06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam: Difference between revisions
06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam (view source)
Revision as of 10:54, 21 May 2021
, 2 years agono edit summary
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 96:
|
|}
<big>'''अतो गुणे''' (६.१.९७) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८), '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनयोः अपवादः | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''उस्यपदान्तात्''' (६.१.९६) इत्यस्मात् '''अपदान्तात्''' अपि च '''एङि पररूपम्''' (६.१.९४) इत्यस्मात् '''पररूपम्''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रम्— '''अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्''' |</big>
<big>धेयं यत् शतृ-प्रत्यये शकार-ऋकारयोः इत्-सज्ञा लोपश्च | शकारः इत् इत्यनेन शित्, अतः '''तिङ्-शित्सार्वधातुकम्''' (३.४.११३) इत्यनेन अयं प्रत्ययः सार्वधातुकः | ऋकारः इत् इत्यनेन उगित् (उक्-प्रत्याहारे इत्-सज्ञा यस्य सः); अस्मात् '''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इत्यनेन नुम्-आगमः विहितः | अस्माच्च स्त्री-विवक्षायाम् '''उगितश्च''' (४.१.६) इत्यनेन स्त्री-प्रत्ययः ङीप् विहितः भवति |</big>
<big>अत्र प्रश्नः उदेति किमर्थं लघुमार्गः सर्वत्र कार्यं करोति; उत्तरं वर्तते यत् तस्य पृष्ठतः शास्त्रीयविधिरस्ति एव |</big>
<big>सार्वधातुकप्रत्ययाः केवलं चतुर्विधाः— अजाद्यपित्, हलाद्यपित्, अजादि पित्, हलादि पित् | तदनुगुणं सार्वधातुकप्रत्ययेषु कार्यं चतुर्विधम् एव भवति | इदं तथ्यं मनसि निधाय यः पाणिनीयव्याकरणक्षेत्रे अग्रे सरति, तस्य कृते मार्गः सरल एव |</big>
<big>तिङन्तप्रसङ्गे एतत् सर्वम् अस्माभिः अवलोकितं प्रागेव | दृष्टान्तरीत्या पुनः स्मार्यते येन सर्वेभ्यः अतिस्पष्टं स्यात्—</big>
|