10---nyAyashAstram/04---samavAyaH-atiriktaH-padArthaH: Difference between revisions

Fixed spacing
(Added spacing)
(Fixed spacing)
Line 1:
<big>पदार्थसङ्ख्या न्यूनातिन्यूना स्यात्‌ इति नैयायिकानां सिद्धान्तः | यदि विश्वे यावन्ति वस्तूनि सन्ति तानि सर्वाणि पञ्चसु पदार्थेषु अर्हन्ति, तर्हि पञ्च एव पदार्थाः भवन्तु; चतुर्षु पदार्थेषु विश्वस्य वस्तूनि गच्छन्ति चेत्‌ पुनः इतोऽपि सम्यक्‌; त्रिषु अर्हन्ति चेत् पुनः इतोऽपि सम्यक्‌ | विश्वस्य विश्लेषणं सम्पूर्णं, पदार्थसङ्ख्या न्यूनातिन्यूना—इति लक्ष्यम्‌ |</big>
 
 
 
 
<big>अतः यदा पदार्थचिन्तनं क्रियते नैयायिकैः, तदा "सप्तसु पदार्थेषु इदं वस्तु भवतु" इति प्रथमप्रयासः | कदाचित्‌ चिन्तनक्रमे तादृशं वस्तु मनसि उदेति यत्‌ सप्तसु पदार्थेषु नान्तर्भवितुम्‌ अर्हति, तदानीमेव अन्योपायस्य अभावात्‌ पृथक्‌ नूतनपदार्थः कल्पनीयः | उपायाभावात्‌ एव सर्वोपरि स्तरे नूतनपदार्थः, इति विधिः |</big>
 
 
 
 
teachers
746

edits