page_and_link_managers, Administrators
5,097
edits
(9.5) |
m (Protected "01 - ण्वुल्, तृच्, ल्युट्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |

(21 intermediate revisions by 3 users not shown) | |||
Line 1:
{{DISPLAYTITLE:01 - ण्वुल्, तृच्, ल्युट्}}
ण्वुल्, तृच्, ल्युट् एते त्रयः प्रत्ययाः धातुभ्यः विहिताः अपि च तिङ्-भिन्नाः, अतः कृत्-प्रत्ययाः इत्युच्यन्ते | '''तिङ्शित्सार्वधातुकम्''' (३.४.११३) इत्यनेन यः प्रत्ययः धातुतः विहितः अपि च तिङ् शित् वा, सः '''सार्वधातुकम्''' | '''आर्धधातुकं शेषः''' (३.४.११४) इत्यनेन अवशिष्टाः प्रत्ययाः ये धातुभ्यः विहिताः, तिङ्-शित्-भिन्नाः, ते सर्वे '''आर्धधातुकाः''' | ण्वुल्, तृच्, ल्युट् एते त्रयः प्रत्ययाः धातुभ्यः विहिताः, न तिङ् न वा शित्, अतः त्रयोऽपि आर्धधातुकप्रत्ययाः |

ण्वुल्, तृच्, ल्युट् यतः आर्धधातुकप्रत्ययाः, अतः गणीया चर्चा नितरां नापेक्षिता | धातुः कस्मिन् अपि गणे भवतु नाम, तस्य अत्र कृदन्तस्य गणेन सह न कोऽपि सम्बन्धः | धातुः “कस्मिन् गणे" इति प्रश्नस्तु नैव उदेति | अपि तु आर्धधातुकप्रत्यये सति अयमेव प्रश्नः— इडागमः भवति न वा इति |

इड्व्यवस्था

इट्— नाम "इ" इति आगमः — कुत्रचित् धातु-प्रत्यययोः मध्ये आयाति | सामान्यनियमः अयं यत् धातुः अपि सेट् (स-इट्), प्रत्ययः अपि सेट् चेदेव इडागमो भवति | द्वयोर्मध्ये एकोऽपि अनिट् (अन्-इट्), तर्हि इडागमो नैव विहितः | द्वयमपि सेट् चेदपि कुत्रचित् अपवादत्वेन न भवति; परन्तु द्वयोर्मध्ये एकः अनिट् चेत् इडागमो नैव भवति | ण्वुल् ल्युट् च अनिटौ; तृच् सेट् | अतः ण्वुल् ल्युट् वा धातुतः परे चेत्, नैव इडागमः | तृच् सेट् अस्ति, अतः धातुः अपि सेट् चेत्, इडागमः सम्भवति (भवति इति सामान्यनियमः, परन्तु अपवादाः सन्ति) |

'''A.''' '''ण्वुल्'''

ण्वुल्-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः कर्त्रर्थकः, त्रिषु लिङ्गेषु च भवति | ण्वुल् अनिट्, अतः अत्र इडागमो नैव भवति | "कर्त्रर्थे भवति" इत्युक्ते यः तत् कार्यं करोति, सः— यः नयति सः नायकः, यः गायति सः गायकः, इत्यादिकम् |

अयं प्रत्ययः णित् (ण् इत् यस्य सः) अतः यत् कर्यं भवति णित्सु, तत् अत्रापि भवेत् | यथा णिच् प्रत्यये यत् अङ्गकार्यं भवति, तदत्रापि | नाम ण्वुल् णित्, अतः '''अचो ञ्णिति''' च '''अत उपधायाः''' चेत्याभ्याम् अङ्गकार्यं ण्वुल्-प्रत्यये परे भवति | ण्वुल्-प्रत्ययः आर्धधातुकः अपि अस्ति, अतः यत् सामान्यम् अङ्गकार्यं भवति आर्धधातुक-प्रत्ययानाम्, तत् कार्यम् अपि भवति अत्र | नाम धातौ लघु-इकः गुणः भवति '''पुगन्तलघूपधस्य च''' इति सूत्रेण |

'''ण्वुल्तृचौ''' (३.१.१३३, लघु० ७८४) = धातुतः ण्वुल् तृच् च विहितौ | '''कर्तरि कृत्''' (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् च तृच् च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम् एकं पदमिदं सूत्रम् | '''धातोः''', '''प्रत्ययः''', '''परश्च''' इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''धातोः ण्वुल्तृचौ प्रत्ययौ परौ''' |

'''युवोरनाकौ''' (७.१.१, लघु० ७८५) = अङ्गात् परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः | युश्च वुश्च तयोः समाहारद्वन्द्वः युवुः, तस्य युवोः युवोः षष्ठ्यन्तं, अनाकौ प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अङ्गस्य''' इत्यस्य अधिकारः, अत्र पञ्चमीविभक्तौ | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गात् युवोः अनाकौ''' |

ण्वुल् → '''चुटू''' इत्यनेन णकारस्य इत्-संज्ञा, '''हलन्त्यम्''' इत्यनेन लकारस्य इत्-संज्ञा, '''तस्य लोपः''' इत्यनेन णकारलकारयोः लोपः → वु अवशिष्यते | वु-स्थाने अक आदेशो भवति |

'''1.''' अजन्तधातुः अस्ति चेत्, एकं कार्यम्—

'''a. अचो ञ्णिति''' (७.२.११५, लघु० १८२) = अङ्गम् अजन्तं चेत्, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | ञ् च ण् च ञ्णौ, ञ्णौ इतौ यस्य तत् ञ्णित्, तस्मिन् ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात् वृद्धिः इत्यस अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य अचः वृद्धिः ञ्णिति''' | '''अलोऽन्तस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः |

कृ + ण्वुल् → अनुबन्धलोपे → कृ + वु → '''युवोरनाकौ''' इत्यनेन अकादेशः → कृ + अक → '''अचो ञ्णिति''' इत्यनेन अजन्ताङ्गस्य अन्तिमस्य अचः वृद्धिः → कार् + अक → वर्णमेलने → कारक | पुंसि कारकः, स्त्रियां कारिका, नपुंसके कारकम् |

तथैव—
तॄ + ण्वुल् → तारक
नी + ण्वुल् → धात्वन्ते अचः वृद्धिः, वु-स्थाने अक-आदेशः → नै + अक → '''एचोऽयवायावः''' इत्यनेन आय्-आदेशः → नाय् + अक → नायक |

धेयं यत् यद्यपि अत्र अजन्तधातूनां प्रसङ्गे '''सार्वधातुकार्धधातुकयोः''' इत्यस्य प्रसक्तिरस्ति (गुणकार्यम्), परन्तु तत् सूत्रं प्रबाध्य '''अचो ञ्णिति''' इत्यनेन वृद्धिः भवति | '''अचो ञ्णिति''', '''सार्वधातुकार्धधातुकयोः''' इत्यस्य अपवादभूतसूत्रं यतः अत्र '''सार्वधातुकार्धधातुकयोः''' कार्यं करोति चेत्, '''अचो ञ्णिति''' निरवकाशं भविष्यति |

'''2.''' हलन्तधातुः अस्ति चेत्, मार्गद्वयं वर्तते | उपधायां ह्रस्व-अकारः चेत्, '''अत उपधायाः''' | उपधायां लघुः इक् चेत्, '''पुगन्तलघूपधस्य च''' |

'''a. अत उपधायाः''' (७.२.११६, लघु० ४५५) = उपधायां अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तं, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | उपधायां ह्रस्व-अकारस्य वृद्धिः भवति (ञिति णिति च प्रत्यये परे); नाम ह्रस्व-अकारस्य स्थाने आकारादेशः | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात् '''वृद्धिः''' इत्यस अनुवृत्तिः; '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात् '''ञ्णिति''' इत्यस अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' | उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः, सः |

वद् + ण्वुल् → अनुबन्धलोपे → वद् + वु → '''युवोरनाकौ''' इत्यनेन अकादेशः → वद् + अक → '''अत उपधायाः''' इत्यनेन उपधायां ह्रस्व-अकारस्य वृद्धिः → वाद् + अक → वादक | पुंसि वादकः, स्त्रियां वादिका, नपुंसके वादिकम् |

'''b. पुगन्तलघूपधस्य च''' (७.३.८६, लघु० ४५१) = सार्वधातुकप्रत्यये परे, आर्धधतुकप्रत्यये परे च अङ्गस्य उपधायां लघु-इकः गुणः (अपि च पुगन्ताङ्गस्य इकः गुणः) | णिच् आर्धधातुकप्रत्ययः अतः प्रसक्तिरस्ति | पुक् अन्ते यस्य तत् पुगन्त्म्, लघ्वी उपधा यस्य तत् लघूपधम्, पुगन्तञ्च लघूपधञ्च तयोः समाहारद्वन्द्वःः पुगन्तल्घूपधम्, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | यत्र गुणादेशः वा वृद्ध्यादेशः वा भवति अपि च कस्य स्थाने नोक्तं, तत्र नियमः अस्ति यत् '''इकः''' स्थाने इति भवति | अनुवृत्ति-सहित-सूत्रम्— '''पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

लिख् + ण्वुल् → अनुबन्धलोपे → लिख् + वु → '''युवोरनाकौ''' इत्यनेन अकादेशः → लिख् + अक → '''पुगन्तलघूपधस्य च''' इत्यनेन उपधायां लघु-इकः गुणः → लेख् + अक → वर्णमेलने → लेखक | पुंसि लेखकः, स्त्रियां लेखिका, नपुंसके लेखकम् |

विशिष्टं कार्यम्

'''१.''' '''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम्, अशिति प्रत्यये परे, एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''एचः धातोः आत् उपदेशे अशिति''' |

'''आतो युक् चिण्कृतोः''' (७.३.३३, लघु ७५७) = आदन्तानां युगागमः स्यात् चिणि ञ्णिति कृति च | चिण् वा ञित्-णित् कृत् प्रत्ययेषु परेषु, आकारान्तानां धातूनां युक्-आगमो भवति | चिण् च कृत् च तयोरितरेतरद्वन्द्वः चिण्कृतौ, तयोः चिण्कृतोः | आतः षष्ठ्यन्तं, युक् प्रथमान्तं, चिण्कृतोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अचो ञ्णिति''' इत्यस्मात् '''ञ्णिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य आतः युक् चिण्कृतोः''' '''ञ्णिति''' |

गै + ण्वुल् → अनुबन्धलोपे → गै + वु → '''युवोरनाकौ''' इत्यनेन अकादेशः → गै + अक → '''आदेच उपदेशेऽशिति''' इत्यनेन एजन्तस्य आत्त्वम् → गा + अक → '''आतो युक् चिण्कृतोः''' इत्यनेन णिति परे युगागमः → गा + य् + अक → गायक

एवमेव—
ध्यै → ध्या → ध्यायकः
पै पाने → पा → पायकः

'''२.''' पाठकः इत्युक्ते यः पठति, अथवा यः पाठयति ?

उत्तरं-- द्वयमपि | किमर्थम् ?

पठ् + ण्वुल् = पाठकः
पठ् + णिच् + ण्वुल् = पाठकः

'''अत उपधायाः''' (७.२.११६) इत्यनेन सूत्रेण हलन्ताङ्गस्य उपधायाः अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिः भवति | नाम अङ्गं हलन्तम् अस्ति चेत्, तस्य अङ्गस्य उपधायाम् अकारः अस्ति चेत्, परस्य प्रत्ययस्य इतसंज्ञकः ञकारः णकारः वा, तर्हि अङ्गस्य उपधायां स्थितस्य अकारस्य स्थाने आकारः भवति |

पठ् धातुः हलन्तधातुः | उपधायाम् अकारः अस्ति | ण्वुल् प्रत्ययः णित् (णकारः इत् यस्य सः) अस्ति | तस्यां दशायां पठ्-धातौ स्थितस्य अकारस्य स्थाने आकरः भवति |

पठ् + ण्वुल् → पठ् + वु → पठ् + अक (वु स्थाने अक, युवोरनाकौ इत्यनेन सूत्रेण) → पाठ् + अक (अत उपधायाः इत्यनेन सूत्रेण) → पाठकः

पठ् + णिच् → पाठ् + णिच् (अत उपधायाः इत्यनेन सूत्रेण) → पाठ् + इ (अनुबन्धलोपः) → पाठि + ण्वुल् → पाठ् + ण्वुल् (णिच् सम्बद्धस्य इकारस्य लोपः णेरनिटि इत्यनेन सूत्रेण (६.४.५१, लघु० ५२९)) → पाठ् + वु → पाठ् + अक (वु स्थाने अक, युवोरनाकौ इत्यनेन सूत्रेण) → पाठकः

'''णेरनिटि''' (६.४.५१, लघु० ५२९) = अनिडादौ आर्धधातुके परे णेर्लोपः स्यात् | इत्युक्तौ आर्धधातुकप्रत्ययः, यस्य आदौ इडागमः नास्ति, परे अस्ति चेत्, तर्हि पूर्वं स्थितस्य णेः (णिच्-प्रत्ययस्य) लोपो भवति | णेः षष्ठ्यन्तम्, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अतो लोपः''' इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमिदम्— '''अनिटि आर्धधातुके णेः लोपः''' |

'''B.''' '''तृच्'''

तृच्-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः कर्त्रर्थकः, त्रिषु लिङ्गेषु च भवति | तृच् सेट्, अतः धातुः अपि सेट् चेत् इडागमो भवति इति सामान्यनियमः; कुत्रचित् अपवादाः सन्ति |

तृच्-प्रत्ययः न णित् न वा ञित् | अतः '''अचो ञ्णिति''' इत्यस्यापि प्रसक्तिर्नास्ति, '''अत उपधायाः''' इत्यस्यापि प्रसक्तिर्नास्ति | परन्तु तृच्-प्रत्ययः धातुभ्यः विहिताः, न तिङ् न वा शित्, अतः आर्धधातुकः | तर्हि अत्र '''सार्वधातुकार्धधातुकयोः''' च '''पुगन्तलघूपधस्य च''' चेत्यनयोः प्रसक्तिः |

'''ण्वुल्तृचौ''' (३.१.१३३, लघु० ७८४) = धातुतः ण्वुल् तृच् च विहितौ | '''कर्तरि कृत्''' (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् च तृच् च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम् एकं पदमिदं सूत्रम् | '''धातोः''', '''प्रत्ययः''', '''परश्च''' इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''धातोः ण्वुल्तृचौ प्रत्ययौ परौ''' |

तृच् → '''हलन्त्यम्''' इत्यनेन चकारस्य इत्-संज्ञा, '''तस्य लोपः''' इत्यनेन तस्य लोपः → तृ अवशिष्यते |

'''1.''' अजन्तधातुः अस्ति चेत्, एकं कार्यम्—

'''a.''' '''सार्वधातुकार्धधातुकयोः''' (७.३.८४, लघु० ३८८) = सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | '''मिदेर्गुणः''' इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | '''इको गुणवृद्धी''' इत्यस्मात् परिभाषा-सूत्रात् '''इकः''' आयाति यत्र स्थानी नोक्तम् | '''अलोऽन्त्यस्य''' इत्यनेन अन्तिमस्य इक्-वर्णस्य गुणः | अनुवृत्ति-सहित-सूत्रमिदम्— '''अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

कृ + तृच् → अनुबन्धलोपे → कृ + तृ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्ताङ्गस्य इकः गुणः → कर् + तृ → वर्णमेलने → कर्तृ (प्रथमाविभक्तौ पुंसि कर्ता, स्त्रियां कर्त्री, नपुंसके कर्तृ)

एवमेव—
नी + तृच् → नी + तृ → ने + तृ → नेतृ (नेता)
हृ (हरति) + तृच् → हर्तृ (हर्ता)
गम् + तृच् → गन्ता
हन् + तृच् → हन्ता
दा + तृच् → दाता
ज्ञा + तृच् → ज्ञाता
क्री + तृच् → क्रेता

अत्र कुत्रचित् इडागमो भवति—
शी (शेते) → शयिता
डी (डयते) → डयिता
वृ (वृणोति) → वरिता

'''2.''' हलन्तधातुः चेत्, उपधायां लघु-इक् अस्ति चेदव कार्यं भवति—

'''a. पुगन्तलघूपधस्य च''' (७.३.८६, लघु० ४५१) = सार्वधातुकप्रत्यये परे, आर्धधतुकप्रत्यये परे च अङ्गस्य उपधायां लघु-इकः गुणः |

भुज् + तृच् → अनुबन्धलोपे → भुज् + तृ → '''पुगन्तलघूपधस्य च''' इत्यनेन अङ्गस्य उपधायां लघु-इकः गुणः → भोज् + तृ → सन्धिकार्यम् → भोक्तृ (भोका)

अत्र कुत्रचित् इडागमो भवति—
लिख् + तृच् → लिख् + तृ → '''पुगन्तलघूपधस्य च''' → लेख् + तृ → इडागमः → लेखितृ (लेखिता)

लघु-इक् नास्ति चेत् गुणकार्यं नास्ति—
पठ् + तृच् → पठिता
रच् + तृच् → रचयितृ (रचयिता)

'''C.''' '''ल्युट्'''

ल्युट्-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः नित्यं नपुंसकलिङ्गकः | ल्युट् अनिट्, अतः अत्र इडागमो नैव भवति |

ल्युट्-प्रत्ययः न णित् न वा ञित् | अतः '''अचो ञ्णिति''' इत्यस्यापि प्रसक्तिर्नास्ति, '''अत उपधायाः''' इत्यस्यापि प्रसक्तिर्नास्ति | परन्तु ल्युट्-प्रत्ययः धातुभ्यः विहिताः, न तिङ् न वा शित्, अतः आर्धधातुकः | तर्हि अत्र '''सार्वधातुकार्धधातुकयोः''' च '''पुगन्तलघूपधस्य च''' चेत्यनयोः प्रसक्तिः |

'''युवोरनाकौ''' (७.१.१, लघु० ७८५) = अङ्गात् परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गात् युवोः अनाकौ''' |

ल्युट् → '''लशक्वतद्धिते''' इत्यनेन लकारस्य इत्-संज्ञा, '''हलन्त्यम्''' इत्यनेन टकारस्य इत्-संज्ञा, '''तस्य लोपः''' इत्यनेन लकारटकारयोः लोपः → यु अवशिष्यते | यु-स्थाने अन आदेशो भवति |

'''1.''' अजन्तधातुः अस्ति चेत्, एकं कार्यम्—

'''a.''' '''सार्वधातुकार्धधातुकयोः''' (७.३.८४, लघु० ३८८) = सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | '''मिदेर्गुणः''' इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | '''इको गुणवृद्धी''' इत्यस्मात् परिभाषा-सूत्रात् '''इकः''' आयाति यत्र स्थानी नोक्तम् | '''अलोऽन्त्यस्य''' इत्यनेन अन्तिमस्य इक्-वर्णस्य गुणः | अनुवृत्ति-सहित-सूत्रमिदम्—'''अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

कृ + ल्युट् → अनुबन्धलोपे → कृ + यु → '''युवोरनाकौ''' इत्यनेन यु-स्थाने अन आदेशः → कृ + अन → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्ताङ्गस्य इकः गुणः → कर् + अन → वर्णमेलने + णत्वम् → करण (करणम्)

एवमेव—
नी + ल्युट् → नी + अन → '''सार्वधातुकार्धधातुकयोः''' → ने + अन → '''एचोऽयवायावः''' → नय् + अन → नयन (नयनम्)

भू + ल्युट् → भू + अन → '''सार्वधातुकार्धधातुकयोः''' → भो + अन → '''एचोऽयवायावः''' → भव् + अन → भवन (भवनम्)

'''2.''' हलन्तधातुः चेत्, उपधायां लघु-इक् अस्ति चेदव कार्यं भवति—

'''a. पुगन्तलघूपधस्य च''' (७.३.८६, लघु० ४५१) = सार्वधातुकप्रत्यये परे, आर्धधतुकप्रत्यये परे च अङ्गस्य उपधायां लघु-इकः गुणः |

लिख् + ल्युट् → लिख् + अन → '''पुगन्तलघूपधस्य च''' इत्यनेन उपधायां लघु-इकः गुणः → लेख् + अन → लेखन (लेखनम्)

एवमेव—
बुध् + ल्युट् → बोधन (बोधनम्)
कृष् + ल्युट् → कर्षण (कर्षणम्)
पठ् + ल्युट् → पठन (पठनम्)

Swarup – August 2014

<nowiki>---------------------------------</nowiki>
[https://static.miraheze.org/samskritavyakaranamwiki/f/fc/%E0%A5%A6%E0%A5%A7_-_%E0%A4%A3%E0%A5%8D%E0%A4%B5%E0%A5%81%E0%A4%B2%E0%A5%8D_%2C_%E0%A4%A4%E0%A5%83%E0%A4%9A%E0%A5%8D_%2C_%E0%A4%B2%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%9F%E0%A5%8D_.pdf ०१ - ण्वुल्, तृच्, ल्युट्.pdf (65k)] Swarup Bhai, Nov 29, 2017, 5:19 PM