(2 intermediate revisions by one other user not shown) |

प्रथमतया '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्''' (१.२.४५) इति सूत्रं स्वीकुर्मः | प्रश्नः अस्ति यत् अनेन सूत्रेण केवलं यस्य प्रातिपदिकसंज्ञा भवति तत् सूच्यते, अथवा यस्य प्रातिपदिकसंज्ञा न भवति तदपि सूच्यते ? नाम अत्र निषेधः भवति न वा ?

'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्''' (१.२.४५) इयनेनइत्यनेन यस्य प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः, यस्य च न भवेत् तस्य निषेधः | नञ् इत्यनेन त्रयाणां व्यावृत्तिः | अयं निषेधार्थः प्रतीतः, गम्यः | '''अधातुरप्रत्ययः''' इति शब्दे निहितमस्ति | शब्दस्य अर्थशक्त्या अयं बोधो जायते |

'''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मिन् यत् नञ् भवति, तत् प्रसज्यप्रतिषेधः | अत्र यदि वदामः यत् अस्य अर्थः एवं यत् उपदेशावस्थायां एजन्तधातोः आत्वादेशः 'अशिति प्रत्यये परे', |तर्हि 'अशिति प्रत्यये परे' इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति | यदि वदामः यत् "उपदेशावस्थायाम् एजन्तधातोः आत्वादेशः | शिति प्रत्यये परे न भवति", तदातर्हि प्रसज्यप्रतिषेधः | 'अशिति प्रत्यये परे' इत्यस्य अर्थः एवं यत् तादृशप्रत्ययः परः भवेत् यः शित् नास्ति— नाम कश्चन प्रत्ययः अपेक्षितः; स च प्रत्ययः शित् न भवेत् | परः शित् प्रत्ययः नास्ति, शून्यमस्ति, तर्हि एजन्तस्य आत्वं न भवति | यङ्लुकि गै धातुतः यङः लुक् भवति; अस्यां दशायां अशित्-प्रत्ययः परः नस्ति अतः आत्वं न भविष्यति | ‘प्रत्ययः भवेत्, शित् न स्यात्', तदा कार्यं जायते | इति चेत् समस्या, यतोहि यङ्लुकि प्रत्ययः एव नास्ति अतः आत्वं न भविष्यति | किन्तु आत्वम् अपेक्षितम् | अतः अत्र प्रसज्यप्रतिषेधः न तु पर्युदासः |