06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam: Difference between revisions

no edit summary
m (Protected "02 - प्रातिपदिकत्वम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 211:
 
<big><br />
एते त्रयः अपि—धातुः, प्रत्ययः, प्रत्ययान्तः—अर्थवन्तः | परन्तु धातोः प्रातिपदिकसंज्ञा वतिभवति इति चेत्‌, समस्या जायते | हन्‌-धातोः लङ्‌-लकारे प्रथमपुरुषैकवचने 'अहन्‌' इति रूपस्य नकारलोपः भविष्यति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण | प्रत्ययः अपि अर्थवान्‌ अतः तस्य प्रातिपदिकसंज्ञा-निषेधः आवश्यकः | प्रत्ययाः चतुर्विधाः— सुप्‌, तिङ्‌, कृत्‌, तद्धितः च | प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति चेत्‌, सुबन्तेभ्यः तिङन्तेभ्यश्च सुप्‌-प्रत्ययविधानम्‌ आरप्स्यते | अतः अस्य सर्वस्य निवारणार्थं, स्पष्टीकरणार्थं च एषां त्रयाणां प्रातिपदिकसंज्ञा-निषेधः भवति | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रेण संज्ञा-प्राप्तिरपि अस्ति, संज्ञा-निषेधः अपि अस्ति | नञ्‌ इत्यस्य कथनेन निषेधः | स च निषेधः द्विविधः; अग्रे उच्यते |</big>
 
<big><br />