07A---ArdhadhAtuka-kRut-pratyayAH/03---kta-pratyayaH-bhAvArthaka-pratyayAH-ca: Difference between revisions

Added content
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
(Added content)
Line 1:
 
<please replace this with content from corresponding Google Sites page>
 
<big>१) <u>क्त-प्रत्ययः भूतकालार्थे</u></big>
 
 
<big>क्त-प्रत्ययः भूतकालार्थे भवति इति अस्माकं सामान्यानुभवः |</big>
 
 
<big>'''निष्ठा''' (३.२.१०२) = धातुभ्यः निष्ठा-संज्ञकप्रत्ययः भूतकालार्थे विधीयते | क्त, क्तवतु |</big>
 
 
<big>यथा 'बालकेन गृहपाठः कृतः', 'बालकेन कविता रचिता', 'बालकेन कार्यं कृतम्‌' | त्रिषु लिङ्गेषु |</big>
 
 
<big>गै-धातोः क्त-प्रत्ययान्तं रूपम्‌ अपि अनेन सूत्रेण भूतलाकार्थे त्रिषु लिङ्गेषु भवति | 'बालिकया गाथः गीतः', 'बालिकया कविता गीता', 'बालिकया सूक्तं गीतम्‌' |</big>
 
 
<big>२) <u>क्त-प्रत्ययः नपुंसकलिङ्गे भावार्थे</u></big>
 
 
<big>क्त-प्रत्ययः नपुंसकलिङ्गे भावार्थे अपि भवति |</big>
 
 
<big>'''नपुंसके भावे क्तः''' (३.३.११४) इति सूत्रेण क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे | अत्र कालसामान्ये, इत्युक्ते कालविशिष्टः अर्थो नास्ति |</big>
 
 
<big>हसे हसने → '''नपुंसके भावे क्तः''' (३.३.११४) इत्यनेन क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे → हस्‌ + क्त → हस्‌ + इट्‌ + क्त → हस्‌ + इ + त → हसित इति प्रातिपदिकम्‌ | ततः सु-प्रत्ययस्य लोपः, अम्‌-आदेशः च इत्यनेन हसितम्‌ इति भवति | 'हसनम्‌' इत्यस्मिन्‌ अर्थे |</big>
 
 
<big>एवमेव गै शब्दे → '''नपुंसके भावे क्तः''' (३.३.११४) इत्यनेन क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे → गै + क्त → '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण अशिति प्रत्यये परे एजन्तानाम्‌ आत्त्वम्‌ → गा + त → '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यनेन गा-धातोः ईत्वं भवति हलादि-कित्‌-ङित्‌-आर्धधातुक-प्रत्यये परे → गी + त → गीत इति प्रातिपदिकम्‌ | ततः सु-प्रत्ययस्य लोपः, अम्‌-आदेशः च इत्यनेन गीतम्‌ इति भवति |</big>
 
 
<big>यथा 'बालकः गीतं गायति' | अत्र त्रिषु लिङ्गेषु न भवति; नित्यं नपुंसकलिङ्गे |</big>
 
 
<big>'''नपुंसके भावे क्तः''' (३.३.११४) = धातुभ्यः क्त-प्रत्ययः विधीयते नपुंसकत्वे भावे | नपुसंअके सप्तम्यन्तं, भावे प्रथमानं, क्तः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''धातोः''' (३.१.९१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रं— '''धातोः क्तः''' '''प्रत्ययः''' '''परश्च नपुंसके भावे''' |</big>
 
 
<big>तथैवा सर्वत्र '''निष्ठा''' (३.२.१०२) इत्यनेन भूतकालार्थे; '''नपुंसके भावे क्तः''' (३.३.११४) इत्यनेन भावार्थे नपुंसकलिङ्गे—</big>
 
 
<big>कृत (त्रिषु लिङ्गेषु) = done</big>
 
<big>कृतम्‌ (नपुंसके एव) = work, service</big>
 
 
<big>लिखित (त्रिषु लिङ्गेषु) = written</big>
 
<big>लिखिम्‌ (नपुंसके एव) = a writing; any book or composition</big>
 
 
<big>दत्त (त्रिषु लिङ्गेषु) = given</big>
 
<big>दत्तम्‌ (नपुंसके एव) = a gift</big>
 
 
<big>गत (त्रिषु लिङ्गेषु) = gone</big>
 
<big>गतम्‌ (नपुंसके एव) = motion</big>
 
 
<big>३) <u>भावार्थे प्रत्ययाः</u></big>
 
 
<big>पुंलिङ्गे—</big>
 
 
<big>घञ्‌-प्रत्ययः भावार्थे भवति पुंलिङ्गे | '''भावे''' (३.३.१८) इति सूत्रेण विधीयते |</big>
 
 
<big>'''भावे''' (३.३.१८) इत्यस्य अनुवृत्ति-सहितसूत्रं— '''धातोः घञ्‌ प्रत्ययः''' '''परश्च नपुंसके भावे''' |</big>
 
 
<big>यथा पच्‌ → '''भावे''' (३.३.१८) → पच्‌ + घञ्‌ → पाकः</big>
 
 
<big>एवमेव भू + घञ्‌ → भावः; लिख्‌ + घञ्‌ → लेखः</big>
 
 
<big>सूत्रे लिङ्गं साक्षात्‌ न उच्यते, किन्तु भावार्थे क्तिन्‌-प्रत्ययः स्त्रियां भवति, क्तः नपुंसके, अनेन घञ्‌-प्रत्ययस्य कृते पुंलिङ्गमेव अवशिष्यते |</big>
 
 
<big>स्त्रियाम्—</big>
 
 
<big>क्तिन्‌-प्रत्ययः भावार्थे भवति स्त्रीलिङ्गे | '''स्त्रियां क्तिन्‌''' (३.३.९४) इति सूत्रेण विधीयते |</big>
 
 
<big>यथा कृ → '''स्त्रियां क्तिन्‌''' (३.३.९४) → कृ + क्तिन्‌ → कृतिः</big>
 
 
<big>एवमेव गम्‌ + क्तिन्‌ → गतिः; मन्‌ + क्तिन्‌ → मतिः; भू + क्तिन्‌ → भूतिः</big>
 
 
<big>नपुंसके—</big>
 
 
<big>क्त-प्रत्ययः भावार्थे भवति नपुंसकलिङ्गे | '''नपुंसके भावे क्तः''' (३.३.११४) इति सूत्रेण विधीयते |</big>
 
<big>ल्युट्‌-प्रत्ययः अपि भवति भावार्थे नपुंसकलिङ्गे | '''ल्युट्‌ च''' (३.३.११५) इति सूत्रेण विधीयते |</big>
 
 
<big>क्त = गीतम्‌, हसितम्‌, लिखितम्‌</big>
 
<big>ल्युट्‌ = गानम्‌, हसनम्‌, लेखनम्‌</big>
 
 
<big>आहत्य भावार्थे, समानार्थकाः एतादृशशब्दाः भवन्ति—</big>
 
 
<big><u>धातुः</u>           <u>घञ्‌</u>      <u>क्तिन्‌</u>     <u>क्त</u>      <u>ल्युट्‌</u></big>
 
<big>भू सत्तायाम्‌    भावः    भूतिः   भूतम्‌   भवनम्‌</big>
 
<big>मन्‌ ज्ञाने        मानः    मतिः   मतम्‌    मननम्‌</big>
 
<big>गै शब्दे          गायः    गीतिः   गीतम्‌   गानम्‌</big>
 
 
<big>Swarup – May 2017</big>
 
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
40

edits