page_and_link_managers, Administrators
5,097
edits
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती) |
No edit summary |
||
(10 intermediate revisions by 4 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 08 - शतृशानचोः प्रक्रियाचिन्तनम्}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
|-
|<big>'''२०२० वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/194_shatrantAnaM-numvyavasthA--nampumsakalingE%2B%20shAnajantAnAM-prakriyAcintanam_2020-02-25.mp3 shAnajantAnAM-prakriyAcintanam_2020-02-25]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/195_shAnajantAnam-prakriyAcintanam-1---paricayaH_2020-03-04.mp3 shAnajantAnAm-prakriyAcintanam-1---paricayaH_2020-03-04]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/196_shAnajantAnam-%20abhyAsaH_2%202020-03-11.mp3 shAnajantAnam- abhyAsaH_2 2020-03-11]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/197_%20shAnajantAnam-abhyAsaH_%20sahtrantAnAm%20-punassmaraNam_2020-03-17.mp3 shAnajantAnam-abhyAsaH_ shatrantAnAm -punassmaraNam_2020-03-17]</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/198_%20shatrantAnaM%20-%20adantAngam-numAgama%20cintanam%2BanadantAngam-prAtipadikam_%202020-03-25.mp3 shatrantAnaM - adantAngam-numAgama cintanam+anadantAngam-prAtipadikam_ 2020-03-25]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/199_shatrantAnaM%20-anadantAngam%20-%20numAgama%20cintanam-%20pumlingE%2B%20napumsakalingE%20%20_%202020-03-31.mp3 shatrantAnaM -anadantAngam - numAgama cintanam- pumlingE+ napumsakalingE _ 2020-03-31]</big>
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/200_%20shatrantAnaM-anadantAngam%20-anabhyastaangam%20-numAgama%20cintanam%2B%20abhyAsaH_%202020-04-07.mp3 shatrantAnaM-anadantAngam -anabhyastAngam -numAgama cintanam+ abhyAsaH_ 2020-04-07]</big>
|-
|<big>'''२०१७ वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/99_shAnajantAnAM-prakriyAcintanam_2017-01-15.mp3 shAnajantAnAM-prakriyAcintanam_2017-01-15]</big>
|-
|<big>२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/100_shatrantAnAM-prakriyAcintanam-1---paricayaH__panca-numAgama-sUtrANi_2017-01-22.mp3 shatrantAnAM-prakriyAcintanam-1---paricayaH_+_panca-numAgama-sUtrANi_2017-01-22]</big>
|-
|<big>३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/101_shatrantAnAM-prakriyAcintanam-2---panca-numAgama-sUtrANi__adantAngAnAM-shantrantarUpANi_2017-01-29.mp3 shatrantAnAM-prakriyAcintanam-2---panca-numAgama-sUtrANi_+_adantAngAnAM-shantrantarUpANi_2017-01-29]</big>
|-
|<big>४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/102_shatrantAnAM-prakriyAcintanam-3---panca-numAgama-sUtrANi---sarvAbhyAsaH_2017-02-05.mp3 shatrantAnAM-prakriyAcintanam-3---panca-numAgama-sUtrANi---sarvAbhyAsaH_2017-02-05]</big>
|-
|<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/103_shatrantAnAM-prakriyAcintanam-4---panca-numAgama-sUtrANi---vishiShTa-bindavaH__sarvAbhyAsaH_2017-02-12.mp3 shatrantAnAM-prakriyAcintanam-4---panca-numAgama-sUtrANi---vishiShTa-bindavaH_+_]</big><big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/103_shatrantAnAM-prakriyAcintanam-4---panca-numAgama-sUtrANi---vishiShTa-bindavaH__sarvAbhyAsaH_2017-02-12.mp3 sarvAbhyAsaH_2017-02-12]</big>
|-
|<big>६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/104_shatrantAnAM-prakriyAcintanam-5---adanta-striyAm__anadanta-prAtipadikam__abhyastAngasya-numAgamaH_2017-02-19.mp3 shatrantAnAM-prakriyAcintanam-5---adanta-striyAm_+_anadanta-prAtipadikam_+_abhyastAngasya-numAgamaH_2017-02-19]</big>
|-
|<big>७) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/105_shatrantAnAM-prakriyAcintanam-6---abhyastAngasya-numAgamaH_2017-02-26.mp3 shatrantAnAM-prakriyAcintanam-6---abhyastAngasya-numAgamaH_2017-02-26]</big>
|-
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/106_shatrantAnAM-prakriyAcintanam-7---anadanta-anabhyastAngasya-numAgamaH__dashAnAM-dhAtugaNAnAM-sarvAbhyAsaH_2017-03-05.mp3 shatrantAnAM-prakriyAcintanam-7---anadanta-anabhyastAngasya-numAgamaH_+_dashAnAM-dhAtugaNAnAM-sarvAbhyAsaH_2017-03-05]</big>
|-
|<big>९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/107_shatrantAnAM-prakriyAcintanam-8---dashAnAM-dhAtugaNAnAM-sarvAbhyAsaH_2017-03-12.mp3 shatrantAnAM-prakriyAcintanam-8---dashAnAM-dhAtugaNAnAM-sarvAbhyAsaH_2017-03-12]</big>
|-
|<big>१0) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/108_shatrantAnAM-prakriyAcintanam-9---dashAnAM-dhAtugaNAnAM-sarvAbhyAsaH-2_2017-03-19.mp3 shatrantAnAM-prakriyAcintanam-9---dashAnAM-dhAtugaNAnAM-sarvAbhyAsaH-2_2017-03-19]</big>
|}
<big>वस्तुतः यद्यपि 'सार्वधातुकप्रकरणम्' इति नामकरणं प्रसिद्धं किन्तु सार्वधातुकम् इति प्रक्रिया अस्ति न तु प्रकरणम् | यथा जानीमः, प्रकरणम् इति नाम्ना अष्टाध्याय्यां समानप्रकारकसूत्राणि सङ्गृहीतानि सन्ति; अयं समानप्रकारकसूत्रसङ्ग्रहः एव प्रकरणम् | 'इत्संज्ञाप्रकरणम्', 'इडागमप्रकरणं', 'नुमागमप्रकरणं', 'णत्वप्रकरणम्' इति अष्टाध्याय्यां प्रकरणानि | तत्र एकप्रकारकसूत्रसङ्ग्रहः एव दीयते न तु पदनिर्माणप्रक्रिया | अष्टाध्याय्याम् एकस्मिन् प्रकोष्ठे एकमेव कार्यम् इति प्रकरणस्य लक्षणम् |</big>
<big>यत्र विभिन्नेभ्यः प्रकरणेभ्यः सूत्राणि स्वीक्रियन्ते पदस्य निर्माणार्थं, तत्र 'प्रक्रिया' इत्युच्यते | तथा च कर्त्रर्थक-सार्वधातुकप्रत्यये परे यत्र '''कर्तरि शप्''' (३.१.६८) इत्यनेन शप्, धातुगणम् अनुसृत्य शपं प्रबाध्य अन्ये अन्ये च विकरणप्रत्ययाः विधीयन्ते, यस्य फलं लटि लोटि लङि विधिलिङि तिङन्तपदं, शतृशानचोः च सुबन्तं, सा तु प्रक्रिया एव— पदनिर्माणविधिः | नूनं सार्वधातुकम् एका प्रक्रिया; फलं तिङन्तं सुबन्तं वा भवतु, प्रक्रिया उभयत्र समाना एका एव | तदन्तर्गते च चतस्रः उपप्रक्रियाः— अजादिपित्, हलादिपित्, अजाद्यपित्, हलाद्यपित् |</big>
<big>सार्वधातुकप्रक्रियायां यत्र यत्र प्रत्ययः अजादिपित्, तत्र तत्र एकप्रकारकं कार्यं भवति | तच्च कार्यं कुत्रापि भवतु, कार्यम् एकमेव | तद्वत् हलादिपित्, अजाद्यपित्, हलाद्यपित् | एवं च सार्वधातुकप्रक्रिया एका एव, तस्यां च चतस्रः उपप्रक्रियाः |</big>
<big>सार्वधातुकप्रक्रियायां चतस्रः उपप्रक्रियाः सन्ति इति कथं जानीमः, किं प्रमाणम् ? इदं वर्गीकरणं पाणिनिना सिध्यति सूत्रभेदेन | सूत्राणां निमित्तं दृष्ट्वा चतस्रः प्रक्रियाः स्फुटाः भवन्ति | यथा '''श्नाभ्यस्तयोरातः''' (६.४.११२) किति ङिति सार्वधातुकप्रत्यये परे [अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके], किन्तु '''ई हल्यघोः''' (६.४.११३) इत्यस्मिन् हलि किति ङिति उच्यते [अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः], यस्मात् '''श्नाभ्यस्तयोरातः''' इत्यस्य केवलं अजादि किति ङिति भवति | अनेन अजाद्यपित् हलाद्यपित् इत्यनयोः उपप्रकिययोः प्रमाणं सिद्धं— पाणिनेः सूत्रैः एव सिध्यति |</big>
<big>तदा '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) हलि पिति भवति [उतः अङ्गस्य वृद्धिः लुकि हलि पिति सार्वधातुके न अभ्यस्तस्य], '''नाभ्यस्तस्याचि पिति''' '''सार्वधातुके''' (७.३.८७) अचि पिति भवति [अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके]— आभ्यां सूत्राभ्यां हलादि पित्, अजादि पित् इति निमित्तं दृश्यते | चतुर्भिः सूत्रैः प्रमाणम् अस्ति यत् हलादिपित्, अजादिपित्, हलाद्यपित्, अजाद्यपित् इत्येभिः चतुर्भिः चतस्रः पृथक् प्रक्रियाः निष्पन्नाः |</big>
<big>अन्यच्च मूलरूपेण सार्वधातुकप्रक्रियायाः द्वौ विभागौ— यत्र अङ्गम् अदन्तं, पुनः यत्र अङ्गम् अनदन्तम् | अयं भेदः अपि सूत्रनिमित्तम् अवलम्ब्य सिध्यति | यथा '''आने मुक्''' (७.२.८२) इत्यस्य निमित्तम् अदन्तम् अङ्गम् [अतः अङ्गस्य मुक् आने] इति अग्रे वक्ष्यमाणम् |</big>
<big><u>शानच्</u></big>
<big>अधुना शानच्-प्रत्ययः कीदृशः ? अनुबन्धलोपे 'आन' अवशिष्यते | अयं प्रत्ययः शित्त्वात् सार्वधातुकः, अजादिः अपित् च इति कृत्वा 'अजाद्यपित् सार्वधातुकः' | सार्वधातुकप्रक्रियायां यत्र यत्र अजाद्यपित् इत्यस्य कार्यं प्रवर्तमानं, तच्च कार्यम् एकप्रकारकं समानं च, यतोहि निमित्तम् 'अजाद्यति' अतः येषां सूत्राणाम् अजाद्यपित् इति निमित्तं, तेषां प्रसक्तिः | अतः तिङन्तस्य क्षेत्रे यत्र तिङ्-प्रत्ययः अजाद्यपित्, तत्र यादृशकार्यं भवति, तादृश एव कार्यं भवति 'आन' इति प्रत्ययं निमित्तीकृत्य | न कोऽपि भेदः |</big>
<big>एतदर्थं तिङन्तकृदन्तयोः प्रक्रियादृष्ट्या द्वैविध्यं नास्ति | तिङन्तक्षेत्रे यत्र प्रत्ययः अजाद्यपित्, कृदन्तक्षेत्रे यत्र प्रत्ययः अजाद्यपित्, उभयत्र कार्यं समानं— प्रक्रिया एका एव |</big>
<big>अत्र 'प्रक्रिया समाना' इत्यनेन किं विवक्षितम् ? तिङन्तस्य तिङन्तपद-व्युत्पत्तिः, कृदन्तस्य प्रातिपदिक-व्युत्पत्तिः— उभयत्र साम्यम् | ततः अग्रे यदा कृदन्तप्रातिपदिकात् सुबन्तं भवति, तत्र सुबन्तप्रक्रिया पुनः भिन्ना | किन्तु अत्र अस्माकं कृदन्तचिन्तनं नाम कृदन्तप्रातिपदिकनिष्पादनं, तस्य च पद्धतिः | सा च प्रक्रिया, सार्वधातुकतिङन्तप्रक्रिया च समाना, समाननिमित्तकत्वात् |</big>
<big><u>प्रथमगणसमूहः— अदन्ताङ्गस्य रूपाणि</u></big>
<big>तर्हि शानच्-प्रत्ययः इति यथा, तथा तिङन्तस्य अदन्तक्षेत्रे तादृशप्रत्ययः कः ? अङ्गम् अदन्तम् अस्ति चेत्, '''आने मुक्''' (७.२.८२) इत्यनेन मुक्-आगमो भवति— मुक् + आन → मान | अनेन हलाद्यपित् प्रत्ययो भवति | तिङन्तस्य आत्मनेपदस्य अदन्तक्षेत्रे 'ते'-प्रत्ययः अपि तथा हलाद्यपित् | अतः ते-प्रत्यये परे यत् कार्यं भवति, तदेव कार्यं भवति मान-प्रत्यये परे |</big>
<big>सङ्क्षेपे एधते → ते-स्थाने मान → एधमान | सुबन्तप्रक्रियायाम् एधमानः, एधमाना, एधमानम् |</big>
<big>'''आने मुक्''' (७.२.८२) = अदन्ताङ्गस्य मुक्-आगमो भवति आन-प्रत्यये परे | आने सप्तम्यन्तं, मुक् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अतो येयः''' (७.२.८०) इत्यस्मात् '''अतः''' इति विपरिणामेन षष्ठ्यन्त्म् अनुवर्तते | अङ्गस्य (६.४,१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अतः अङ्गस्य मुक् आने''' |</big>
<big>कित्त्वात् '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अदन्ताङ्गस्य अन्ते विधीयते | तत्र प्रक्रियायाः सौकर्यार्थं प्रत्ययस्य आदौ स्थापयामः |</big>
<big>भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च धातुविकरणप्रत्ययोः संयोगजनेन निष्पन्नम् अङ्गम् अदन्तम् | अतः एषु चतुर्षु धातुगणेषु समानचिन्तनम् |</big>
<big><u>भ्वादौ</u></big>
<big>वृधु + शप् → वर्ध इति अदन्तम् अङ्गम् → वर्ध + मान → वर्धमान | वर्धमानः, वर्धमाना, वर्धमानम् |</big>
<big><u>दिवादौ</u></big>
<big>जनी + श्यन् → जन् + य → '''ज्ञाजनोर्जा''' (७.३.७९) इत्यनेन शिति परे धात्वादेशः → जा + य → जाय इति अदन्तम् अङ्गम् → जाय + मान → जायमान | जायमानः, जायमाना, जायमानम् |</big>
<big><u>तुदादौ</u></big>
<big>ओलस्जी + श → लस्ज् + अ → '''स्तोः श्चुना श्चुः''' (८.४.४०) → लश्ज् + अ → '''झलां जश् झशि''' (८.४.५३) → लज्ज् + → लज्ज इति अङ्गम् → लज्ज + मान → लज्जमान | लज्जमानः, लज्जमाना, लज्जमानम् |</big>
<big><u>चुरादौ</u></big>
<big>चुर + णिच् → चुर् + इ → चोरि इति धातुः → चोरि + शप् → चोरय इति अङ्गम् → चोरय + मान → चोरयमाण | चोरयमाणः, चोरयमाणा, चोरयमाणम् |</big>
<big><u>द्वितीयगणसमूहः — अनदन्ताङ्गस्य रूपाणि</u></big>
<big>अत्र अङ्गम् अदन्तं नास्ति अतः '''आने मुक्''' न भवति |</big>
<big>'''आने मुक्''' (७.२.८२) = अदन्ताङ्गस्य मुक्-आगमो भवति आन-प्रत्यये परे |</big>
<big>तर्हि शानच्-प्रत्ययस्य अनुबन्धलोपे 'आन' इति | मुक्-आगमः च अत्र नास्ति, आन इत्येव तिष्ठति |</big>
<big>शानच् अजाद्यपित् सार्वधातुकः | अत्र शानच् इति यथा, तथा तिङन्तस्य अनदन्तक्षेत्रे तादृशप्रत्ययः कः ? 'आते', लटि प्रथमपुरुषस्य द्विवचने यः प्रत्ययः | आते इति प्रत्ययः अजाद्यपित्, आन अपि तथा | प्रक्रिया न आते-प्रत्ययस्य, न वा आन-प्रत्ययस्य; प्रक्रिया अचि अपित् इत्यस्य— अजाद्यपित् इत्यस्य | यस्मात् यस्मात् धातोः, आते-प्रत्यये परे यथा कार्यं भवति यथा च रूपं निष्पन्नं, तथैव शानजन्तरूपमपि निष्पद्यते |</big>
<big>तर्हि अङ्गम् अनदन्तम् कुत्र ? स्वादिगणे, तनादिगणे, क्र्यादिगणे, रुधादिगणे, अदादिगणे, जुहोत्यागणे च |</big>
<big><u>स्वादौ—</u></big>
<big>चिनु + आते → चिन्वाते</big>
<big>चिनु + आन → चिन्वान | चिन्वानः, चिन्वाना, चिन्वानम् |</big>
<big>'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातुः च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण्''' '''अचि सार्वधातुके''' |</big>
<big><u>तनादौ</u>—</big>
<big>तनु + आते → तन्वाते</big>
<big>तनु + आन → तन्वान | तन्वानः, तन्वाना, तन्वानम् |</big>
<big>'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इकः यण् अचि संहितायाम्''' |</big>
<big><u>क्र्यादौ</u>—</big>
<big>क्रीणा + आते → क्रीणाते</big>
<big>क्रीणा + आन → क्रीणान | क्रीणानः, क्रीणाना, क्रीणानम् |</big>
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात् '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
<big><u>रुधादौ</u>—</big>
<big>रुन्ध् + आते → रुन्धाते</big>
<big>रुन्ध् + आन → रुन्धान | रुन्धानः, रुन्धाना, रुन्धानम् |</big>
<big><u>अदादौ</u>—</big>
<big>[शीङ् स्वप्ने इति धातुः]</big>
<big>शी + आते → शे + आते → श् + अय् + आते → शयाते</big>
<big>शी + आन → शे + आन → श् + अय् + आन → शयान | शयानः, शयाना, शयानम् |</big>
<big>'''शीङः सार्वधातुके गुणः''' (७.४.२१) = शीङ्-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | अनेन सूत्रेण शीङ्-धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्, अतः अत्र ईकारः स्थानी भवति | शीङः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, गुणः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''शीङः अङ्गस्य गुणः सार्वधातुके''' |</big>
<big><u>जुहोत्यादौ</u>—</big>
<big>दा + आते → ददा + आते → ददाते</big>
<big>दा + आन → ददा + आन → ददान | ददानः, ददाना, ददानम् |</big>
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
<big>अतः यया प्रक्रियया आते विधीयते तया एव प्रक्रियया आन अपि विधीयते | सर्वत्र कार्यं समानम् एव | किमर्थं तथा ? यतोहि प्रक्रिया न आते पश्यति, न वा आन; प्रक्रिया अजाद्यपित् सार्वधातुकप्रत्ययम् एव पश्यति | प्रक्रियायाः निमित्तं तदेव अस्ति अजाद्यपित् सार्वधातुकः |</big>
<big>केवलम् एकं विशिष्टं सूत्रं भवति '''ईदासः''' (७.२.८३), यस्य कार्यं केवलं शानच्-प्रत्यये परे एव भवति | आस्-धातोः यदा शानजनरूपं निष्पद्यते, तदा 'आन' इत्यस्य स्थाने 'ईन' भवति, आस् + आन → आस् + ईन → आसीन | लटि आस्ते आसाते, किन्तु शानच्-प्रत्यये आसीन | एकमात्रः अपवादः |</big>
<big>'''ईदासः''' (७.२.८३) = आस उत्तरस्यानशब्दस्य ईकारादेशो भवति | '''आदेः परस्य''' (१.१.५४) इति परिभाषासूत्रेण परस्य कार्यम् आदेः अलः इति कृत्वा ईकारादेशः सम्पूर्ण-आन-प्रत्ययस्य स्थाने न अपि तु आदिमवर्णस्य आकारस्य स्थाने | ईत् प्रथमान्तम्, आसः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''आने मुक्''' (७.२.८२) इत्यस्मात् '''आने''' इत्यस्य अनुवृत्तिः; विभक्ति-विपरिणामेन षष्ठ्यन्तं '''आनस्य''' | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''आसः अङ्गात् आनस्य ईत्''' |</big>
<big>अनेन सर्वाणि शानजन्तरूपाणि निष्पन्नानि |</big>
<big>धेयं यत् तदानीं सार्वधातुकप्रक्रिया प्रवर्तनीया भवति यदा कर्त्रर्थकः सार्वधातुकप्रत्ययः परो भवति | तत्र च सार्वधातुकप्रक्रियायाः लक्षणम् इदं यत् धातुभ्यः कर्त्रर्थक-सार्वधातुकप्रत्यये परे '''कर्तरि शप्''' (३.१.६८) इत्यनेन शप् विधीयते, तत्तद्धातुगणम् अनुसृत्य च शपं प्रबाध्य विकरणप्रत्ययो विधीयते |</big>
<big>अधुना शानच् प्रत्ययः न केवलं कर्त्रर्थे भवति अपि तु विवक्षानुगुण्येन कर्मण्यर्थेऽपि भवति | कर्मण्यर्थे सति '''कर्तरि शप्''' (३.१.६८) इत्यनेन शप् न भवति, तदर्थं च धातुगणानुगुण्येन अन्ये विकरणप्रत्ययाः अपि न विधीयन्ते, अपि तु '''सार्वधातुके यक्''' (६.१.६७) इत्यनेन यक् एव भवति | सर्वेषां धातूनां यक् एव भवति | भ्वादौ पा-धातोः कर्त्रर्थे पिबति किन्तु कर्मणि शानचि पीयमानः, तथैव जुहोत्यादौ दा-धातोः ददाति किन्तु दीयमानः, क्र्यादौ च क्रीणाति किन्तु क्रीयमाणः | अनेन विस्पष्टं भवति यत् कर्त्रर्थे सार्वधातुकप्रक्रियावशात् धातुगणम् अनुसृत्य रूपभेदः (पिबति, ददाति, क्रीणाति) किन्तु कार्मणि शानचि आर्धधातुकप्रक्रियावशत् धातुगणम् अनुसृत्य रूपभेदो नास्ति (पीयमानः, दीयमानः, क्रीयमाणः) | सर्वेभ्यः धातुभ्यः यक् भवति यदा, तदा प्रत्ययः कर्मण्यर्थे अस्ति, तदर्थं च '''कर्तरि शप्''' (३.१.६८) न भवति, सार्वधातुकप्रक्रिया च न भवति |</big>
<big><u>शतृ</u></big>
<big>शतृ-प्रत्ययः कर्त्रर्थकः, शित्त्वात् सार्वधातुकः च | एतस्मात् सार्वधातुकप्रक्रिया अत्र भवति | अयं शतृ-प्रत्ययः अनुबन्धलोपे अत्, अजाद्यपित् | तिङन्तक्षेत्रे कर्त्रर्थक-सार्वधातुक-प्रत्ययं निमित्तीकृत्य यत् कार्यं भवति, तदेव कार्यम् अत्रापि भवति | नाम, शपः विधानम् |</big>
<big>वद् + अत् → '''कर्तरि शप्''' (३.१.६८) → वद् + शप् + अत् → वद् + अ + अत् → वद + अत्</big>
<big>गणम् अनुसृत्य शपं प्रबाध्य विभिन्न-विकरणप्रत्ययाः विधीयन्ते |</big>
<big>ततः अग्रे शतृ-प्रत्ययः अजाद्यपित् इति कारणेन अङ्ग-अजाद्यपित्प्रत्यययोः संयोजनं यथा भवति तिङन्तक्षेत्रे, तथैव अत्रापि कार्यं समानम् | शतृ अजाद्यपित्; परस्मैपदतिङन्तक्षेत्रे तादृशप्रत्ययः कः ? लट्-लकरस्य 'अन्ति' इति प्रत्ययः समानः अजाद्यपित् | अतः अन्ति-प्रत्यये परे यत् कार्यं भवति, तदेव कार्यम् अत्-प्रत्यये परे भवति | शतृ-प्रत्ययः कृत्-प्रत्ययः, झि-स्थाने अन्ति-अति प्रत्ययौ तिङौ, अयं भेदः (कृत्-तिङ् इत्यनयोः) अस्यां प्रक्रियायां नास्ति | अत्, अति, अन्ति— इमे प्रत्ययाः प्रक्रियादृष्ट्या सर्वे समानाः | येन विधिना अति अन्ति च संयुज्येते, तेन एव विधिना अत् अपि | मुख्यम् अस्ति अजाद्यपिति किं कार्यम् इति |</big>
<big>यथा भ्वादिगणे नी-धातोः अङ्गं नय | नय + अन्ति → '''अतो गुणे''' (६.१.९७) इत्यनेन पररूपादेशः → नयन्ति | एवमेव नय + अत् → '''अतो गुणे''' (६.१.९७) → नयत् इति प्रातिपदिकम् |</big>
<big>'''अतो गुणे''' (६.१.९७) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८), '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनयोः अपवादसूत्रम् | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्''' |</big>
<big><u>प्रथमगणसमूहः — अदन्ताङ्गस्य रूपाणि</u></big>
<big>प्रथमगणसमूहे चत्वारः धातुगणाः सन्ति, तेषां च प्रातिपदिकं यथा लट्-लकारस्य प्रथमपुरुषबहुवचनातरूपं निष्पद्यते, तद्वत् अत्रापि कार्यं समानम्—</big>
<big><u>भ्वादौ</u></big>
<big>भू + अत् → भू + शप् + अत् → भू + अ + अत् → भव + अत् → '''अतो गुणे''' (६.१.९७) → भवत्</big>
<big><u>दिवादौ</u></big>
<big>नृत् + अत् → नृत् + श्यन् + अत् → नृत् + य + अत् → नृत्य + अत् → '''अतो गुणे''' (६.१.९७) → नृत्यत्</big>
<big><u>तुदादौ</u></big>
<big>लिख् + अत् → लिख् + श + अत् → लिख + अत् → '''अतो गुणे''' (६.१.९७) → लिखत्</big>
<big><u>चुरादौ</u></big>
<big>चुर् + णिच् → चोरि → चोरि + शप् + अत् → चोरय + अत् → '''अतो गुणे''' (६.१.९७) → चोरयत्</big>
<big>अनेन पुंलिङ्गे नपुंसके च शत्रन्तप्रातिपदिकचिन्तनं सिध्यति परिसमाप्यते च | स्त्रीप्रातिपदिकम् अग्रे उच्यते, तच्च रूपं नपुंसकलिङ्गस्य सुबन्तचिन्तनावसरे एवेमेव सिध्यति; किमर्थमिति अग्रे वक्ष्यमाणम् |</big>
<big>अधुना नुमागमस्य चिन्तनम् अपेक्षितम् | यद्यपि पुंसि नपुंसके च नुमागमस्य चिन्तनं सार्वधातुकप्रक्रियायाः भागो नास्ति अपि तु सुबन्तप्रक्रियायाः, किन्तु शत्रन्तरूपस्य सम्यक् बोधनार्थम् अस्मिन् अपि चिन्तनम् अतीव व्यावहारिकम् |</big>
<big><u>नुमागमचिन्तनम्</u></big>
<big>शत्रन्तप्रसङ्गे नुमागमस्य बोधनार्थं पञ्च सूत्राणि आवश्यकानि | तेषु त्रीणि प्रयुज्यन्ते यत्र अङ्गम् अदन्तम् अस्ति |</big>
<big><u>शत्रन्तानां नुम्-आगम-व्यवस्था</u></big>
<big>शत्रन्तानां कृते पञ्च नुम्-विधायक-सूत्राणि—</big>
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) = धातुभिन्न-उगितः नुमागमो भवति सर्वनामस्थानसंज्ञक-प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अधातोः उगिदचाम् अङ्गानां नुम् सर्वनामस्थाने''' |</big>
<big>'''नाभ्यस्ताच्छतुः''' (७.१.७८) = अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति | अत्र च सूत्रक्रमेण बोध्यं यत् निमित्तम् अस्ति 'सर्वनामस्थाने' | अनुवृत्ति-सहितसूत्रम्— '''न अभ्यस्तात् अङ्गात् शतुः नुम्''' |</big>
<big>'''नपुंसकस्य झलचः''' (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्-आगमो भवति | अनुवृत्ति-सहितं सूत्रम्— '''नपुंसकस्य झलचः अङ्गस्य नुम् सर्वनामस्थाने''' |</big>
<big>'''वा नपुंसकस्य''' (७.१.७९) = नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्-आगमो भवति | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुम् सर्वनामस्थाने''' |</big>
<big>'''आच्छीनद्योर्नुम्''' (७.१.८०) = अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— '''आत् अङ्गात् शतुः वा नुम् शीनद्योः''' |</big>
<big>'''शप्श्यनोर्नित्यम्''' (७.१.८१) = शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— '''शप्श्यनोः आत् शतुः अङ्गस्य नित्यं नुम् शीनद्योः''' |</big>
<big>शत्रन्तानां नुमागमचिन्तनं त्रिषु भागेषु विभज्यते— अदन्ताङ्गम्, अभ्यस्तसंज्ञक-अनदन्ताङ्गम्, अनभ्यस्तसंज्ञक-अनदन्ताङ्गम् | प्रथमतया अदन्ताङ्गस्य चिन्तनं कुर्मः | अदन्ताङ्गं कुत्र भवति ? भ्वादौ, दिवादौ, तुदादौ, चुरादौ च | उपरि एषां धातुगणानां शत्रन्तानां प्रातिपदिकरूपं प्रदर्शितम् |</big>
<big><u>अदन्ताङ्गस्य शत्रन्तप्रातिपदिकस्य नुमागमचिन्तन्तम्</u></big>
<big>अधुना क्रमेण पुंलिङ्गे, नपुंसके, स्त्रियां च पश्येम कुत्र कुत्र नुमागमो भवति |</big>
<big><u>पुंलिङ्गे</u></big>
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) = धातुभिन्न-उगितः नुमागमो भवति सर्वनामस्थानसंज्ञक-प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अधातोः उगिदचाम् अङ्गानां नुम् सर्वनामस्थाने''' |</big>
<big>पुंलिङ्गे सर्वनामस्थान-संज्ञक-सुप्-प्रत्ययाः पञ्च सन्ति— सु इत्यस्मात् आरभ्य औट् इति यावत् |</big>
<big>सु औ जस्</big>
<big>अम् औट् शस्</big>
<big>'''सुडनपुंसकस्य''' (१.१.४३) = सुट्-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न |</big>
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इत्यनेन अङ्गम् अदन्तम् अथवा अनदन्तम् अनयोः मध्ये एकं भवेत् इति तादृशं किमपि नोक्तम्, अतः सर्वनामस्थाने परे उभयत्र अदन्ते अनदन्ते च नुनागमः | अनेन दशानाम् अपि धातुगणानां सर्वनामस्थाने परे नुनागमः भवति स्म | किन्तु अग्रे '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकानां नुमागमनिषेधः अतः येषाम् अभ्यस्तसंज्ञा भवति तेषाम् अत्र नुमागमो न भवति; तान् धातून् विहाय सर्वेषां नुमामो भवति— नवानां धातुगणानां पुंलिङ्गस्य सर्वनामस्थाने नुमागमः | अस्य कथनेन अदन्ताङ्गानामपि ग्रहणम् |</big>
<big>भ्वादौ— भवन् भवन्तौ भवन्तः भवन्तम् भवन्तौ</big>
<big>दिवादौ— नृत्यन् नृत्यन्तौ नृत्यन्तः नृत्यन्तम् नृत्यन्तौ</big>
<big>तुदादौ— लिखन् लिखन्तौ लिखन्तः लिखन्तम् लिखन्तौ</big>
<big>चुरादौ— चोरयन् चोरयन्तौ चोरयन्तः चोरयन्तम् चोरयन्तौ</big>
<big>ततः अग्रे अवशिष्टानां विभक्त्यन्तरूपाणां साधनार्थं न कुत्रापि नुमागमः; अत्र प्रातिपदिकं च सुप्-प्रत्ययस्य च संयोजनार्थं केवलं सन्धिकार्यं भवति |</big>
<big>सु औ जस् भवन् भवन्तौ भवन्तः</big>
<big>अम् औट् शस् भवन्तम् भवन्तौ भवतः</big>
<big>टा भ्याम् भिस् भवता भवद्भ्याम् भवद्भिः</big>
<big>ङे भ्याम् भ्यस् भवते भवद्भ्याम् भवद्भ्यः</big>
<big>ङसि भ्याम् भ्यस् भवतः भवद्भ्याम् भवद्भ्यः</big>
<big>ङस् ओस् आम् भवतः भवतोः भवाम्</big>
<big>ङि ओस् सुप् भवति भवतोः भवत्सु</big>
<big><u>नपुंसकलिङ्गे</u></big>
<big>नपुंसकलिङ्गे सुप्-प्रत्ययाः—</big>
<big>शून्यं शी शि</big>
<big>शून्यं शी शि</big>
<big>[ततः अग्रे पुंलिङ्गे यथा, तथा]</big>
<big>'''नपुंसकाच्च''' (७.१.१९) = नपुंसकात् अङ्गात् औ-प्रत्ययस्य स्थाने शी-आदेशो भवति |</big>
<big>'''जश्शसोः शिः''' (७.१.२०) = नपुंसकात् अङ्गात् जस्, शस् इत्यनयोः स्थाने शि-आदेशो भवति |</big>
<big>'''शि सर्वनामस्थानम्''' (१.१.४२) = शि इति आदेशस्य सर्वनामसंज्ञा भवति |</big>
<big>अयं शि-प्रत्ययः बहुवचनस्य प्रथमाविभक्तौ द्वितीयाविभक्तौ च भवति | '''शि सर्वनामस्थानम्''' (१.१.४२) इत्यनेन सर्वनामस्थानसंज्ञकः च | आहत्य सप्त सर्वनामस्थानसंज्ञकप्रत्ययाः सन्ति— पुंलिङ्गे पञ्च (सु, औ, जस्, अम्, औट्), नपुंशकलिङ्गे द्वौ शि-प्रत्ययौ च |</big>
<big>'''नपुंसकस्य झलचः''' (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्-आगमो भवति | अनुवृत्ति-सहितं सूत्रम्— '''नपुंसकस्य झलचः अङ्गस्य नुम् सर्वनामस्थाने''' |</big>
<big>अतः यथा पुंलिङ्गे सर्वनामस्थानसंज्ञक-प्रत्ययानां कार्यम्, अत्रापि तथैव | '''नपुंसकस्य झलचः''' (७.१.७२) इत्यनेन अङ्गम् अदन्तम् वा अनदन्तं वा, उभयत्र अदन्तस्य अनदन्तस्य च सर्वनामस्थाने परे नुमागमः | पुंलिङ्गस्य इव, नपुंसकलिङ्गस्य अपि स्थितिः समाना— सर्वनामस्थाने परे नुमागमः |</big>
<big>द्विवचने शी-प्रत्ययः सर्वनामस्थानसंज्ञकः नास्ति, अतः '''नपुंसकस्य झलचः''' (७.१.७२) इति सूत्रेण नुमागमो न भवति | किन्तु सूत्रद्वयेन शी-प्रत्यये परे नुमागमस्य विधानम्—</big>
<big>१. भ्वादौ, दिवादौ, चुरादौ</big>
<big>'''शप्श्यनोर्नित्यम्''' (७.१.८१) = शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— '''शप्श्यनोः आत् शतुः अङ्गस्य नित्यं नुम् शीनद्योः''' |</big>
<big>सूत्रे 'शप्' इत्यस्य कथनेन भ्वादिगणस्य धातवः चुरादिगणस्य धातवः च; श्यन् इत्यनेन दिवादिगणस्य धातवः | अतः भ्वादौ, दिवादौ, चुरादौ च नपुंसकलिङ्गस्य शी-प्रत्यये परे नुमागमो भवति |</big>
<big>आहत्य रूपाणि एतादृशानि—</big>
<big>भ्वादिगणे पचत् पचन्ती पचन्ति प्रथमाविभक्तिः, द्वितीयाविभक्तिः च</big>
<big>दिवादिगणे नृत्यत् नृत्यन्ती नृत्यन्ति प्रथमाविभक्तिः, द्वितीयाविभक्तिः च</big>
<big>चुरादिगणे चोरयत् चोरयन्ती चोरयन्ति प्रथमाविभक्तिः, द्वितीयाविभक्तिः च</big>
<big>प्रथमाविभक्तौ पचत् मित्रम् पचन्ती मित्रे पचन्ति मित्राणि</big>
<big>द्वितीयाविभक्तौ पचत् मित्रम् पचन्ती मित्रे पचन्ति मित्राणि</big>
<big>अतः गच्छत् गच्छन्ती गच्छन्ति | प्रथमाविभक्तौ द्वितीयाविभक्तौ च | ततः अग्रे नुमागमः न कुत्रापि; केवलं सन्धिकार्यं गच्छता, गच्छद्भ्याम् गच्छद्भिः इत्यादिकम् | तृतीयविभक्तिः इत्यस्मात् सप्तमीविभक्ति-पर्यन्तं पुंलिङ्गशब्दवत् |</big>
<big>२. तुदादौ</big>
<big>द्वितीयं सूत्रम् अस्ति—</big>
<big>'''आच्छीनद्योर्नुम्''' (७.१.८०) = अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— '''आत् अङ्गात् शतुः वा नुम् शीनद्योः''' |</big>
<big>अनेन अवर्णात् अङ्गात् विकल्पेन नुम् आगमः | किन्तु '''शप्श्यनोर्नित्यम्''' (७.१.८१) इत्यनेन शपि श्यनि च नित्यं नुमागमः, अतः अवशिष्टम् अस्ति केवलं श इति विकरणप्रत्ययः, नाम तुदादिगणः |</big>
<big>अतः शप्श्यन् अतिरिच्य यत् अवर्णान्तम् अङ्गं, तस्य विकल्पेन नुमागमः शी-प्रत्यये परे नदी-प्रत्यये परे च |</big>
<big>लिखत् लिखती/लिखन्ती लिखन्ति इति तुदादिगणस्य धातवः</big>
<big>धेयं यत् अनेन सूत्रेण 'आत्' इत्यनेन अवर्णात्, न तु ह्रस्वाकारात् | अवर्णात् इत्यनेन दीर्घ-आकारात् इत्यस्यापि ग्रहणम् | ततः अदादिगणे चतुर्दश आकारान्तधातवः सन्ति येषाम् अपि शी-प्रत्यये परे नुमागमो भवति | अनदन्ताङ्गस्य कर्यमिदं, किन्तु अत्र सौकर्यार्थं प्रदर्श्यते—</big>
<big>यात् याती/यान्ती यान्ति इति अदादिगणस्य चतुर्दश आकारान्तधातवः |</big>
<big>या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा एतेषां धातूनाम् अपि नुमागमो भवति शी-प्रत्यये परे |</big>
<big><u>स्त्रीलिङ्गे</u></big>
<big>अत्र धेयं यत् नपुंसकलिङ्गे नुम्-विधायकसूत्रे द्वे स्तः— '''शप्श्यनोर्नित्यम्''' (७.१.८१), '''आच्छीनद्योर्नुम्''' (७.१.८०) | उभयत्र निमित्तम् अस्ति '''शीनद्योः'''— शी च नदी च, अनयोः | अयं नदी-संज्ञा स्त्रीप्रत्ययस्य | अनेन सूत्रेण अस्माकं महत् सौकर्यं भवति यतोहि यत्र नपुंसकलिङ्गस्य द्विवचने नुमागमो भवति, तत्र स्त्रियां प्रातिपदिकस्यापि नुमागमो भवति | अपि च द्वयोः रूपं समानम् | सर्वत्र समानम् |</big>
<big>अतः नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ 'पचन्ती' इति रूपं, तदेव रूपं शत्रन्तस्य स्त्री-प्रातिपदिकम् अपि भवति | अयं सिद्धान्तः सङ्गच्छते सर्वेषु स्थलेषु— अदन्ताङ्गेषु, अनदन्ताङ्गेषु, अभस्तसंज्ञकेषु च | सर्वत्र नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ यत् रूपं, तदेव रूपं स्त्रीप्रातिपदिकम् |</big>
<big>तर्हि भ्वादिगणे 'पचन्ती' नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ अपि अस्ति, स्त्रीप्रातिपदिकमपि अस्ति | तथैव नृत्यन्ती इति शत्रन्तस्य स्त्रीप्रातिपदिकं दिवादिगणे, चोरयन्ती इति शत्रन्तस्य स्त्रीप्रातिपदिकं चुरादिगणे | यतोहि</big>
<big>सूत्रे 'शीनद्योः' इति उक्तम् | शी-प्रत्यये परे यत् कार्यं, तदेव कार्यं नदी-प्रत्यये परेऽपि | अनेन अग्रे गत्वाऽपि कुत्रापि पृथक्तया स्त्रीरूपं न निष्पादनीयम् | नपुंस्कलिङ्गस्य द्विवचने रूपं यत्, तदेव स्त्रीप्रातिपदिकं '''सर्वत्र''' | तदर्थं शत्रन्तानां कृते केवलं पुंलिङ्गे नपुंसकलिङ्गे च रूपाणि साधनीयानि| स्त्रियां रूपाणि एवमेव भवन्ति तस्मिन् क्रमे | अपि च एकवारं स्त्रीप्रातिपदिकम् आगतं, ततः अग्रे सुबन्तरूपाणि नदी-शब्दवत्—</big>
<big>भ्वादिगणे, दिवादिगणे, चुरादिगणे—</big>
<big>पचन्ती पचन्त्यौ पचन्त्यः</big>
<big>पचन्तीम् पचन्त्यौ पचन्तीः</big>
<big>पचन्त्या पचन्तीभ्याम् पचन्तीभिः</big>
<big>पचन्त्यै पचन्तीभ्याम् पचन्तीभ्यः</big>
<big>पचन्त्याः पचन्तीभ्याम् पचन्तीभ्यः</big>
<big>पचन्त्याः पचन्त्योः पचन्तीनाम्</big>
<big>पचन्त्याम् पचन्त्योः पचन्तीषु</big>
<big>तुदादिगणे नपुंसकलिङ्गस्य द्विवचने यत् रूपं, तदेव पुनः स्त्रीप्रातिपदिं भवति | तुदादौ नपुंसकलिङ्गस्य द्विवचने नुमागमः वैकल्पिकः | अतः स्त्रियाम् अपि तथा—</big>
<big>लिखती/लिखन्ती लिखत्यौ/लिखन्त्यौ लिखत्यः/लिखन्त्यः</big>
<big>लिखतीम्/लिखन्तीम् लिखत्यौ/लिखन्त्यौ लिखतीः/लिखन्तीः</big>
<big>ततः अग्रे नदी-शब्दवत्</big>
<big>इति प्रथमगणसमूहे नुमागमचिन्तन्तं समाप्तम् |</big>
<big><u>द्वितीयगणसमूहः — अनदन्ताङ्गस्य रूपाणि</u></big>
<big><u>द्वितीयगणसमूहे शत्रन्तप्रातिपदिकम्</u></big>
<big>द्वितीयगणसमूहे षड् धातुगणाः सन्ति, तेषां च प्रातिपदिकं यथा लट्-लकारस्य प्रथमपुरुषबहुवचनान्तरूपं निष्पद्यते, तद्वत् अत्रापि कार्यं समानम् | किमर्थम् इति चेत्, शतृ-प्रत्ययः अपि अजाद्यपित्, अति/अन्ति अपि अजाद्यपित् | अतः कार्यम् एतादृशम्—</big>
<big><u>प्रातिपदिकनिर्माणविधिः</u></big>
<big>सङ्क्षेपे यथा अति/अन्ति इत्यस्य कार्यं, तथैव अत् इत्यस्यापि | अतः अति/अन्ति इत्यनयोः स्थाने अत् स्थाप्यते चेत् रूपं सिध्यति—</big>
<big>अदादिगणे सन्ति → सत्</big>
<big>जुहोत्यादिगणे ददति → ददत्</big>
<big>स्वादिगणे चिन्वन्ति → चिन्वत्</big>
<big>रुधादिगणे रुन्धन्ति → रुन्धत्</big>
<big>तनादिगणे कुर्वन्ति → कुर्वत्</big>
<big>क्र्यादिगणे क्रीणन्ति → क्रीणत्</big>
<big>शास्त्रीयक्रमः तिङन्तप्रसङ्गे आसीत् यथा, तथैव शत्रन्तस्यापि यतोहि 'अजादिः अपित्' इति प्रक्रिया समाना—</big>
<big><u>अदादिगणे</u></big>
<big>वा + अत् → '''कर्तरि शप्''' (३.१.६८) → '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) → वा + अत् → '''अकः सवर्णे दीर्घः''' (६.१.१०१) → वात्</big>
<big>'''कर्तरि शप्''' (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे |</big>
<big>'''अदिप्रभृतिभ्यः शपः''' (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् भवति |</big>
<big>अस् + अत् → अपित्सु '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन अस्-धातोः अकार-लोपः → स् + अत् → सत्</big>
<big>'''श्नसोरल्लोपः''' (६.४.१११) = श्नम्-प्रत्ययस्य अपि च अस्-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे |</big>
<big><u>जुहोत्यादिगणे</u></big>
<big>डुदाञ् → दा + अत् → '''कर्तरि शप्''' (३.१.६८) → '''जुहोत्यादिभ्यः श्लुः''' (२.४.७५)→ '''श्लौ''' (६.१.१०) इत्यनेन द्वित्वम् → दादा → '''ह्रस्वः''' (७.४.५९) इत्यनेन अभ्यासय ह्रस्वत्वम् → ददा इत्यङ्गम् → ददा + अत् → अजाद्यपित्सु '''श्नाभ्यस्तयोरातः''' इत्यनेन आकार-लोपः → ददा + अत् → दद् + अत् → ददत्</big>
<big>'''जुहोत्यादिभ्यः श्लुः''' (२.४.७५) = जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य श्लु भवति |</big>
<big>'''श्लौ''' (६.१.१०) = श्लौ परे धातोः द्वित्वं भवति |</big>
<big>'''ह्रस्वः''' (७.४.५९) = अभ्यासस्य अच्-वर्णः ह्रस्वः स्यात् |</big>
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति, किति ङिति सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''श्नाभ्यस्तयोः अङ्गस्य आतः लोपः क्ङिति सार्वधातुके''' |</big>
<big><u>स्वादिगणे</u></big>
<big><u>हलन्तधातूनां कार्यम्</u>—</big>
<big>शक् + श्नु + अत् → शक्नु + अत् → अपित्सु गुण-निषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ्-आदेशः → शक्न् + उव् + अत् → शक्नुवत्</big>
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे |</big>
<big><u>अजन्तधातूनां कार्यम्</u>—</big>
<big>चि + श्नु + अत् → चिनु + अत् → अपित्सु गुण-निषेधः → अजाद्यपित्सु '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इत्यनेन यण्-आदेशः → चिन् + व् + अत् → चिन्वत्</big>
<big>'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातुः च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे |</big>
<big><u>रुधादिगणे</u></big>
<big>रुधिर् → रुध् + श्नम् + अत् → '''मिदचोऽन्त्यात्परः''' (१.१.४७) → रुनध् → '''श्नसोरल्लोपः''' (६.४.१११) → रुन्ध् इत्यङ्गम् → रुन्ध् + अत् → रुन्धत्</big>
<big>'''रुधादिभ्यः श्नम्''' (३.१.७८) = रुधादिगणे पठितेभ्यः धातुभ्यः श्नम्-प्रत्ययो भवति, कर्त्रर्थके सार्वधातुकप्रत्यये परे |</big>
<big>'''मिदचोऽन्त्यात्परः''' (१.१.४७) = यः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति |</big>
<big>'''श्नसोरल्लोपः''' (६.४.१११) = श्नम्-प्रत्ययस्य अपि च अस्-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे |</big>
<big><u>तनादिगणे</u></big>
<big>तन् + उ + अत् → तनु + अत् → अपित्सु गुण-निषेधः → अजाद्यपित्सु '''इको यणचि''' (६.१.७७) इत्यनेन यण्-आदेशः → तन् + व् + अत् → तन्वत्</big>
<big>कृ + उ + अत् → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इकः गुणः → कर् + उ → करु → '''अत उत्सार्वधातुके''' इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु इति अङ्गम् → कुरु + अत् → '''इको यणचि''' (६.१.७७) इत्यनेन यण्-आदेशः → कुर्वत्</big>
<big>'''अत उत्सार्वधातुके''' (६.४.११०) = उप्रत्ययान्तकृ-धातोः ह्रस्व-अकारस्य स्थाने उकारादेशो भवति किति ङिति सार्वधातुक-प्रत्यये परे |</big>
<big><u>क्र्यादिगणे</u></big>
<big>क्री + श्ना + अत् → '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम् → क्रीणा इति अङ्गम् → क्रीणा + अत् → '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकार-लोपः → क्रीण् + अत् → क्रीणत्</big>
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति, किति ङिति सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''श्नाभ्यस्तयोः अङ्गस्य आतः लोपः क्ङिति सार्वधातुके''' |</big>
<big>ग्रह् + श्ना = ग् + र् + अ + ह् + श्ना → '''ग्रहि ज्या''' (३.१.१३) इत्यनेन सम्प्रसारणम् (र् -> ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह् + ना → गृह् + ना → '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम् → गृह्णा इति अङ्गम् → गृह्णा + अत् → '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकार-लोपः → गृह्ण् + अत् → गृह्णत्</big>
<big><u>द्वितीयगणसमूहे नुमागमचिन्तनम्</u></big>
<big>अत्र अनदन्तेषु पुनः विभागद्वयम्— अभ्यस्तम्, अनभ्यस्तं च |</big>
<big>सर्वप्रथमम् अस्माकं पञ्च नुमागमविधायकसूत्राणि कानि; एषु पञ्चसु च केषां प्रसक्तिः भवति यत्र अङ्गम् अनदन्तम् अस्ति | तत्र च अभ्यस्तम् अनदन्तम् अङ्गम् इति चेत् केषां प्रसक्तिः, अनभ्यस्तम् अनदन्तम् अङ्गम् इति चेत् केषां प्रसक्तिः |</big>
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) = धातुभिन्न-उगितः नुमागमो भवति सर्वनामस्थानसंज्ञक-प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अधातोः उगिदचाम् अङ्गानां नुम् सर्वनामस्थाने''' |</big>
<big>'''नाभ्यस्ताच्छतुः''' (७.१.७८) = अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति | अत्र च सूत्रक्रमेण बोध्यं यत् निमित्तम् अस्ति 'सर्वनामस्थाने' | अनुवृत्ति-सहितसूत्रम्— '''न अभ्यस्तात् अङ्गात् शतुः नुम्''' |</big>
<big>'''वा नपुंसकस्य''' (७.१.७९) = नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्-आगमो भवति | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुम् सर्वनामस्थाने''' |</big>
<big>'''आच्छीनद्योर्नुम्''' (७.१.८०) = अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— '''आत् अङ्गात् शतुः वा नुम् शीनद्योः''' |</big>
<big>'''शप्श्यनोर्नित्यम्''' (७.१.८१) = शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— '''शप्श्यनोः आत् शतुः अङ्गस्य नित्यं नुम् शीनद्योः''' |</big>
<big>१. एषु पञ्चसु केषां प्रसक्तिः भवति यत्र अङ्गम् अनदन्तम् ?</big>
<big>२. यत्र अङ्गम् अभ्यस्तम् अनदन्तम् ?</big>
<big>३. यत्र अङ्गम् अनभ्यस्तम् अनदन्तम् ?</big>
<big><u>अभ्यस्तम् अनदन्तम् अङ्गम्</u></big>
<big><u>पुंलिङ्गे</u></big>
<big>'''नाभ्यस्ताच्छतुः''' (७.१.७८) = अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति | अस्य च सूत्रस्य निमित्तम् अस्ति 'सर्वनामस्थाने', '''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इत्यस्मात् | अनुवृत्ति-सहितसूत्रम्— '''न अभ्यस्तात् अङात् शतुः नुम्''' |</big>
<big>अनेन जुहोत्यादिगणे अत्र नुमागमो न भवति |</big>
<big>ददत् ददतौ ददतः</big>
<big>ददतं ददतौ ददतः</big>
<big>अत्र अस्माभिः स्मर्तव्यं यत् सूत्रे 'जुहोत्यादिगणीयधातुभ्यः' नुम् न भवति इति नोक्तम्; 'अभ्यस्तसंज्ञकात्' इत्येव उक्तम् | तर्हि अभ्यस्तसंज्ञकात् इत्यस्य कथनेन केषां केषां ग्रहणम् इति एकवारं चिन्तनीयम् | यतोहि समग्रं चिन्तनम् इति लक्ष्यं चेत्, केषाम् अभ्यस्तसंज्ञा भवति इति ज्ञेयम् |</big>
<big>'''जक्षित्यादयः षट्''' (६.१.६)</big>
<big>'''लिटि धातोरनभ्यासस्य''' (६.१.८)</big>
<big>'''सन्यङोः''' (६.१.९)</big>
<big>'''शलौ''' (६.१.१०)</big>
<big>'''चङि''' (६.१.११)</big>
<big>एषु एव स्थलेषु अभस्तसंज्ञा भवति— अदादिगणे सप्तधातवः (जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ्), लिट्-लकारे, सनन्तरूपेषु, यङन्तरूपेषु, यङ्-लुगन्तरूपेषु, जुहोत्यादिगणे, लुङ्-लकारे च | चङ् इति विकरणप्रत्ययः लुङि इत्यस्मात् 'चङ्' इत्यस्य कथनेन लुङ्-लकारस्य ग्रहणम् | तर्हि एषां मध्ये कुत्र कुत्र '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्य प्रसक्तिः ? प्रथमतया चिन्तनीयं केषु केषु प्रसङ्गेषु शत्रन्तरूपं सम्भवति |</big>
<big>'शत्रन्तम्' इत्यस्य कथनेन सुबन्तम् एव न तु तिङन्तम् | अतः यत्र यत्र तिङन्तमेव भवति, तत्र तत्र शतृ-प्रत्ययः न विधीयते एव | लिट्-लकारः, लुङ्-लकारः चेत्यनयोः लकारत्वात् नित्यं तिङन्तम्, अतः तत्र शतृ न भवति | अवशिष्यते अदादिगणस्य सप्त धातवः, सनन्ताः, यङन्ताः, यङ्-लुगन्ताः, जुहोत्यादिगणीयधातवः च | एते सर्वे धातवः एव, अतः तेभ्यः सर्वेभ्यः तिङ्-प्रत्ययाः अपि कृत्-प्रत्ययाः अपि विधीयन्ते |</big>
<big>सनन्तान् अवलोकयामः | यः धातुः सनन्तः, सः आतिदेशिकधातुः | औपदेशिकधातुभ्यः आतिदेशिकधातवः निर्मीयन्ते | गमॢ इति औपदेशिकधातुं दृष्टान्तत्वेन स्वीकुर्मः |</big>
<big>गमॢ + सन् → अनुबन्धलोपे → गम् + स → '''सन्यङोः''' (६.१.९), '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यनेन द्वित्वम् → गम् + गम् + स → '''हलादि शेषः''' (७.४.६०) → ग + गम् + स → '''कुहोश्चुः''' (७.४.६२) → ज + गम् + स → '''सन्यतः''' (७.४.७९) इत्यनेन सन्-विशिष्ट-अभ्यासकार्येण अभ्यासस्य अन्तिम-अकारस्य स्थाने इकारादेशः → जि + गम् + स → '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति → जि + गम् + इ + स → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्-प्रत्याहारात् अपदान्त-प्रत्ययावयव-सकारस्य षत्वम् → जिगमिष इति आतिदेशिकधातुः |</big>
<big>जिगमिष + शतृ → जिगमिष + अत्</big>
<big>'''नाभ्यस्ताच्छतुः''' (७.१.७८) = अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति | अत्र च सूत्रक्रमेण बोध्यं यत् निमित्तम् अस्ति 'सर्वनामस्थाने' | अनुवृत्ति-सहितसूत्रम्— '''न अभ्यस्तात् अङ्गात् शतुः नुम्''' |</big>
<big>अत्र '''तस्मादित्युत्तरस्य''' (१.१.६७) इत्यनेन ''''न अभ्यस्तात्'''<nowiki/>' इत्यस्य पञ्चमीविभक्त्या शतृ-प्रत्ययः साक्षात् अनन्तरं भवेत् | किन्तु अत्र तथा नास्ति, यतोहि अभ्यस्तसंज्ञक-'जिगम्', शतृ-प्रत्ययः चेत्यनयोः मध्ये इडागमसहित-सन्-प्रत्ययः अस्ति | तदर्थं यद्यपि कश्चन अभ्यस्तसंज्ञक-भागः अस्ति, तथापि '''नाभ्यस्ताच्छतुः''' (७.१.७८) इति सूत्रस्य प्रसक्तिः नास्ति |</big>
<big>जिगमिष + शतृ → जिगमिष + अत् → '''कर्तरि शप्''' (३.१.६८) → जिगमिष + अ + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन अपदान्तात् अतः गुणे परे पूर्वपरयोः पररूपमेकादेशः → जिगमिष + अत् → '''अतो गुणे''' (६.१.९७) → जिगमिषत् इति शत्रन्तप्रातिपदिकम् |</big>
<big>सर्वेभ्यः सनन्तधातुभ्यः शप् इति विकरणप्रत्ययः विधीयते, तदर्थं सनन्तधातवः भावादिकाः | जिगमिष इति अङ्गं तु अदन्तम् एव— भव, नृत्य, लिख, चोरय इति यथा, तथा |</big>
<big>अतः पुंलिङ्गे सर्वनामस्थानसंज्ञक-प्रत्ययेषु परेषु '''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इत्यनेन नुमागमो भवति—</big>
<big>जिगमिषन् जिगमिषन्तौ जिगमिषन्तः</big>
<big>जिगमिषन्तम् जिगमिषन्तौ जिगमिषतः</big>
<big>आहत्य सनन्तप्रक्रियायां द्वित्वं यद्यपि भवति, अभ्यस्तम् अङ्गं च यद्यपि भवति, किन्तु मध्ये सन्-प्रत्ययः अस्ति इति कारणतः नुमागमः न निषिद्धः |</big>
<big>अग्रे यङन्ताः धातवः नित्यम् आत्मनेपदिनः इत्यस्मात् शतृ न विधीयते | अपि च यङन्ताः यदि परस्मैपदिनः अभविष्यन्, तत्र यद्यपि अभ्यस्तम् अङ्गम् अस्ति, किन्तु सन्वत् अत्रापि मध्ये यङ्-प्रत्ययः अस्ति अतः अभ्यस्तात् शतृ साक्षात् न भवति, '''नाभ्यस्ताच्छतुः''' (७.१.७८) इति सूत्रं न प्रसक्तम् |</big>
<big>किन्तु यङ्-लुगन्ताः परस्मैपदिधातवः भवन्ति, यङ-प्रत्ययस्य लुक् अपि भवति | अतः अभ्यस्तसंज्ञकम् अङ्गं, शतृ-प्रत्ययः इत्यनयोर्मध्ये न कापि बाधा, तदर्थम् अत्र '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन नुमागम-निषेधः |</big>
<big>आहत्य अदादिगणस्य सप्त धातवः, यङ्-लुगन्तधातवः, जुहोत्यादिगणीयधातवः च, एषु त्रिषु स्थलेषु '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन पुंलिङ्गे नुमागमस्य निषेधः |</big>
<big><u>नपुंसकलिङ्गे</u></big>
<big>नपुंसकलिङ्गे सुप्-प्रत्ययाः इमे—</big>
<big>शून्यं शी शि</big>
<big>शून्यं शी शि</big>
<big>द्विवचने नुम्-विधायकसूत्रद्वयम् अस्ति— '''आच्छीनद्योर्नुम्''' (७.१.८०), '''शप्श्यनोर्नित्यम्''' (७.१.८१) च | उभयत्र अङ्गम् अवर्णान्तम् | ददा + अत् इति स्थितौ '''आच्छीनद्योर्नुम्''' (७.१.८०) इत्यस्य प्रसक्तिः भवति स्म, किन्तु अजाद्यपित्सु '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकार-लोपः → ददा + अत् → दद् + अत् | अधुना अवर्णान्तम् अङ्गं नास्ति, वर्णमेलने ददत् | युगपत् द्वयोः सूत्रयोः प्रसक्तिः, '''आच्छीनद्योर्नुम्''' (७.१.८०) इत्यस्य परत्वात् नुमागमो किमर्थं न स्यात् इति चेत्, युगपन्नास्ति | प्रथमतया प्रातिपदिकं निष्पादनीयं, तदा एव शी इव सुप्-प्रत्ययाः विधीयन्ते | अतः द्विवचने अभ्यस्ताङ्गस्य प्रसङ्गे किमपि नुम्-विधायकसूत्रं नास्ति |</big>
<big>अभ्यस्तसंज्ञकस्य सर्वनामस्थाने विकल्पेन नुमागः |</big>
<big>'''वा नपुंसकस्य''' (७.१.७९) = नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्-आगमो भवति | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुम् सर्वनामस्थाने''' |</big>
<big>ददत् ददती ददति/ददन्ति</big>
<big>ददत् ददती ददति/ददन्ति</big>
<big><u>स्त्रियाम्</u></big>
<big>नपुंसकलिङ्गे, प्रथमाविभक्तेः द्विवचनान्तं यत् रूपं सुबन्तं, तदेव सदा स्त्रीलिङ्गस्य प्रातिपदिकम् अपि भवति | तस्य कारणं तु पूर्वमपि दृष्टम् | शी नदी चेति एते द्वे नुमागमनिमित्ते सदैव मिलित्वा भवतः— शीनद्योः इति | यत्र शी-प्रत्यये परे नुमागमः विधीयते, तत्र नदी-प्रत्ययोऽपि तथा | यत्र शी-प्रत्यये परे नुमागमः न विधीयते, तत्र नदी-प्रत्ययोऽपि नुमागमो नास्ति | अपि च नपुंसकलिङ्गे, प्रथमाविभक्तेः द्विवचने नुम्-विधायकसूत्रद्वयमेव भवति— '''आच्छीनद्योर्नुम्''' (७.१.८०), '''शप्श्यनोर्नित्यम्''' (७.१.८१) इति | उभयत्र अङ्गम् अवर्णान्तम् | अनेन ज्ञायते यत् यत्र अङ्गम् अवर्णान्तं, तत्र नुमागमः यथासङ्गं स्यात्; यत्र च अङ्गम् अवर्णान्तं न, तत्र नुमागमः न कदापि भवति |</big>
<big>अतः ददती इति प्रातिपदिकं; विभक्त्यन्तरूपाणि नदी-शब्दवत्—</big>
<big>ददती ददत्यौ ददत्यः</big>
<big>ददतीम् ददत्यौ ददतीः</big>
<big>ददत्या ददतीभ्याम् ददतीभिः इत्यादीनि रूपाणि सप्तसु विभक्तिषु नदी-शब्दवत् |</big>
<big>अत्र कश्चन प्रश्नः उदेति यत् ददती + सु इत्यादयः सुट्-प्रत्ययाः अपि च वक्ष्यमाणं कुर्वती + सु इत्यादयः सुट्-प्रत्ययाः, उभयत्र सु, औ, जस्, अम् औट् इति प्रत्ययाः स्त्रियाम् अपि सर्वनामस्थानसंज्ञकाः | अतः किमर्थं न '''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इत्यनेन नुम् आगमो भवेत् ? अनुवृत्ति-सहितसूत्रम् अवलोकताम्— '''अधातोः उगिदचाम् अङ्गानां नुम्''' '''सर्वनामस्थाने''' | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '<nowiki/>'''उगिदचाम् अङ्गानां'''<nowiki/>' नाम यस्य अङ्गस्य अन्ते इत्-संज्ञक-उक् स्यात्; '''तस्मिन्निति निर्दिष्टे पूर्वस्य''' (१.१.६६) इत्यनेन सप्तमीविभक्त्यन्तात् ''''सर्वनामस्थाने'''<nowiki/>' इत्यस्मात् साक्षात् पूर्वं भवेत् | अत्र तथा नास्ति यतोहि शत्रन्ताङ्गं ददत्, सुट्-प्रत्ययाः चेत्यनयोः मध्ये नदी-प्रत्ययः वर्तते | 'ददत् + नदी + सु' | अतः '''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इति सूत्रस्य प्रसक्तिः एव नास्ति |</big>
<big><u>अनभ्यस्तम् अनदन्तम् अङ्गम्</u></big>
<big><u>पुंलिङ्गे</u></big>
<big>पुंलिङ्गे अदन्ताङ्गानाम् अनदन्ताङ्गानां च उभयत्र नुमागमो भवति; उभयत्र सिद्धान्तः समानः | यतोहि नुम्-विधायकसूत्रे 'अदन्तम्-अनदन्तं' तादृशं किमपि निमित्तं नोक्तम् |</big>
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) = सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति | अनुवृत्ति-सहितसूत्रम्— '''सर्वनामस्थाने अधातोः उगिदचां अङ्गानां नुम्''' |</big>
<big>सु औ जस्</big>
<big>अम् औट् शस्</big>
<big>कुर्वन् कुर्वन्तौ कुर्वन्तः</big>
<big>कुर्वन्तम् कुर्वन्तौ कुर्वतः</big>
<big>एवमेव पञ्चानाम् अनभ्यस्त-अनदन्ताङ्गानां पुंलिङ्गस्य सर्वनामस्थाने नुमागमः |</big>
<big>अदादिगणे - सन् सन्तौ सन्तः</big>
<big>स्वादिगणे - चिन्वन् चिन्वन्तौ चिन्वन्तः</big>
<big>रुधादिगणे - रुन्धन् रुन्धन्तौ रुन्धन्तः</big>
<big>तनादिगणे - कुर्वन् कुर्वन्तौ कुर्वन्तः</big>
<big>क्र्यादिगणे - क्रीणन् क्रीणन्तौ क्रीणन्तः</big>
<big><u>नपुंसकलिङ्गे</u></big>
<big>द्विवचने नुम्-विधायकसूत्रद्वयम् अस्ति— '''आच्छीनद्योर्नुम्''' (७.१.८०), '''शप्श्यनोर्नित्यम्''' (७.१.८१) च | उभयत्र अङ्गम् अवर्णान्तम् | अत्र अस्माकम् अङ्गम् अनदन्तम्, अतः द्विवचने नुम्-विधायकसूत्रं नास्ति |</big>
<big>प्रथमाविभक्तौ द्वितीयविभक्तौ द्विवचने—</big>
<big>अदादिगणे - सत् + शी → सती</big>
<big>स्वादिगणे - चिन्वत् + शी → चिन्वती</big>
<big>रुधादिगणे - रुन्धत् + शी → रुन्धती</big>
<big>तनादिगणे - कुर्वत् + शी → कुर्वती</big>
<big>क्र्यादिगणे - क्रीणत् + शी → क्रीणती</big>
<big>प्रथमाविभक्तौ द्वितीयविभक्तौ बहुवचने, नुमागमो भवति सामान्यसूत्रेण—</big>
<big>'''नपुंसकस्य झलचः''' (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्-आगमो भवति | अनुवृत्ति-सहितं सूत्रम्— '''नपुंसकस्य झलचः अङ्गस्य नुम् सर्वनामस्थाने''' |</big>
<big>अदादिगणे - सत् + शि → सन्ति</big>
<big>स्वादिगणे - चिन्वत् + शि → चिन्वन्ति</big>
<big>रुधादिगणे - रुन्धत् + शि → रुन्धन्ति</big>
<big>तनादिगणे - कुर्वत् + शि → कुर्वन्ति</big>
<big>क्र्यादिगणे - क्रीणत् + शि → क्रीणन्ति</big>
<big>आहत्य—</big>
<big>कुर्वत् कुर्वती कुर्वन्ति</big>
<big>कुर्वत् कुर्वती कुर्वन्ति</big>
<big>पञ्चसु अपि धतुगणेषु तथा—</big>
<big>सत् सती सन्ति</big>
<big>चिन्वत् चिन्वती चिन्वन्ति</big>
<big>रुन्धत् रुन्धती रुन्धन्ति</big>
<big>कुर्वत् कुर्वती कुर्वन्ति</big>
<big>क्रीणत् क्रीणती क्रीणन्ति</big>
<big>वैशिष्ट्यम् एकम् अस्ति अदादिगणे | धेयं यत् '''आच्छीनद्योर्नुम्''' (७.१.८०) इति सूत्रेण 'आत्' इत्यनेन अवर्णात्, न तु ह्रस्वाकारात् | अवर्णात् इत्यनेन दीर्घ-आकारात् इत्यस्यापि ग्रहणम् | ततः अदादिगणे चतुर्दश आकारान्तधातवः सन्ति येषाम् अपि शी-प्रत्यये परे विकल्पेन नुमागमो भवति—</big>
<big>यात् याती/यान्ती यान्ति</big>
<big>या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा इत्येषां चतुर्दशानां धातूनाम् अपि नुमागमो विकल्पेन भवति शी-प्रत्यये परे |</big>
<big>अदादिगणे अन्यः आकारन्तधातुः वर्तते— दरिद्रा | तस्य विकल्पेन नुम्-आगमः किमर्थं न भवति ? पूर्वं दृष्टं यत् '''जक्षित्यादयः षट्''' (६.१.६) इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा भवति | अतः अजाद्यपित्सु '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकार-लोपः → दरिद्रा + अत् → दरिद्र् + अत् → दरिद्रत् |</big>
<big><u>स्त्रियाम्</u></big>
<big>यथा पूर्वमपि अस्माभिः दृष्टं, नपुंसकलिङ्गस्य प्रथमाविभक्तौ द्विवचने यत् रूपं, तदेव रूपं स्त्रीलिङ्गस्य प्रातिपदिकम् | अत्र पञ्चसु अपि धातुगणेषु अङ्गम् अवर्णान्तं नास्ति, अतः स्त्री-प्रातिपदिके नुमागमो न कुत्रापि भवति |</big>
<big>अदादिगणे - सती</big>
<big>स्वादिगणे - चिन्वती</big>
<big>रुधादिगणे - रुन्धती</big>
<big>तनादिगणे - कुर्वती</big>
<big>क्र्यादिगणे - क्रीणती</big>
<big>कुर्वती कुर्वत्यौ कुर्वत्यः</big>
<big>कुर्वतीम् कुर्वत्यौ कुर्वतीः</big>
<big>अदादौ चतुर्दशानाम् आकारान्तधातूनाम् द्वैविध्यं भवति यथा नपुंसकलिङ्गस्य द्विवचने—</big>
<big>याती/यान्ती यात्यौ/यान्त्यौ यात्यः/यान्त्यः</big>
<big>इति शतृशानचोः समग्रं प्रक्रियाचिन्तनं परिसमाप्तम् |</big>
<big>Swarup – January 2017</big>
<big>---------------------------------</big>
<big>[https://static.miraheze.org/samskritavyakaranamwiki/c/cd/%E0%A5%A6%E0%A5%AE_-_%E0%A4%B6%E0%A4%A4%E0%A5%83%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A4%9A%E0%A5%8B%E0%A4%83_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE%E0%A4%9A%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A4%AE%E0%A5%8D_.pdf ०८ - शतृशानचोः प्रक्रियाचिन्तनम्.pdf] (119k) Swarup Bhai, Apr 2, 2018, 2:08 AM v.1</big>
|