06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 304:
|<big>तुदन्ती, तुदन्त्यौ, तुदन्त्यः</big>
|}
 
 
<big>अदादिगणे चतुर्दश आकारान्त-धातवः सन्ति | '''आच्छीनद्योर्नुम्‌''' इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति | नाम तत्रापि शत्रन्त-प्रसङ्गे स्त्रीत्वविवक्षायां नुम्‌-आगमः विकल्पेन भवति | कारणम्‌ इदं यत्‌ एषां धातूनाम्‌ अवर्णान्तम् अङ्गम्‌ अस्ति, परन्तु इदम्‌ अङ्गं शबन्तम्‌ श्यनन्तं च नास्ति | धातवः एते— या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा |</big>
 
{|
|<big>अदादौ या‍-धातुः—</big>
|<big>याती, यात्यौ, यात्यः</big>
|-
|
| <big>यान्ती, यान्त्यौ, यान्त्यः</big>
|}
 
 
<big>'''आच्छीनद्योर्नुम्‌''' (७.१.८०) = अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌-आगमो भवति शी-प्रत्यये च नदी-प्रत्यये परे | शी च नदी च शीनद्यौ, तयोः शीनद्योः | आत्‌ पञ्चम्यन्तं, शीनद्योः सप्तम्यन्तं, नुम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात्‌ '''शतुः''', अपि च '''वा नपुंसकस्य''' (७.१.७१) इत्यस्मात्‌ '''वा''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः''' |</big>
 
 
<big>धेयं यत्‌ '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इति सामान्यशास्त्रं, '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) इति विशेषशास्त्रम्‌ | '''आच्छीनद्योर्नुम्‌''' इत्यनेन शत्रन्ताङ्गस्य अवर्णात्‌ अङ्गात्‌ विकल्पेन नुम्‌ आगमः भवति | भ्वादिगणे, दिवादिगणे, चुरादिगणे च शत्रन्ताङ्गस्य अवर्णान्तम्‌ अङ्गं भवति (भव, दीव्य, चोरय) | अतः '''आच्छीनद्योर्नुम्‌''' इत्यनेन एषु त्रिषु गणेषु अपि नुम्‌ आगमः वैकल्पिकः भवति स्म | नाम एषु त्रिषु गणेष्वपि '''आच्छीनद्योर्नुम्‌''' इत्यस्य प्रसक्तिरस्ति | तदा '''शप्‌श्यनोर्नित्यम्‌''' आगत्य वदति यत्‌ "न— एषु गणेषु शप्‌-श्यन्‌ इति विकरणप्रत्ययौ भवतः, अतः अत्र नुम्‌-आगमः नित्यः न तु वैकल्पिकः |</big>
 
 
<big>c) <u>स्त्री-प्रातिपदिकम्‌ अवशिष्टगणेषु (नुम्‌-आगमः नैव भवति)</u></big>
 
 
<big>षट्सु गणेषु अङ्गम्‌ अदन्तं नास्ति, अतः नुम्‌-आगमस्य किमपि विधायकं सूत्रम्‌ नास्ति | तदर्थं स्त्रीत्वविवक्षायां केवलं ङीप्‌-प्रत्ययः संयुज्यते |</big>
 
 
<big>यथा— चिनु + अत्‌ + ई | अत्र चिनु इति अङ्गम्‌ उकारान्तं (न तु अकारान्तम्‌), अतः न '''आच्छीनद्योर्नुम्‌''' इत्यस्य प्रसक्तिः, न वा '''शप्‌श्यनोर्नित्यम्‌''' इत्यस्य |</big>
 
 
<big>अदादौ अस्‌-धातुः— सती, सत्यौ, सत्यः</big>
 
<big>जुहोत्यादिगणे* दा-धातुः— ददती, ददत्यौ, ददत्यः</big>
 
<big>स्वादौ चि-धातुः— चिन्वती, चिन्वत्यौ, चिन्वत्यः</big>
 
<big>तनादौ तन्‌-धातुः— तन्वती, तन्वत्यौ, तन्वत्यः</big>
 
<big>क्र्यादौ क्री-धातुः— क्रीणती, क्रीणत्यौ, क्रीणत्यः</big>
 
<big>रुधादौ रुध्‌-धातुः— रुन्धती, रुन्धत्यौ, रुन्धत्यः</big>
 
 
<big>*जुहोत्यादिगणे '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकारस्य लोपः, अतः अङ्गं हलन्तम्‌ अस्ति न तु अदन्तम्‌ | ददा + अत्‌ → दद्‌‌ + अत्‌ → ददत्‌ | दद्‌ इति अङ्गम्‌, अतः अत्रापि '''आच्छीनद्योर्नुम्‌''' इत्यस्य प्रसक्तिः नास्ति | अपि च अन्ततो गत्वा '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकात्‌ शतृ-प्रत्ययस्य नुम्‌-आगमो न भवति | अनुवृत्ति-सहितसूत्रम्‌— '''न अभ्यस्तात्‌ अङ्गात्‌ शतुः नुम्‌''' |</big>
 
 
<big>सर्वैः चिन्तनं समक्तया कर्तव्यं किमर्थं सूत्रदृष्ट्या स्त्रीत्व-विवक्षायां भ्वादौ, दिवादौ, चुरादौ च नुम्‌-आगमः नित्यः, तुदादौ, १४ अदादिगणस्थेषु आकारान्तधातुषु नुम्‌-आगमः वैकल्पिकः, अपि च अवशिष्टेषु षट्सु गणेषु नुम्‌-आगमस्य प्रसक्तिर्नास्ति |</big>
 
 
<big>इति शन्त्रन्तानां प्रातिपदिक-निर्माणम्‌ समाप्तम्‌ |</big>
 
<big>Swarup – Sept 2014</big>
653

edits