07A---ArdhadhAtuka-kRut-pratyayAH/01---Nvul-tRuc-lyuT: Difference between revisions

Tags: Replaced Visual edit
Line 1:
 
=== <big>01 - ण्वुल्‌, तृच्‌, ल्युट्‌</big> ===
 
 
 
'''A.''' '''ण्वुल्‌'''
 
ण्वुल्‌-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः कर्त्रर्थकः, त्रिषु लिङ्गेषु च भवति | ण्वुल्‌ अनिट्‌, अतः अत्र इडागमो नैव भवति | "कर्त्रर्थे भवति" इत्युक्ते यः तत्‌ कार्यं करोति, सः— यः नयति सः नायकः, यः गायति सः गायकः, इत्यादिकम्‌ |
 
अयं प्रत्ययः णित्‌ (ण्‌ इत्‌ यस्य सः) अतः यत्‌ कर्यं भवति णित्सु, तत्‌ अत्रापि भवेत्‌ | यथा णिच्‌ प्रत्यये यत्‌ अङ्गकार्यं भवति, तदत्रापि | नाम ण्वुल्‌ णित्‌, अतः '''अचो ञ्णिति''' च '''अत उपधायाः''' चेत्याभ्याम्‌ अङ्गकार्यं ण्वुल्‌-प्रत्यये परे भवति | ण्वुल्‌-प्रत्ययः आर्धधातुकः अपि अस्ति, अतः यत्‌ सामान्यम्‌ अङ्गकार्यं भवति आर्धधातुक-प्रत्ययानाम्‌, तत्‌ कार्यम्‌ अपि भवति अत्र | नाम धातौ लघु-इकः गुणः भवति '''पुगन्तलघूपधस्य च''' इति सूत्रेण |
 
'''ण्वुल्तृचौ''' (३.१.१३३, लघु० ७८४) = धातुतः ण्वुल्‌ तृच्‌ च विहितौ | '''कर्तरि कृत्‌''' (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल्‌ च तृच्‌ च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम्‌ एकं पदमिदं सूत्रम्‌ | '''धातोः''', '''प्रत्ययः''', '''परश्च''' इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''धातोः ण्वुल्तृचौ प्रत्ययौ परौ''' |
 
'''युवोरनाकौ''' (७.१.१, लघु० ७८५) = अङ्गात्‌ परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः | युश्च वुश्च तयोः समाहारद्वन्द्वः युवुः, तस्य युवोः युवोः षष्ठ्यन्तं, अनाकौ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अङ्गस्य''' इत्यस्य अधिकारः, अत्र पञ्चमीविभक्तौ | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गात्‌ युवोः अनाकौ''' |
 
ण्वुल्‌ → '''चुटू''' इत्यनेन णकारस्य इत्‌-संज्ञा, '''हलन्त्यम्‌''' इत्यनेन लकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन णकारलकारयोः लोपः → वु अवशिष्यते | वु-स्थाने अक आदेशो भवति |
 
'''1.''' अजन्तधातुः अस्ति चेत्‌, एकं कार्यम्—