10---nyAyashAstram/05---visheShaNaM-visheShyam: Difference between revisions

→‎पीतः इति गुणः: Fixed spacing. completed tables
(Added rest of the text. parishishtam to be added)
(→‎पीतः इति गुणः: Fixed spacing. completed tables)
Line 210:
|+
!
==                                     <big>भूतलम्‌</big> ==
!
==            गुणः         ==
!
== जातिः      ==
!
==  द्रव्यम्‌ ==
|-
|<big>विशेषणानि</big>
|
|<big>नीलः</big>
|
 
|
|<big>भूतलत्वम्‌</big>
|
|<big>घटः</big>
|-
|
|
|
|
|}
 
 
<big>बालके औन्नत्यम्‌ इति गुणः, बालकत्वम्‌ इति जातिः, धनम्‌ इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम्‌ अस्ति | समवाय-विषये विशेष-विषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रष्टव्यम्‌ |</big>
 
 
 
Line 258 ⟶ 261:
 
<big>तर्हि निष्कर्षः एवम्‌— यद्यपि उन्नत-शब्दः केवलं गुणिवाचकः, किन्तु अस्मिन्‌ कार्ये गुणस्य सङ्केतः अपि अन्तर्भूतः |</big>
 
 
 
Line 277 ⟶ 281:
<big>विशेष्यभूतः यः वृक्षः, सः वृक्ष-शब्देन बोध्यते | औन्नत्यरूपः यः गुणः, सः उन्नतशब्देन बोध्यते | उन्नतशब्दः वस्तुतः गुणवाचकः न | किन्तु उन्नतशब्दस्य यः अर्थः "गुण-विशिष्ट यः गुणी”, तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते | अतः एव वदामः उन्नत-शब्दः विशेषणवाचकः |</big>
 
<u><br />
 
<big>लोके प्रयोगः भिन्नः</big></u>
 
<big>लोके प्रयोगः भिन्नः किमर्थम्‌ इति चेत्‌, तत्र उन्नत-शब्देन, कस्य बोधः इत्युक्ते औन्नत्यरूपगुणस्य बोधः भवति इत्यतः लोके उन्नत-शब्दः विशेषणम्‌ इति एव तत्र प्रयोगः भवति | किन्तु प्रयोगसमये वस्तुस्थितिः बुद्धिमता अवगम्येत यत्‌ उन्नतशब्दः विशेषणवाचकः न तु विशेषणम्‌ |</big>
Line 294 ⟶ 298:
<big>अनेन 'विशेष्यवाचकस्य' ... 'विशेषणवाचकस्यापि' इति येषां भाषा किञ्चित्‌ प्रगता, तैः अवगम्येत | सौकर्यार्थं प्रारम्भिकस्तरीयवर्गेषु अस्य श्लोकस्य पाठनेन न दोषः | किन्तु ये इतो‍ऽपि अधीतवन्तः, तैरपि तथा बुध्यते चेत्‌‍, दोष एव | श्लोकस्य उच्चारणसमये, जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम्‌ |</big>
 
 
<big><u>तद्वाचकः शब्दः</u></big>
 
<big>"उन्नतः वृक्षः" इति वाक्ये वृक्षस्य विशेषणद्वयम्‌ इत्युक्तम्‌ | औन्नत्यम्‌ इति एकं विशेषणं, वृक्षत्वम्‌ इति अपरं विशेषणम्‌ | औन्नत्यम्‌ इति विशेषणं केन पदेन बोध्यते ? तद्वाचकः शब्दः कः ? तद्वाचकः शब्दः उन्नतः इति एव | उन्नत-पदेन एव औन्नत्यं बोध्यते | तर्हि वृक्षत्वम्‌ इति यत्‌ विशेषणं, तद्वाचकः शब्दः कः ? तद्वाचकः शब्दः वृक्षः इति शब्दः एव | तत्‌ कथम्‌ इति चेत्‌, वृक्षः इति शब्देन पदार्थत्रयं बोध्यते | प्रथमः वृक्षः इति जीवः | द्वितीयः वृक्षत्वम्‌ इति वृक्षे विद्यमाना जातिः | (कुत्रचित् 'धर्मः' इति एव वक्तव्यं भवति; अत्र स च धर्मः जातिः एव |) तृतीयः वृक्ष-वृक्षत्वयोः मध्ये विद्यमानः सम्बन्धः | अत्र समवायसम्बन्धः | इति एते त्रयः अंशाः वृक्षशब्देन बोध्यन्ते |</big>
Line 302 ⟶ 307:
<big>अतः उन्नतवृक्षः इति कथनेन वृक्षस्य इदानीं विशेषणद्वयं भवति— उन्नतत्वं, वृक्षत्वं च | उन्नतत्ववाचकशब्दः उन्नतः इति शब्दः | वृक्षत्ववाचकशब्दः वृक्षः इत्येव शब्दः | एषा व्यवस्था भवति |</big>
 
 
<big>धनं, धनवत्त्वं च</big>
 
<big><u>धनं, धनवत्त्वं च</u></big>
 
<big>अधुना धनवत्त्वं, धनम्‌ | धनवान्‌ इति शब्दः अस्ति | यथा वृक्ष-शब्दस्य विशेषणं किम्‌ ? वृक्षत्वम्‌ | वृक्ष-शब्दस्य वदनेन वृक्षपदार्थः, वृक्षत्वं, तयोः सम्बन्धः च एतत्‌ सर्वं पदार्थत्रयं ज्ञायते | अधुना धनवान्‌ इति शब्दः अस्ति इति चिन्तयतु | धनम्‌ इति शब्देन धनवान्‌ इति शब्दः निष्पन्नः; धनम्‌ अस्मिन्‌ अस्ति धनवान्‌ इति | धनवान्‌ कः ? कश्चन पुरुषः | धनवान्‌ इति शब्देन अपि पदार्थत्रयं बोध्यते | किम्‌ इति चेत्‌, प्रथमः पदार्थः धनवान्‌ एव, नाम धनं यस्य/यस्मिन्‌ अस्ति सः | तस्मिन्‌ पुरुषे विशेषणत्वेन यत् अस्ति, सोऽपि पदार्थः बोध्यते; सः पदार्थः कः ? धनम्‌ एव | वृक्षविषये अस्माभिः विशेषणं वृक्षत्वम्‌ इति स्वीकृतम्‌ | अत्र धनवान्‌ यः अस्ति, तस्मिन्‌ विद्यमानः धर्मः कः इत्युक्ते, अन्यत्‌ किमपि अस्माभिः स्वीकरणीयं नास्ति | धनवान्‌ यः अस्ति, तस्मिन्‌ विद्यमानं विशेषणं धनम्‌ एव | धनवति विद्यमानः धर्मः इत्युक्तौ धनम्‌ एव | कथनस्य आशयः एवं यत्‌ धनम्‌ अपि कश्चन 'धर्मः' भवति | तर्हि धनवान्‌ इति शब्देन के त्रयः पदार्थाः बोध्यन्ते इत्युक्ते धनं, धनं यस्मिन्‌ अस्ति तादृशपुरुषः, तयोर्मध्ये विद्यमानः संयोगसम्बन्धः | एते त्रयः अंशाः ज्ञायन्ते |</big>
Line 322 ⟶ 329:
 
<big>Swarup – November 2015</big>
 
- - - - - - -
 
<big><u>परिशिष्टम्‌</u></big>
 
<big>अस्मिन्‌ पाठे अस्माभिः उक्तं यत्‌ पञ्चानां पदार्थानां विशेषणत्वं भवति; अवशिष्टयोः द्वयोः पदार्थयोः का गतिः ? समवायः विशेषश्च, तयोः विशेषणत्वं सम्भवति किम्‌ ? अत्र लघु उत्तरम्‌ अस्ति, आं सम्भवति | किन्तु पृथक्तया उच्यते यतोहि तयोः विशेषणार्थं निकषः इतोऽपि नियमितः |</big>
 
 
<big>प्रथमतया सामान्यनियमः उच्चारणीयः, विशेषणत्वं कुत्र, कस्यां दशायां सम्भवति | विशेषण-विशेष्य-भावः ज्ञानसम्बद्धः; यत्र ज्ञाता अस्ति, कस्यचित्‌ ज्ञानम्‌ अस्ति, तत्र ज्ञानस्य विषयः भवति | यदा किञ्चन वस्तु ज्ञानस्य विषयः भवति, तदा प्रथमनिकषः सम्पूर्णः— इदं वस्तु विशेषणं भवितुम्‌ अर्हति | यत्र ज्ञानं नास्ति, वने उन्नतवृक्षः अस्ति | तस्मिन्‌ वृक्षे औन्नत्यम्‌ इति गुणः वर्तते | यावत्‌ कोऽपि ज्ञाता नास्ति, यावत्‌ औन्नत्य-वृक्षौ ज्ञानस्य विषयः न भवतः, तावत्‌ औन्नत्यसय विशेषणत्वं न सम्भवति | किन्तु तस्मिन्‌ वने ज्ञाता-रूपेण कोऽपि मनुष्यः नास्ति चेदपि गुण-गुणि-सम्बन्धः भवति | अत्र भेदः अस्ति यतोहि विशेषण-विशेष्य-भावः ज्ञानसम्बद्धः, गुण-गुणिनोः सम्बन्धः पदार्थ-सम्बद्धः |</big>
 
 
<big>आधार-आधेय-भावः अपि पदार्थ-सम्बद्धः न तु ज्ञानसम्बद्धः | अतः घटः भूतले अस्ति इति स्थितौ, घटः आधेयः, भूतलम्‌ आधारः | ज्ञानस्य विषयः नास्ति चेदपि, ज्ञाता कोऽपि नास्ति चेदपि, तत्र आधार-आधेय-भावः यतोहि अयं भावः पदार्थसम्बद्धः | अतः आधाराधेयभावः गुणगुणिभावः चेत्यनयोः कृते ज्ञाता नापेक्षितः | किन्तु विशेषणविशेष्यभावः ज्ञानसम्बद्धः अतः तत्र ज्ञाता तत्र नितराम्‌ अपेक्षितः | इति सार्वत्रकनियमः | बालके बालकत्वम्‌ इति जातिः अस्ति | तत्र जातिव्यक्त्योः सम्बन्धः अस्ति एव, किन्तु सा च जातिः तदानीं विशेषणम्‌ इति वदामः यदा तादृशं ज्ञानं कस्यचित्‌ मनसि अस्ति |</big>
 
 
<big>आहत्य बालके औन्नत्यम्‌ इति गुणः, बालकत्वम्‌ इति जातिः, धनम्‌ इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः— एते सर्वे विशेषणं भवन्ति यदा ज्ञानस्य विषयः सन्ति; नो चेत्‌ ना | इति सामान्यनियमः |</big>
 
 
<big>इतः अग्रे, एषु पञ्चसु आधाराधेयभावः अस्त्येव | औन्नत्यं, बालकत्वं, धनं, लेखन-क्रिया, घटाभावः, एते सर्वे आधेयाः, बालकः च तेषाम्‌ आधारः | अतः प्रश्नः उदेति, यत्र यत्र विशेषणविशेष्यभावः तत्र तत्र विशेषणम्‌ आधेयम्‌ इति वा ?</big>
 
 
<big>अत्र उदाहृयते यत् एकस्मिन्‌ प्रकोष्ठे केचन बालकाः सन्ति, तेषु अन्यतमः रामबालकः; स च लेखनीम्‌ इच्छति | रामस्य पुरतः चतस्रः लेखन्यः सन्ति, किन्तु ताः लेखन्यः न इच्छति सः | तस्य मित्रं तं पृच्छति "का लेखनी इष्यते भवता ?” प्रकोष्ठे अन्यबालकः श्यामः लिखति, हस्ते अस्ति लेखनी | रामः वदति "श्यामस्य हस्ते या लेखनी अस्ति, ताम्‌ इच्छामि" | अत्र लेखनी विशेष्या, श्यामः विशेषणं लेखन्याः | किन्तु लेखनी विशेष्या सत्यपि आधेया न तु आधारः | श्यामः विशेषणं सत्यपि आधारः न तु आधेयः | अतः यत्र आधाराधेयभावः अस्ति, तत्र विशेषणम्‌ आधेयम्‌ अपि भवितुम्‌ अर्हति, आधारः अपि भवितुम्‌ अर्हति |</big>
 
 
<big>अग्रे प्रश्नः उदेति, यत्र यत्र विशेषणविशेष्यभावः तत्र तत्र आधाराधेयभावः इति वा ? इत्युक्तौ विशेषणं सदा आधेयम्‌ अथवा आधारः, द्वयोर्मध्ये एकः भवति एव इति वा ? कुत्रचित्‌ यत्र आधाराधेयभावः नास्ति, तत्रापि विशेषणत्वम्‌ अर्हति वा ?</big>
 
 
<big>उत्तरत्वेन चैत्रः इति पुरुषस्य किञ्चित्‌ धनम्‌ अस्ति; किन्तु पार्श्वे नास्ति अपितु वित्तकोशस्य पेटिकायाम्‌ | अत्र धनं पेटिकायां न तु चैत्रस्य सविधे, अतः आधाराधेयभावः नस्ति | किन्तु स्वत्व-स्वामित्व-भावः अस्ति अतः मतुप्‌-प्रत्ययस्य प्रयोगः योग्यः— "चैत्रः धनवान्‌" | विशेषणविशेष्यभावः अस्ति किन्तु आधाराधेयभावः नास्ति यतोहि चैत्रः अत्र, धनम्‌ अन्यत्र | शारीरिकरूपेण यदा धनं पार्श्वे नास्ति, तदा आधाराधेयभावः नास्ति; किन्तु धनं चैत्रस्य तु अस्ति | आधाराधेयभावः धनपेटिकयोः “धनं पेटिकायां,” तदाधारेण कस्यचित्‌ तादृशं ज्ञानम्‌ अस्ति चेत्‌ विशेषणविशेष्यभावः अपि अस्ति | स्वत्व-स्वामित्व-भावः धनचैत्रयोः, अतः तदाधारेण कस्यचित्‌ तादृशं ज्ञानम्‌ अस्ति चेत्‌ विशेषणविशेष्यभावः अपि अस्ति— "चैत्रः धनवान्‌" |</big>
 
 
<big>एतावता सारांशः यत्‌ विशेषणविशेष्यभावार्थं ज्ञानस्य विषयः भवेत्‌; आधाराधेयभावः अस्ति चेत्‌ विशेषणम्‌ आधेयं भवितुम्‌ अर्हति, आधारः भवितुम्‌ अर्हति | किन्तु विशेषणत्वार्थम्‌ आधाराधेयभावस्य आवश्यकता नास्ति; कुत्रचित्‌ विशेषणविशेष्यभावः भवति यत्र आधाराधेयभावः नास्त्येव |</big>
 
 
<big>अधुना समवायसम्बन्धः विशेषणं भवितुम्‌ अर्हति वा, इति प्रश्नः | उदाहरणार्थ‌म् अभावविषये | वायौ रूपं नास्ति | अत्र यदि रूपं वायौ अभविष्यत्‌, तर्हि समवायसम्बन्धेन अभविष्यत्‌ | अतः वायौ रूपं नास्ति समवायसम्बन्धेन | तत्र रूपाभावस्य प्रतियोगिता रूपे | इयं प्रतियोगिता समवायसम्बन्धावच्छिन्ना | समवायसम्बन्धः अस्याः प्रतियोगितायाः अवच्छेदकसम्बन्धः | अतः इयं प्रतियोगिता भिद्यते समवायसम्बन्धेन | कस्याः प्रतियोगितायाः भिद्यते इति चेत्‌—इयं समवायसम्बन्धावच्छिन्ना प्रतियोगिता कस्याः भिन्ना इति चेत्‌— कालिकसम्बन्धेन रूपं वायौ अस्ति, रूपाभावः नास्ति | कालिकसम्बन्धेन वायुः अपि अस्ति, रूपम्‌ अपि अस्ति | अतः यत्र कालिकसम्बन्धः अवच्छेदकः भवति, तत्र रूपाभावः नास्ति | यत्र समवायसम्बन्धस्य अवच्छेदकत्वम्‌ अस्ति, तत्र प्रतियोगिता भिन्ना, इयं च कालिकसम्बन्धावच्छिन्ना प्रतियोगिता भिन्ना |</big>
 
 
<big>अधुना स्मर्यते यत्र घटः भूतले अस्ति, तत्र आधाराधेयभावः अस्ति; कस्यचित्‌ ज्ञानस्य विषयः नास्ति चेदपि आधाराधेयभावः अस्ति यतोहि आधाराधेयभावः पदार्थसम्बद्धः नतु ज्ञानसम्बद्धः | अवच्छेदकावच्छेद्यभावः अपि तथा— ज्ञाता नास्ति चेदपि एतादृशभावः भवति | किन्तु विशेषणत्वं तदा भवति यदा कस्यचित्‌ ज्ञानस्य विषयो भवति | अतः ज्ञाता नास्ति चेत्‌, अवच्छेदकावच्छेद्यभावः अस्ति किन्तु विशेषणविशेष्यभावः नास्ति | केवलं वदामः यत्‌ प्रतियोगिता भिद्यते समवायसम्बन्धस्य अवच्छेदक्त्वेन, तत्‌ तु विशेषणार्थं पर्याप्तं नास्ति | समवायसम्बन्धस्य ज्ञानाभावे अवच्छेदकत्वं भवति किन्तु विशेषणत्वं नास्ति; ज्ञानम्‌ अस्ति चेत्‌, अवच्छेदकत्वम्‌ अपि अस्ति, विशेषणत्वम्‌ अपि अस्ति |</big>
 
 
<big>अग्रे, कुत्रचित्‌ समवायसम्बन्धः अवच्छेदेकः, अन्यत्र संयोगसम्बन्धः अवच्छेदः, तत्र सम्बन्धस्य प्रकारभेदात्‌ भिद्यते | यथा गन्धः समवायसम्बन्धेन पृथिव्याम्‌, अपि च घटः संयोगसम्बन्धेन भूतले | अत्र पृथिवी भिद्यते भूतलात्‌ न केवलं गन्धघटभेदात्‌ अपि तु समवायसम्बन्ध-संयोगसम्बन्धभेदात्‌ | समवायसम्बन्धः अस्ति पृथिव्यां, संयोगसम्बन्धः अस्ति भूतले; समवायसम्बन्धस्य प्रकारभेदात्‌ विशेषणत्वं अस्ति |</big>
 
 
<big>किन्तु अग्रे, गन्धः समवायसम्बन्धेन पृथिव्यां, शैत्यं समवायसम्बन्धेन जले | उभयत्र समवायसम्बन्धः; अपि च तर्कसङ्ग्रहग्रन्थे उच्यते यत्‌ समवायः इति पदार्थः एक एव | एक एव इति चेत्‌, गन्धः शैत्यं च यद्यपि भिन्नं, किन्तु गन्धः च शैत्यं च समानसमवायसम्बन्धेन स्वस्य आधारे युक्तम्‌ | अत्र समस्या व्युत्पन्ना | समवायसम्बन्धः सर्वत्र समानः इति चेत्‌, यत्र द्वे वस्तू समवायसम्बन्धेन युक्ते, कथं वा सम्बन्धभेदात्‌ भिद्येत ? अत्र प्राचीननैयायिकैः उच्यते यत्‌ यथा अकाशः एक एव, तथापि उपाधिभेदात्‌ नाम देशभेदात्‌ भिन्नः (उत्तरस्यां दिशि, दक्षिणस्यां दिशि), तथैव अत्र गन्धयुक्तसमवायः, शैत्ययुक्तसमवायः इत्यनेन भेदः साध्यते | किन्तु अन्ते तावत्‌ सन्तोषजनकं नासीत्‌ इति भाति यतोहि नव्यनैयायिकैः समवायः एक एव इति सिद्धान्तः त्यक्तः |</big>
 
<big>अग्रे विशेषः | विशेषः विशेषणं भवति वा ? भवति आं, किन्तु केवलं परमाणोः, अपि च केवलं ज्ञानसन्दर्भे | को‍पि न जानाति चेत्‌ विशेषणत्वं नास्ति, अपि च परमाणुः इति विषयो नासित चेत्, विशेषस्य प्रसङ्गः नास्ति |</big>
 
 
<big>एतदर्थं सर्वं विचिन्त्य, अस्मिन्‌ करपत्रे बालकस्य दृष्टान्तावसरे, पञ्च विशेषणानि दत्तानि | बालके औन्नत्यम्‌ इति गुणः, बालकत्वम्‌ इति जातिः, धनम्‌ इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम्‌ अस्ति | समवायस्य च विशेषस्य च कुत्रचित्‌ विशेषणत्वं विद्यते; अत्र पृथक्तया प्रतिपादितं यतोहि तयोः विशेषणार्थं निकषः इतोऽपि नियमितः |</big>
 
 
<big>Swarup – November 2015</big>
 
 
<nowiki>---------------------------------</nowiki>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>If any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
teachers
746

edits