10---nyAyashAstram/04---samavAyaH-atiriktaH-padArthaH: Difference between revisions

m
Protected "04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Added spacing)
m (Protected "04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))

(8 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?}}

पदार्थसङ्ख्या न्यूनातिन्यूना स्यात्‌ इति नैयायिकानां सिद्धान्तः | यदि विश्वे यावन्ति वस्तूनि सन्ति तानि सर्वाणि पञ्चसु पदार्थेषु अर्हन्ति, तर्हि पञ्च एव पदार्थाः भवन्तु; चतुर्षु पदार्थेषु विश्वस्य वस्तूनि गच्छन्ति चेत्‌ पुनः इतोऽपि सम्यक्‌; त्रिषु अर्हन्ति चेत् पुनः इतोऽपि सम्यक्‌ | विश्वस्य विश्लेषणं सम्पूर्णं, पदार्थसङ्ख्या न्यूनातिन्यूना—इति लक्ष्यम्‌ |

Line 7:

यथा समवायं विहाय षट्‌ पदार्थाः सन्ति; यदि षट्सु कुत्रचित्‌ समवायस्य सदस्यत्वं शक्येत, तर्हि सप्तमपदार्थः मास्तु | अतः अस्माकं पुरतः प्रश्नः एवम्‌— किमर्थं समवायः पृथक्‌ पदार्थः ?

यथा समवायं विहाय षट्‌ पदार्थाः सन्ति; यदि षट्सु कुत्रचित्‌ समवायस्य सदस्यत्वं शक्येत, तर्हि सप्तमपदार्थः मास्तु | अतः अस्माकं पुरतः प्रश्नः एवम्‌— किमर्थं समवायः पृथक्‌ पदार्थः ?

एतदर्थं प्रथमं तमः उदाह्रियते |
Line 16 ⟶ 15:
नव द्रव्याणि सन्ति इति सिद्धान्तः | तत्र चिन्तनक्रमे तमः द्रव्यं वा ? तमः द्रव्यम् इति चेत्‌, नवसु अन्यतमम्‌ अथवा अतिरिक्तं दशमम्‌ ? सिद्धान्ती वदति द्रव्याणि नव एव | प्रतिपक्षी तमः दशमं द्रव्यम्‌ इति आक्षिपति |

प्रतिपक्षी "तमः अतिरिक्तं द्रव्यम्‌" इति प्रमाणयितुं वदति—

प्रतिपक्षी "तमः अतिरिक्तं द्रव्यम्‌" इति प्रमाणयितुं वदति—

१. नीलरूपं तमसि अस्ति | नीलरूपं गुणः | गुणः केवलं द्रव्ये भवति, यथा श्वेतरूपं वस्त्रे | अतः नीलरूपं तमसि अस्ति चेत्‌, तमः द्रव्यम्‌ |
Line 47 ⟶ 46:

समवायः अतिरिक्तः सप्तमः पदार्थः किमर्थम्‌ इति चेत्‌, नित्यः सम्बन्धः समवायः |

समवायः नित्यः, अन्ये सम्बन्धाः अनित्याः किमर्थम्‌ इत्यस्य बोधार्थं सर्वप्रथमं बोध्यं यत्‌ समवायः एक एव; समवायाः भिन्न-भिन्नाः इति न | गुणगुणिनोः, अवयवावयविनोः, क्रियाक्रियावतोः मध्ये यः समवायः भवति, सः एकः |

संयोगसम्बन्धः अनित्यपदार्थः | संयोगस्य उत्पत्तिः अपि भवति, तस्य नाशः अपि भवति |

संयोगसम्बन्धः अनित्यपदार्थः | संयोगस्य उत्पत्तिः अपि भवति, तस्य नाशः अपि भवति |

१. विभागः भवति चेत्‌, संयोगनाशो भवति | पुस्तकभूतलयोः विभागः भवति चेत्‌, तयोः मध्ये यः संयोगः आसीत्‌ सः नष्टः |

२. संयोगः भिन्न-भिन्नः इति अङ्गीक्रियते | पुस्तकभूतलयोः संयोगः भिन्नः, घटपटयोः संयोगः भिन्नः, हस्तपादयोः संयोगः भिन्नः | द्वयोः द्रव्ययोः स्पर्शे सति संयोगः जायते; विभागे सति संयोगः नश्यति | अतः संयोगः सदा जायते, नश्यति, जायते नश्यति |
Line 63 ⟶ 62:

पुस्तके विद्यमानरूपस्य नाशेऽपि रूपसमवायः वर्तते एव समवायस्य एकत्वात्‌ | रूपमात्रं नष्टम्‌; रूपसमवायः न नष्टः | पुस्तकं नष्टं चेदपि रूपसमवायः न नश्यति | पुस्तकरूपयोः मध्ये यः समवायः, सर्प-प्रसर्पणक्रिययोः मध्ये स एव समवायः यतोहि समवायः एक एव | अतः समवायः सदैव तिष्ठति, जातिवत्‌ |

तर्हि संयोगः नश्यति; समवायः न नश्यति |

- संयोग-नाशकः गुणः विभागः | संयोग-नाशकः गुणः वर्तते, स एव विभागः इत्युच्यते |

- संयोगः भिन्न-भिन्नः भवति | घट-भूतलयोः संयोगः अन्यः | पट-भूतलयोः संयोगः अन्यः | तत्र भेदः प्रत्यक्षेण दृश्यते | अनुभवः एव प्रमाणम्‌‍ |

रूपसमवायः पुस्तके स्वरूपसम्बन्धेन अस्ति | तत्र पुस्तकम्‌ अपि नष्टं चेत्‌, रूपसमवायः कुत्र अस्ति ? आश्रयः नष्टः तथा च विद्यमानः धर्मः समवायः अपि नष्टः खलु इति चेत्‌‍, समवायः न नश्यति | पुस्तकं विना अपि तिष्ठति |

- घटः नश्यति चेदपि घटत्वम्‌ इति जातिः न नश्यति; घटत्व-जातिः नित्या इति अङ्गीक्रियते | तथैव समवायः अपि | जातिः अपि नित्या, समवायः अपि नित्यः |

- किन्तु यः नित्यः सः अत एव, नित्यत्वात्‌, पृथक्‌ पदार्थः इति न | सर्वे पदार्थाः न नित्याः | यथा द्रव्यम्‌ | नित्यद्रव्याणि अपि सन्ति, अनित्यद्रव्याणि अपि सन्ति |

- तर्हि समवायः नित्यः अतः पदार्थः इति न | पदार्थत्वार्थं नित्यत्वं न अपेक्ष्यते यतोहि अनित्यपदार्थः अपि भवति |

- पदार्थत्वार्थं निकषः कः ? अन्यत्र स्थानस्य कल्पना अशक्या इति यदा, तदा नूतनपदार्थः कल्पनीयः | अन्येषां सर्वेषां सम्बन्धानाम्‌ अन्यत्र अन्तर्भावः कृतः | संयोगः गुणे अन्तर्गतः | स्वरूपसम्बन्धः अन्यत्र अन्तर्गतः (कुत्र इति अपरस्मिन्‌ समये चर्चा) | समवायः तथा अन्यत्र न शक्यते षट्सु पदार्थेषु | अतः अतिरिक्तत्वं स्वीकार्यम्‌ | समवायस्य कुत्रापि षट्सु पदार्थेषु अन्तर्भावः न शक्यते इति कृत्वा तस्य अतिरिक्तत्वम्‌ अङ्गीकरणीयम्‌ एव | अनुभव-सिद्धत्वात्‌ समवायस्य कुत्रापि अन्तर्भावकत्वस्य अशक्यत्वात्‌ |

Swarup – October 2015

<nowiki>---------------------------------</nowiki>

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].

[https://static.miraheze.org/samskritavyakaranamwiki/f/f2/%E0%A5%A6%E0%A5%AA_-_%E0%A4%B8%E0%A4%AE%E0%A4%B5%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A4%85%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%83_%E0%A4%AA%E0%A4%A6%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%83_%E0%A4%95%E0%A4%BF%E0%A4%AE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%AE%E0%A5%8D_%3F_.pdf ०४ - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?.pdf]

page_and_link_managers, Administrators
5,097

edits