07A---ArdhadhAtuka-kRut-pratyayAH/02---curAdigaNe-preraNArthe-Nici-ca-tavyat-tumun-tRc--aniiyar: Difference between revisions

no edit summary
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
 
(8 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:02 - चुरादिगणे प्रेरणार्थे णिचि च तव्यत्, तुमुन्‌, तृच्‌ + अनीयर्}}
<please replace this with content from corresponding Google Sites page>
<big><u>तुमुन्‌, तव्यत्‌, तृच्‌</u></big>
 
 
<big>तुमुन्‌, तव्यत्‌, तृच्‌ इत्येषां तदन्तानां कृदन्तरूपाणां प्रक्रियासाम्यं, रूपसाम्यं च सर्वत्र |</big>
 
 
<big>चुरादिगणे प्रेरणार्थे णिचि च रूपाणि एवं भवन्ति सर्वत्र—</big>
 
 
<big>चुर् + णिच्‌ → चोरि इति णिजन्तधातुः | सर्वे णिजन्तधातवः अनेकाचः इति कारणतः सेटः |</big>
 
 
<big>चोरि + इट्‌ + तव्यत्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → चोरे + इ + तव्य → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन अयादेशः → चोरय्‌ + इ + तव्य → चोरयितव्य (चोरयितव्यः, चोरयितव्या, चोरयितव्यम्‌) |</big>
 
 
<big>एवञ्च रूपम्‌ एकमेव सर्वत्र चुरादिगणे प्रेरणार्थे णिचि च—</big>
 
<big>तव्यत्‌ = चोरयितव्य</big>
 
<big>तुमुन्‌ = चोरयितुम्‌</big>
 
<big>तृच्‌ = चोरयितृ (पुंसि चोरयिता)</big>
 
 
<big>यथा—क्षालयितव्यम्‌, रचयितव्यम्‌, प्रेरणार्थे पाठयितव्यम्‌, लेखयितव्यम्‌, दर्शयितव्यम्‌ इत्यादीनि रूपाणि |</big>
 
 
<u><big>अनीयर्‍</big></u>
 
 
<big>अनीयर्‍ इति प्रत्ययः अनिट्‌, तस्मात्‌ चोरि + अनीयर्‍ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → चोर्‍ + अनीय → चोरणीयम्‌ |</big>
 
 
<big>चुरादिगणे प्रेरणार्थे णिचि च तथा सर्वत्र णिचः लोपः— रचि + अनीयर्‍ → रचनीयम्‌ |</big>
 
<big>क्षालि → क्षालनीयम्‌, पाठि → पाठनीयम्</big>
 
 
<big>'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |</big>
 
 
<big>Swarup – April 2017</big>
 
 
<big>---------------------------------</big>
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/b/b8/%E0%A5%A6%E0%A5%A8_-_%E0%A4%9A%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B0%E0%A4%A3%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A5%87_%E0%A4%A3%E0%A4%BF%E0%A4%9A%E0%A4%BF_%E0%A4%9A_%E0%A4%A4%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A5%8D%E0%A4%A4%E0%A5%8D_%2C_%E0%A4%A4%E0%A5%81%E0%A4%AE%E0%A5%81%E0%A4%A8%E0%A5%8D_%2C_%E0%A4%A4%E0%A5%83%E0%A4%9A%E0%A5%8D_%2B_%E0%A4%85%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%B0%E0%A5%8D_.pdf ०२ - चुरादिगणे प्रेरणार्थे णिचि च तव्य्त्‌, तुमुन्‌, तृच्‌ + अनीयर्‍.pdf (25k)] Swarup Bhai, May 6, 2017, 7:10 AM
page_and_link_managers, Administrators
5,094

edits