10---nyAyashAstram/06---suvarNaM-taijasaM-dravyam: Difference between revisions

added spacing between aduna and asati
(dheyam removed)
(added spacing between aduna and asati)
Line 26:
 
<big>पृथिव्यां कुत्रचित्‌ नैमित्तिकं द्रवत्वं भवति | इत्युक्तौ द्रवत्वस्य हेतुः अस्ति चेत्‌, कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति | यथा घृतम्‌ | अग्निसंयोगे सति, घृतं द्रवः भवति; घृते द्रवत्वम्‌ उत्पद्यते | तस्मिन्‌ घृते पुनः इतोऽपि तेजसंयोगः क्रियते चेत्‌‍, तत्‌ द्रवत्वं नश्यति |</big>
 
 
<big>अधुना पात्रद्वयम्‌ अस्ति | बृहति पात्रे जलं संस्थापितम्‌ | तस्मिन्‌ जले पुनः लघु पात्रं स्थापितं, यस्मिन्‌ घृतम्‌ अस्ति | बृहत्पात्रस्य अधः अग्निः आरब्धः | उष्णसंयोगेन घनं घृतं द्रवः भवति; ततः अग्रे यावत्‌ अग्निसंयोगं करोति, घृते विद्यमानं द्रवत्वं न नश्यति; अग्निघृतयोः मध्ये यत्‌ जलम्‌ अस्ति, तत्‌ जलं घृतद्रवत्वनाशं प्रतिबध्नाति | अतः घृतद्रवत्वनाशं प्रति जलं प्रतिबन्धकम्‌ इत्युच्यते |</big>
 
 
 
teachers
746

edits