page_and_link_managers, Administrators
5,097
edits
(removed dheyam) |
m (Protected "05 - विशेषणं विशेष्यम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
||
(16 intermediate revisions by 4 users not shown) | |||
Line 1:
{{DISPLAYTITLE:05 - विशेषणं विशेष्यम्}}
{| class="wikitable mw-collapsible mw-collapsed"
!'''<big>ध्वनिमुद्रणानि</big>'''
|-
|'''<big>UMD varga</big>'''
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/23_visheShaNam-visheShyaM-karapatram---visheShya-visheShaNayoH-arthaH__guNa-vAcaka-shabdAH-trividhAH__guNa-guNivAcaka-artha-parivarthanam--matup-tva_2015-11-07.WMA १) visheShya-visheShaNayoH-arthaH_+_guNa-vAcaka-shabdAH-trividhAH_+_guNa-guNivAcaka-artha-parivarthanam--matup-tva_2015-11-07]</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/24_v-v-karapatram---panca-visheShaNAni---guNaH-jAtiH-dravyam-karma-abhAvaH__unnataH-guNivAcakaH-kintu-visheShaNa-vAcakaH-api__unnata-shabdasya-siimA_2015-11-14.WMA २) panca-visheShaNAni---guNaH-jAtiH-dravyam-karma-abhAvaH_+_unnataH-guNivAcakaH-kintu-visheShaNa-vAcakaH-api_+_unnata-shabdasya-siimA_2015-11-14]</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/25_v-v-karapatram---visheShaNatvena-samavAyaH-visheShaH-ca__loke-prayogaH-bhinnaH__tadvAcaka-shabdaH__dhanaM-dhavattvaM-ca_2015-11-21.WMA ३) visheShaNatvena-samavAyaH-visheShaH-ca_+_loke-prayogaH-bhinnaH_+_tadvAcaka-shabdaH_+_dhanaM-dhanavattvaM-ca_2015-11-21]</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/26_dhanavattvasya-pakShadvayam---dhanam-eva_ca_dhanAdikaraNatvam__lakShaNa-samanvAye-AdhArAdheya-bhAvaH__pRuthivii-jalaM-tejaH---sharIrAdivibhAgaH_2015-12-05.WMA ४) dhanavattvasya-pakShadvayam---dhanam-eva_ca_dhanAdikaraNatvam_+_lakShaNa-samanvAye-AdhArAdheya-bhAvaH_+_pRuthivii-jalaM-tejaH---sharIrAdivibhAgaH_2015-12-05]</big>
|-
|'''<big>SSVT varga</big>'''
|-
|<big>[https://archive.org/download/SSVTSamskritam/
|-
|<big>[https://archive.org/download/SSVTSamskritam/
|-
|<big>[https://archive.org/download/SSVTSamskritam/125_tarka-samgraha-vyAkhyA--31_karapatram_panca-visheShaNAni__unnataH-guNivAcakaH-kintu-visheShaNa-vAcakaH-api__unnata-shabdasya-siimA_2015-11-14.WMA
|-
|<big>[https://archive.org/download/SSVTSamskritam/
|-
|<big>[https://archive.org/download/SSVTSamskritam/
|-
|<big>[https://archive.org/download/SSVTSamskritam/127_tarka-samgraha-vyAkhyA--33_dhanavattvam-ityasya-pakShadvayaM----dhanam-eva_ca_dhanAdikaraNatvam__lakShaNa-samanvAye-AdhArAdheya-bhAvaH_2015-12-05.WMA ६) dhanavattvam-ityasya-pakShadvayaM----dhanam-eva_ca_dhanAdikaraNatvam_+_lakShaNa-samanvAye-AdhArAdheya-bhAvaH_2015-12-05]</big>
|}
Line 31 ⟶ 34:
<big>"सुन्दरः बालकः गच्छति" इति वाक्ये किं पदं विशेषणं, किञ्च विशेष्यम् ?</big>
<big>इति चेत्, 'सुन्दरः' विशेषणं, 'बालकः' विशेष्यम् इति सामान्यतया वदामः |</big>
<big>अधुना, कश्चन घटः भूतले अस्ति; तदर्थं "भूतलं घटवत्" इति उच्यते | अत्र किं पदं विशेषणम् ? सामान्यतया घटवत् विशेषणम् इति वदामः | तत्र विद्याधरी इति ग्रन्थे लिखितम् अस्ति यत् "भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्" (p. 34) | तर्हि किं "भूतलं घटवत्" इति वाक्ये घटवत् अपि विशेषणं, घटः अपि विशेषणम् ?</big>
<big>अस्य समाधानार्थं वत्त्वम् इति विषये चर्चा अपेक्षिता |</big>
Line 56 ⟶ 63:
<big>मध्यमस्तरे— घटत्ववान् घटः घटवत्त्वम्</big>
<big>अधमस्तरे— घटवत् भूतलम् घटवत्त्ववत्</big>
Line 64 ⟶ 72:
<big>विशेषणं विशेष्यम् अन्येभ्यः वस्तुभ्यः पृथक् करोति |</big>
<big>उन्नतः वृक्षः |</big>
Line 103 ⟶ 113:
<big>'''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | छिद् + य → छेद्यम् | शिष् + य → शेष्यम् |</big>
<big>ण्यत्-प्रत्ययेन यः शब्दः निष्पन्नः सः विशेष्यनिघ्नः अतः त्रिषु लिङ्गेषु भवति | विशेष्यः, विशेष्या, विशेष्यम् |</big>
Line 130 ⟶ 142:
<big>१) केवलं गुण-वाचकशब्दाः | एभिः शब्दैः गुण-विषये एव सूचना प्राप्यते | गुणस्य आश्रयस्य विषये न काऽपि सूचना | 'शक्तिः'— अनेन शब्देन केवलं शक्तिः इति गुणः उच्यते | इयं शक्तिः कुत्र अस्ति, कस्य अस्ति, कस्मिन् अस्ति— शक्ति-शब्देन एतादृशी न काऽपि सूचना लभ्यते |</big>
<big>२) केवलं गुणि-वाचकशब्दाः | एषां विषये बहूनां भ्रमो भवति यतोहि एकदृष्ट्या गुणिवाचकाः एव; अपरया दृष्ट्या 'केवलं गुणिवाचकाः' इति वक्तुं न शक्नुमः |</big>
<big>यथा उन्नत-शब्दः | उन्नतः इत्युक्तौ औन्नत्य-गुण-विशिष्टः | औन्नत्य-गुणः यस्मिन् अस्ति, तादृशः कश्चन | सुन्दरः इत्युक्तौ सौन्दर्यं यस्मिन् अस्ति, तादृशः कश्चन |</big>
<big>एते ''गुण-विशिष्ट-गुणिवाचकाः'' | नाम ''तेन गुणेन युक्तं गुणिनं'' बोधयति |</big>
Line 153 ⟶ 169:
<big>शुक्लः गुणवाचकः इत्युक्ते "white color” इति वक्तव्यं चेत्, 'शुक्लः' | अस्मिन् अर्थे पुंलिङ्गे एव प्रयोक्तव्यम् |</big>
<big>शुक्लवर्णेन युक्तः कश्चन इति चेत् गुणिवाचकः | अस्मिन् अर्थे त्रिषु लिङ्गेषु | श्क्लः घटः, शुक्ला शाटिका, श्क्लं पुष्पम् |</big>
Line 197 ⟶ 215:
<big>३) यः गुणवाचकः अपि, गुणिवाचकः अपि, तस्य अन्वयः उभयत्र अतः कोऽपि प्रत्ययः नापेक्षितः | किन्तु मतुबर्थीयाः/भावार्थीयाः प्रयोक्तुं शक्याः |</big>
<big>पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ |</big>
{| class="wikitable"
|'''पीतः''' इति गुणः
|
|-
|
|
| वस्त्रम्
|}
Line 218 ⟶ 234:
<big>तथैव पीतं वस्त्रं, पीतवत् वस्त्रं | पीतं, पीतवत् च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |</big>
{| class="wikitable"
|पीतः इति गुणः
|पीतः इति गुणः → तस्मात् गुणवाचकशब्दात् मतुप्-प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः → पीतवत्
|-
|'''पीतं''' वस्त्रम्
Line 230 ⟶ 242:
|'''पीतवत्''' वस्त्रम्
|}
<big>अनेन पीतं, पीतवत् च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |</big>
Line 238 ⟶ 252:
<big>उन्नतः वृक्षः | उन्नतः गुणिनं (वृक्षं) बोधयति— वृक्षवाचकशब्दः | तर्हि विशेषणं किम् ?</big>
<big>विशेष्यः पदार्थः न तु पदम् इति स्मर्तव्यम् | तर्हि पदं किम् ? विशेष्यवाचकम् | तथैव उन्नतः वस्तुतः विशेषणवाचकः | विशेषणम् औन्नत्यम् | औन्नत्यम् इत्यनेन वृक्षः विशिष्यते, पृथक् क्रियते | अन्येभ्यः वृक्षेभ्यः पृथक् कुर्मः अनेन औन्नत्य-गुणेन | “येन विशिष्यते"— उन्नतः तथा नास्ति | किन्तु औन्नत्यं तथा अस्ति, अतः तदेव विशेषणम् |</big>
Line 254 ⟶ 270:
<big>२) वृक्षत्वम् इति जातिः, वृक्षस्य द्वितीयं विशेषणम् | तस्य कार्यम् = सर्वेषु वृक्षेषु विद्यमानं वृक्षत्वम् इति विशेषणं विजातीयेभ्यः सर्वान् वृक्षान् पृथक् करोति | वृक्षः गृहात् भिन्नः, यानात् भिन्नः, मनुष्यात् भिन्नः इति कथम् ? वृक्षे वृक्षत्वम् अस्ति; गृहे, याने, मनुष्ये च वृक्षत्वं नास्ति | अतः वृक्षत्वम् इति जात्या वृक्षः भिद्यते; वृक्षत्वम् इति जातिः वृक्षम् अन्येभ्यः द्रव्येभ्यः पृथक् करोति |</big>
<big>तर्हि विशेषणद्वयम् अस्ति— गुणः, जातिः च | वस्तुतः ततः अधिकविध-विशेषणानि अपि सम्भवन्ति |</big>
Line 263 ⟶ 281:
<big>विशेषणम् इत्युक्ते येन विशिष्यते | अतः येन केनापि एकं वस्तु अन्येभ्यः वस्तुभ्यः विशिष्यते, तत् विशेषणम्</big>
<big>भूतले नीलः इति गुणः, भूतलत्वम् इति जातिः, घटः इति द्रव्यम् | त्रिभिः भूतलं विशिष्यते, ततः अत्र विशेषणत्रयम् अस्ति |</big>
{| class="wikitable"
|+
|
|गुणः
| जातिः
| द्रव्यम्
|-
|
| नीलः
| भूतलत्वम्
|घटः
|-
|
|
|भूतलम्
|
|}
<big>बालके औन्नत्यम् इति गुणः, बालकत्वम् इति जातिः, धनम् इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम् अस्ति | समवाय-विषये विशेष-विषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रष्टव्यम् |</big>
Line 310 ⟶ 328:
<big>उन्नतः केवलं गुणिवाचक-शब्दः इति तु आरम्भतः एव उच्यमानम् |</big>
<big>द्वयमपि कथम् ?</big>
Line 346 ⟶ 366:
<big>लोके प्रयोगः भिन्नः किमर्थम् इति चेत्, तत्र उन्नत-शब्देन, कस्य बोधः इत्युक्ते औन्नत्यरूपगुणस्य बोधः भवति इत्यतः लोके उन्नत-शब्दः विशेषणम् इति एव तत्र प्रयोगः भवति | किन्तु प्रयोगसमये वस्तुस्थितिः बुद्धिमता अवगम्येत यत् उन्नतशब्दः विशेषणवाचकः न तु विशेषणम् |</big>
<big>औन्नत्यम् = विशेषणम्</big>
Line 360 ⟶ 381:
<big>अनेन 'विशेष्यवाचकस्य' ... 'विशेषणवाचकस्यापि' इति येषां भाषा किञ्चित् प्रगता, तैः अवगम्येत | सौकर्यार्थं प्रारम्भिकस्तरीयवर्गेषु अस्य श्लोकस्य पाठनेन न दोषः | किन्तु ये इतोऽपि अधीतवन्तः, तैरपि तथा बुध्यते चेत्, दोष एव | श्लोकस्य उच्चारणसमये, जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम् |</big>
Line 368 ⟶ 388:
<big>"उन्नतः वृक्षः" इति वाक्ये वृक्षस्य विशेषणद्वयम् इत्युक्तम् | औन्नत्यम् इति एकं विशेषणं, वृक्षत्वम् इति अपरं विशेषणम् | औन्नत्यम् इति विशेषणं केन पदेन बोध्यते ? तद्वाचकः शब्दः कः ? तद्वाचकः शब्दः उन्नतः इति एव | उन्नत-पदेन एव औन्नत्यं बोध्यते | तर्हि वृक्षत्वम् इति यत् विशेषणं, तद्वाचकः शब्दः कः ? तद्वाचकः शब्दः वृक्षः इति शब्दः एव | तत् कथम् इति चेत्, वृक्षः इति शब्देन पदार्थत्रयं बोध्यते | प्रथमः वृक्षः इति जीवः | द्वितीयः वृक्षत्वम् इति वृक्षे विद्यमाना जातिः | (कुत्रचित् 'धर्मः' इति एव वक्तव्यं भवति; अत्र स च धर्मः जातिः एव |) तृतीयः वृक्ष-वृक्षत्वयोः मध्ये विद्यमानः सम्बन्धः | अत्र समवायसम्बन्धः | इति एते त्रयः अंशाः वृक्षशब्देन बोध्यन्ते |</big>
<big>एवं सर्वैः अपि पदैः एते त्रयः अर्थाः बोध्यन्ते | यथा अत्र वृक्ष-शब्देन "वृक्षत्व-विशिष्ट-वृक्षः" इति अर्थः | नाम वृक्षत्व-सम्बन्धः यत्र अस्ति, तादृशः पदार्थः | इत्युक्तौ वृक्षत्वं, वृक्षः, तयोर्मध्ये विद्यमानः सम्बन्धः | एते त्रयः पदार्थाः ज्ञायन्ते |</big>
Line 381 ⟶ 403:
<big>अधुना धनवत्त्वं, धनम् | धनवान् इति शब्दः अस्ति | यथा वृक्ष-शब्दस्य विशेषणं किम् ? वृक्षत्वम् | वृक्ष-शब्दस्य वदनेन वृक्षपदार्थः, वृक्षत्वं, तयोः सम्बन्धः च एतत् सर्वं पदार्थत्रयं ज्ञायते | अधुना धनवान् इति शब्दः अस्ति इति चिन्तयतु | धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः; धनम् अस्मिन् अस्ति धनवान् इति | धनवान् कः ? कश्चन पुरुषः | धनवान् इति शब्देन अपि पदार्थत्रयं बोध्यते | किम् इति चेत्, प्रथमः पदार्थः धनवान् एव, नाम धनं यस्य/यस्मिन् अस्ति सः | तस्मिन् पुरुषे विशेषणत्वेन यत् अस्ति, सोऽपि पदार्थः बोध्यते; सः पदार्थः कः ? धनम् एव | वृक्षविषये अस्माभिः विशेषणं वृक्षत्वम् इति स्वीकृतम् | अत्र धनवान् यः अस्ति, तस्मिन् विद्यमानः धर्मः कः इत्युक्ते, अन्यत् किमपि अस्माभिः स्वीकरणीयं नास्ति | धनवान् यः अस्ति, तस्मिन् विद्यमानं विशेषणं धनम् एव | धनवति विद्यमानः धर्मः इत्युक्तौ धनम् एव | कथनस्य आशयः एवं यत् धनम् अपि कश्चन 'धर्मः' भवति | तर्हि धनवान् इति शब्देन के त्रयः पदार्थाः बोध्यन्ते इत्युक्ते धनं, धनं यस्मिन् अस्ति तादृशपुरुषः, तयोर्मध्ये विद्यमानः संयोगसम्बन्धः | एते त्रयः अंशाः ज्ञायन्ते |</big>
<big>एतदपि वक्तव्यम् अस्ति, धनवान् इति शब्दः गुणिवाचकः उन्नत-शब्दः इव | अतः यथा उन्नतः इत्यस्य कथनेन वृक्षः इत्यस्य साक्षात् बोधः न भवति | नाम कस्मिन् उन्नतत्वम् अस्ति इति न ज्ञायते यावत् वृक्षः इति शब्दः न उच्येत; तावत् एव ज्ञायते यत् कश्चन अस्ति यस्मिन् उन्नतत्वम् इति गुणः विद्यमानः | धनवान् अपि तथा— धनं कस्मिन् अस्ति, पुरुषे, बालके, राष्ट्रपतौ, अभियन्तरि, तन्न ज्ञायते | केवलं धनयुक्तः कश्चन अस्ति, इत्येतावदेव ज्ञायते | सः कः इति वक्तव्यं चेत्, अग्रे अन्यत् पदं प्रयोक्तव्यम् | “धनवान् बालकः" इति वक्तव्यम् |</big>
<big>किन्तु धनवान् इति शब्देन धनम् अस्ति इति ज्ञायते, धनयुक्तः कश्चन अस्ति इत्यपि ज्ञायते, तयोर्मध्ये संयोगसम्बन्धः अस्ति इत्यपि ज्ञायते | धनवान् इति शब्देन एते त्रयः पदार्थाः ज्ञायन्ते |</big>
<big><u>धनवत्त्वम्</u> | अत्र कथं व्यवस्था इति उच्यते | धनवान् इति शब्दात् त्व-प्रत्ययः संयोजितः, तेन धनवत्त्वम् इति पदं सञ्जातम् | त्व-प्रत्ययः भावप्रत्ययः; भावार्थे विद्यमानः प्रत्ययः | वस्तुतः भावः इत्यस्य अर्थः कः इति चेत्, “तस्मिन् विद्यमानः धर्मः" | इदानीं वृक्षः इति शब्दः अस्ति | वृक्षस्य भावः वृक्षत्वम् | 'वृक्षस्य भावः' इत्यस्य अर्थः कः ? इति चेत्, "वृक्षे विद्यमानः कश्चन धर्मः" | अतः त्वप्रत्ययं योजयामश्चेत् वृक्ष-शब्दात्, तेन किं भवति ? वृक्षे विद्यमानः धर्मः बोध्यते | तत्र एक एव धर्मः, वृक्षत्वम् | एवमेव, यः कोऽपि शब्दः भवतु— शुक्लः इति अस्ति | शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम् | तत्र शुक्लत्वम् इति धर्मः अस्ति, आङ्ग्लाभाषायां 'whiteness' | तर्हि शुक्ल-शब्दात् भावार्थे त्व-प्रत्ययं योजयामः चेत्, तस्य अर्थः कः भवति ? “शुक्लः इति गुणः, तस्मिन् विद्यमानः धर्मः" इति | तर्हि शुक्लत्वम् इत्युक्ते “शुक्ले विद्यमानः धर्मः" | मनुष्ये विद्यमानः धर्मः मनुष्यत्वम् |</big>
Line 396 ⟶ 422:
<big>अधुना एतत् सर्वम् उक्तं; वस्तुतः न्यायशास्त्रे अत्र पक्षद्वयम् अस्ति | द्वाभ्याम् अपि पक्षाभ्याम् अस्माकं लक्षणकार्यं सिध्यति | एकस्मिन् पक्षे धनवत्त्वम् इत्युक्तौ धनमेव | अपरस्मिन् पक्षे धनवत्त्वम् इत्युक्ते धनाधिकरणत्वम् | धनस्य अधिकरणं, तस्मिन् अधिकरणे विद्यमानः धर्मः धनाधिकरणत्वम् | धनवत्त्वं धनमेव इति चेत्, धनवत्त्वं संयोगसम्बन्धेन धनवति अस्ति | धनवत्त्वं धनाधिकरणत्वम् इति चेत्, स्वरूपसम्बन्धेन धनवति अस्ति |</big>
<big>तथैव गन्धः गन्धवत्त्वं च | गन्धवत्त्वं गन्धः एव इति चेत्, समवायसम्बन्धेन पृथिव्याम् अस्ति | गन्धवत्त्वं गन्धाधिकरणत्वम् इति चेत्, स्वरूपसम्बन्धेन पृथिव्याम् अस्ति | उभयत्र गन्धवत्त्वं पृथिव्याः लक्षणम् | गन्ध-निष्ठ-आधेयता-निरूपित-अधिकरणताश्रयः पृथिवी | अनेन आधाराधेयभावः प्रदर्शितः; गन्धवत्त्वं, गन्धाधिकरणत्वम् इति पृथिव्याः लक्षणम् | गन्धवत्त्वं गन्धः एव इति चेदपि, गन्धवत्त्वं पृथिव्याः लक्षणम् |</big>
Line 407 ⟶ 435:
<big><u>परिशिष्टम्</u></big>
<big>अस्मिन् पाठे अस्माभिः उक्तं यत् पञ्चानां पदार्थानां विशेषणत्वं भवति; अवशिष्टयोः द्वयोः पदार्थयोः का गतिः ? समवायः विशेषश्च, तयोः विशेषणत्वं सम्भवति किम् ? अत्र लघु उत्तरम् अस्ति, आं सम्भवति | किन्तु पृथक्तया उच्यते यतोहि तयोः विशेषणार्थं निकषः इतोऽपि नियमितः |</big>
|