06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 132:
 
<big>पुंसि नपुंसके च प्रकृति-प्रत्यययोः संयोजनेन यत्‌ शब्दस्वरूपं निष्पन्नं, तस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' इति सूत्रेण | अपि च यः कोऽपि व्युत्पन्नशब्दः मूले स्त्रीलिङ्गे अस्ति, तस्यापि प्रातिपदिकसंज्ञा अनेन सूत्रेण | यथा महिला-शब्दः मूलतः स्त्रियाम्‌ एव अपि च व्युत्पन्नशब्दः अतः अनेन सूत्रेण प्रातिपदिकसंज्ञा | परन्तु छात्रा-शब्दः मूल-पुंलिङ्ग-छात्रशब्दात्‌ आगतः, अतः अनेन सूत्रेण न | व्युत्पन्न-छात्रशब्दस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण; तदा स्त्री-प्रत्ययस्य संयोजनेन छात्रा भवति | छात्रा-शब्दस्य प्रातिपदिकसंज्ञा अधः स्थित-परिभाषया भवति |</big>
 
 
 
<big><u>अधिकारसूत्राणि</u></big>
 
 
 
<big>अधिकारसूत्रम्‌ इत्युक्तौ तादृशं सूत्रं यस्य पूर्ण-रूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु | नाम स्वयं कार्यं न करोति, अपि तु अपरेषु सूत्रेषु उपविश्य तेषाम्‌ अर्थं पूरयति |</big>
 
 
 
<big>'''१. प्रत्ययः''' (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०] तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित्‌ विधानं भवति, तत्र तत्र '''प्रत्ययः''' आगत्य वदति यत्‌ यस्य विधानं सञ्जातं, तस्य प्रत्यय-संज्ञा भवति | एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति, तत्र सर्वत्र अस्य सूत्रस्य अधिकारः | ३.१.१ – ५.४.१६० इत्येषु यत्र यत्र विधानम्‌ अस्ति, तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम्‌ अन्वयः यत्‌ यत्‌ विहितं, तस्य प्रत्यय-संज्ञा भवति |</big>
 
 
 
<big>'''२. परश्च''' (३.१.२) = [अधिकारः ३.१.१ – ५.४.१६०] एषु एव त्रिषु अध्यायेषु यत्र यत्र '''प्रत्ययः''' इत्यनेन प्रत्यय-संज्ञा भवति, तत्र तत्र '''परश्च''' इति सूत्रम्‌ अपि उपविश्य वदति यत्‌ अयं प्रत्ययः प्रकृतेः अनन्तरम्‌ आयाति |</big>
 
 
 
<big>'''३. ङ्याप्प्रातिपदिकात्‌''' (४.१.१) = [अधिकारः ४.१.१ – ५.४.१६०] | चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्यायाः विहिताः, ते सर्वे प्रातिपदिकेभ्यः, ङ्यन्तेभ्यः, आबन्तेभ्यः वा आयान्ति | ङ्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति | तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वाणि सुबन्तविधायकसूत्राणि सन्ति; तेषु सर्वेषु यत्‌ किमपि विहितं, '''प्रत्ययः''' इत्यनेन यः विहितः, तस्य नाम प्रत्ययः | अपि च यः विहितः, सः सर्वत्र प्रातिपदिकात्‌, ङ्यन्तात्‌, आबन्तात्‌ वा विहितः भवति |</big>
 
 
 
<big>सूत्रस्य पदविच्छेदः—ङी च, आप्‌ च, प्रातिपदिकञ्च, तेषां समाहारद्वन्द्वः, ङ्याप्प्रातिपदिकम्‌, तस्मात्‌ ङ्याप्प्रातिपदिकात्‌ | ङ्याप्प्रातिपदिकात्‌ पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | त्रयः स्त्री-प्रत्ययाः सन्ति यैः ई-कारः विहितो भवति— ङीप्‌, ङीष्‌, ङीन्‌ च | अस्मिन्‌ सूत्रे "ङी" इत्यस्य कथनेन त्रयाणाम्‌ अपि ग्रहणं भवति | त्रयः स्त्री-प्रत्ययाः सन्ति यैः आ-कारः विहितो भवति— टाप्‌, डाप्‌, चाप्‌ च | अस्मिन्‌ सूत्रे "आप्‌" इत्यस्य कथनेन त्रयाणाम्‌ अपि ग्रहणं भवति |</big>
 
 
 
<u><big>परिभाषा</big></u>
 
 
 
<big>अधः एका परिभाषा अस्ति | परिभाषाः अत्यन्तं पुरातनाः; तेषां लेखकाः अस्माभिर्न ज्ञायन्ते परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति |</big>
 
 
 
<big>'''प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्‌''' (परिभाषा #७१) = यस्य रूपस्य प्रातिपदिकसंज्ञा भवति द्वाभ्यां प्रातिपदिकसंज्ञा-विधायक-सूत्राभ्याम्‌ ('''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''', '''कृत्तद्धितसमासाश्च'''), तस्मात्‌ प्रातिपदिकात्‌ यानि लिङ्गविशिष्ट-रूपाणि व्युत्पन्नानि भवन्ति स्त्रीत्व-बोधक-प्रत्ययानां योजनेन, तेषाम्‌ अपि ग्रहणं भवति प्रातिपदिकसंज्ञया | यथा 'कर्तृ' इत्यस्य प्रातिपदिकसंज्ञा भवति, अतः 'कर्त्री' इत्यस्यापि प्रातिपदिकसंज्ञा भवति | तथा च 'छात्र' इत्यस्य प्रातिपदिकसंज्ञा भवति, अतः 'छात्रा' इत्यस्यापि प्रातिपदिकसंज्ञा भवति |</big>
 
 
 
<big>अनेन प्रातिपदिकस्य विधानार्थं सर्वाणि यन्त्राणि अस्माकं पुरतः सन्ति— द्वे सूत्रे, एका परिभाषा च | प्रातिपदिकम्‌ अस्माकम्‌ आधारः अस्ति अष्टाध्याय्याः चतुर्थे पञ्चमे च अध्याययोः, यत्र सुबन्तपदानां निष्पादनार्थं सर्वे प्रत्ययाः विहिताः सन्ति | तेषु सुप्‌-प्रत्ययाः प्रमुखाः | अधः त्रयाणाम्‌ अधिकारसूत्राणां समर्थनेन सुप्‌-प्रत्ययानां विधानार्थम्‌ अर्थपूर्णं वाक्यं सिद्धम्‌—</big>
 
 
 
<big>'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) = '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''ङ्याप्प्रातिपदिकात्‌ स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ प्रत्ययः परश्च''' |</big>
 
 
 
<big>अधुना प्रातिपदिकस्य आधारः कः, कथं भवति इति अस्माभिः ज्ञातम्‌ | अग्रिमेषु पाठेषु प्रातिपदिकस्य आधारेण कथं सुप्‌-प्रत्ययाः युज्यन्ते सुबन्तपदस्य निष्पादनार्थम्‌, इति अवलोकयिष्यामः |</big>
 
 
 
<big>Swarup – Sept 2014</big>
653

edits