितां ह्रस्वः''' (६.४.९२)= मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात्‌ '''णौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मितां अङ्गानाम्‌ उपधायाः ह्रस्वः णौ''' |
 
'''अत उपधायाः''' (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः; '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात्‌ '''ञ्णिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |
 
 
ज्ञप्‌ + णिच्‌ → ज्ञप्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः णिति प्रत्यये परे→ ज्ञापि → '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन उपधायाः स्वरः ह्रस्वः णिचि → ज्ञपि इति धातुः → ज्ञपि + शप्‌ → ज्ञपय इति अङ्गम्‌ → ज्ञपय + ति → ज्ञपयति/ते
 
षट्‌ धातवः— ज्ञप, यम, चह, रह, बल, चिञ्‌
 
 
ज्ञप ज्ञानज्ञापन-मारणतोषणे = सूचयति, जयति, मारयति, प्रसन्नः भवति
Line 162 ⟶ 180:
 
चिञ्‌ चयने = सङ्ग्रहणं करोति
 
 
ज्ञप → ज्ञप्‌ + इ → ज्ञापि → ज्ञपि → ज्ञपय → ज्ञपयति/ते
Line 178 ⟶ 197:
 
५. <u>पदव्यवस्था</u>
 
 
सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति '''णिचश्च''' (१.३.७४), '''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८) इति सूत्रद्वयेन | परन्तु चुरादौ अपवादभूत-अन्तर्गणद्वयं वर्तते, यत्र धातवः आत्मनेपदिनः सन्ति |
 
 
आकुस्मादात्मनेपदिनः (आकुस्मीयाः) = 39 नित्य-आत्मनेपदिनः धातवः
 
एषु प्रायः न कोऽपि धातुः प्रसिद्धः लोके |
 
 
यु → यावयते (निन्दां करोति)
Line 192 ⟶ 214:
 
कुस्म्‌ → कुस्मयते (अयोग्यरूपेण, कुत्सितरूपेण हसति)
 
 
आगर्वादात्मनेपदिनः = 10 अदन्तवर्गीयाः नित्य-आत्मनेपदिनः धातवः
 
इमे धातवः अदन्ताः, नाम तस्मिन्‌ समूहे सन्ति यस्मिन्‌ धातोः अन्ते अननुनासिकः अत्‌, '''अतो लोपः''' (६.४.४८) इत्यनेन अतः लोपः, '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति परिभाषया पूर्वविधिः न भवति, यस्मात्‌ '''अत उपधायाः''' (७.२.११६), '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनयोः अवकाशो न भवति |
 
 
पद गतौ → पद्‌ → पदयते
Line 216 ⟶ 240:
 
गर्व माने → गर्व्‌ → गर्वयते
 
 
द्वयोः गणयोः अपि धातवः नित्य-आत्मनेपदिनः | भेदः अयं यत्‌ आकुस्मादात्मनेपदिधातुषु यत्र यत्र उपधायां लघु इक्‌ वा लघु अकारः (अत्‌) अस्ति, तत्र तत्र यथासामान्यं गुणः वृद्धिः वा भवति एव | किन्तु आगर्वादात्मनेपदिनः यतः अदन्तधातवः, अतः तत्र उपधायां लघु इक्‌ वा लघु अकारः (अत्‌) अस्ति चेदपि '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन गुणः वृद्धिः च न भवतः |
 
ये धातवः आकुस्मादात्मनेपदिनः अपि आगर्वादात्मनेपदिनः अपि न सन्ति, ते सर्वे '''णिचश्च''' इति सूत्रेण उभयपदिनः एव, यथा चोरयति / चोरयते इत्यादीनि रूपाणि |
 
 
६. <u>वैकल्पिकाः णिजन्तधातवः</u> (149 धातवः)
 
इमे धातवः वैकल्पिकाः णिजन्तधातवः |
 
 
अतः
 
- धातुः + णिच्‌ + शप्‌ (चुरादिगणे)
 
 
वा
 
- धातुः + केवलं शप्‌ (भ्वादिगणे इव)
 
 
यथा—
Line 240 ⟶ 269:
 
युज्‌ + शप्‌ → योज → योजति
 
 
यदा कदापि कर्तरि सार्वधातुके परे विशिष्ट-विकरणप्रत्ययः नोक्तः, तदा शप्‌ इति विकरणप्रत्ययः भवति एव | शप्‌ तु सामान्यम्‌ | एते वैकल्पिकाः णिजन्तधातवः पाणिनिना भ्वादिगणस्य धातुपाठे नोक्ताः, किञ्च मातृभिः उच्यते यत्‌ भ्वादिगणे भवन्तु यतोहि एषां कृते किमपि विशिष्टविधायकसूत्रं नापेक्षितम्‌ | यथा भ्वादिगणे '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌ विहितः, तथैव अत्रापि— न कोऽपि भेदः | अपरेषु स्थलेषु अस्माभिः दृष्टं यत्‌ कश्चन धातुः कस्मिंश्चित्‌ धातुगणे नास्ति चेदपि, तस्य गणस्य विकरणप्रत्ययः विधीयते विशिष्टसूत्रेण | अत्र तथा किमपि नास्ति; भ्वादिवत्‌ '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कार्यं सिध्यति— अतः इमे भ्वादिगणीयाः भवन्तु इति मातॄणां मतम्‌ |
Line 255 ⟶ 285:
आकुस्मीयाः धातवः (आकुस्मादात्मनेपदिनः) द्विविधाः— केचन नित्यणिजन्ताः, अन्ये 'वा णिजन्ताः' अपि | ये 'वा णिजन्ताः' सन्ति, ते णिच्‌-अभावे '''शेषात्‌ कर्तरि परस्मैपदम्'''‌ इत्यनेन परस्मैपदिनः एव |
 
 
<u>परिसमाप्तिः</u>
 
<font size="4"></font><font size="4"></font>
23

edits