06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 171:
<big><br />
दशसु गणेषु तथा— गच्छत्‌, सत्‌, ददत्‌, दीव्यत्‌, चिन्वत्‌, तुदत्‌, रुन्धत्‌, कुर्वत्‌, क्रीणत्‌, चोरयत्‌ | प्रातिपदिकस्य निर्माणे धातुगणम्‌ अनुसृत्य कार्यं भिद्यते विकरणप्रत्ययभेदात्‌ परन्तु अस्माकं लघुमार्गः समानः सर्वत्र, उपरि दृष्टं शास्त्रीयचिन्तनञ्च समानम्‌ | अग्रिमे पाठे गणम्‌ अनुसृत्य कार्यम्‌ अवलोकयिष्यते |</big>
 
 
 
<big>पूर्वमेव अस्माभिः ज्ञातं यत्‌ सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—</big>
Line 179 ⟶ 181:
 
<big>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</big>
 
 
 
<big>प्रथमसोपाने अङ्गं निष्पन्नम | द्वितीये सोपाने तिङ्‌प्रत्यय-सिद्धिः | तृतीये सोपाने अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌ | शत्रन्तप्रसङ्गे अपि अयमेव क्रमः | परन्तु द्वितीयसोपानम्‌ अत्यन्तं लघु, सर्वत्र समानञ्च | शतृ → अनुबन्धलोपः → अत्‌ |</big>
 
 
 
<big>पुंसि नपुंसके च सुबन्तपदानां कुत्रचित्‌ नकारः (नुमागमः) दृश्यते | गच्छन्‌, गच्छन्तम्‌ इत्यादीनि रूपाणि; पुनः अन्यत्र नुमागमः नैव दृश्यते गच्छद्भ्याम्‌, गच्छत्सु इत्यादीनि रूपाणि | तत्‌ चिन्तनम्‌ इतः अग्रे द्वितीये पाठे भविष्यति यदा शत्रन्तानां सुबन्तप्रकरणं परिशील्यते |</big>
 
 
 
<u><big>स्त्रीलिङ्गे</big></u>
 
 
 
<big>स्त्रियां शत्रन्तप्रातिपदिकं नदी शब्दवत्‌ सर्वत्र; नाम ईकारान्तशब्दः | तत्र प्रमुखप्रश्नः भवति नकारः (नुमागमः) कुत्र कुत्र आयाति, अपि च कुत्र न | यथा "बालिका वदन्ती चलति" इत्यस्मिन्‌ वद्‌-धातोः स्त्रियां नुमागमः भवति | परन्तु "बालिका कार्यं कुर्वती चलति" इत्यस्मिन्‌ कृ-धातोः स्त्रियां नुमागमः न भवति | स्त्रियाम्‌ अयं नुमागमः प्रातिपदिके आयाति |</big>
 
 
 
<big>स्त्रियां नुमागमः भवति प्रातिपदिके एव | अतः प्रातिपदिकनिर्माण-समये नुम्‌-आगमविचारः करणीयः |</big>
 
 
 
<big>a) <u>स्त्री-प्रातिपदिकं भ्वादिगणे, दिवादिगणे, चुरादिगणे</u></big>
 
 
 
<big>एषु त्रिषु गणेषु शत्रन्तप्रातिपदिके नुमागमः नित्यः |</big>
 
<big>वद्‌ + अ + अत्‌ → वदत्‌ इति पुंसि नपुंसके च शत्रन्तं प्रादिपदिकम्‌ | प्रक्रिया यथा पूर्वोक्तम्‌ |</big>
 
 
<big>वदत्‌ → '''उगितश्च''' इत्यनेन उगित्‌-प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङीप्‌-प्रत्ययः भवति → वदती → '''शप्‌श्यनोर्नित्यम्‌''' इत्यनेन भ्वादिगणे, दिवादिगणे, चुरादिगणे च नित्यं नुमागमः → वदन्ती इति स्त्रियां शत्रन्तं प्रातिपदिकम्‌ |</big>
Line 203 ⟶ 220:
 
<big>चुरादिगणे चोरि-धातुः— चोरयन्ती, चोरयन्त्यौ, चोरयन्त्यः</big>
 
 
 
<big>'''उगितश्च''' (४.१.६) = उगित्‌-प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङीप्‌-प्रत्ययः भवति | उक्‌ प्रत्याहारे उ, ऋ, लृ एते वर्णाः अन्तर्भूताः | उक्‌ इत्‌ यस्य (प्रातिपदिकस्य) तद्‌ उगित्‌, तस्मात्‌ उगितः | उगितः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ऋन्नेभ्यो ङीप्‌''' (४.१.५) इत्यस्मात्‌ '''ङीप्‌''' इत्यस्य अनुवृत्तिः | '''स्त्रियाम्‌''' (४.१.३),'''ङ्याप्प्रातिपदिकात्''' (४.१.१) इत्यस्मात्‌ '''प्रातिपदिकात्‌''', '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''स्त्रियाम्‌, उगितः प्रातिपदिकात्‌ च ङीप्‌ प्रत्ययः परः''' |</big>
 
 
 
<big>'''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) = शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌-आगमो भवति शी-प्रत्यये च नदी-प्रत्यये परे | नदी एका संज्ञा अस्ति; ङीप्‌, ङीष्‌, ङीन्‌ इत्येषां स्त्री-प्रत्ययानां नदी-संज्ञा भवति | शप्‌ च श्यन्‌ च तयोरितरेतरद्वन्द्वः शप्श्यनौ, तयोः शप्शनोः | शप्श्यनोः षष्ठ्यन्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्‌ | '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इत्यस्मात्‌ '''आत्‌''', '''शीनद्योः''', '''नुम्‌''', अपि च '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात्‌ '''शतुः''' इत्येषाम्‌ अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''शप्श्यनोः आत्‌ अङ्गात्‌ शतुः नित्यं नुम्‌ शीनद्योः''' |</big>
 
 
 
<big>'''मिदचोऽन्त्यात्परः''' (१.१.४७) = यः मित्‌ अस्ति, सः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति, अपि च अयं मित्‌ यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म्‌ इत्‌ यस्य सः मित्‌, बहुव्रीहिः | मित्‌ प्रथमान्तम्‌, अचः षष्ठ्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तम्‌, परः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यस्मात्‌ '''अन्तः''' इत्यस्य अनुवृत्तिः | अस्मिन्‌ सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्‌" इत्यस्य अर्थः निर्धारणम्‌— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्‌" | अत्र '''अचः''' एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) | '''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌''' (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; '''षष्ठी स्थानेयोगा''' (१.१.४९) इति सामान्यम्‌, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— '''मित्‌ अचः अन्त्यात्‌ परः अन्तः''' |</big>
 
 
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
 
 
 
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य परसवर्णः '''ययि''' संहितायाम्''' |</big>
 
 
 
<big>अधुना विस्तारेण पुनः वदन्ती इति प्रातिपदिकस्य व्युत्पत्ति-प्रक्रियाम्‌ अवलोकयाम—</big>
653

edits