10---nyAyashAstram/10---prashnAH-uttarANi-ca/13---adhodeshasanyogajanakaH-vyApAraH-patanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 44:
 
<big>कथं विभागस्य अपि संयोगस्य अपि कर्म कारणम्‌ ? कथम्‌ उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथासिद्धा नास्ति ? इति चेत्‌, आद्यपतनक्रिया कदा नश्यति ? उत्तरदेशसंयोगानन्तरम्‌ एव क्रिया नश्यति | अतः उत्तरदेशसंयोगकार्यनियतपूर्ववृत्तित्वं क्रियायां वर्तते | क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति, उत्तरदेशसंयोगेन नश्यति इति स्वीक्रियते | किमर्थं तावत्‌ कालपर्यन्तं क्रियायाः स्थितिः स्वीक्रियते इति चेत्‌, संयोगं प्रति तस्याः कारणत्वम्‌ अस्ति | नाम यदा उत्तरदेशसंयोगः जायते, तावता आद्यपनतक्रिया न नष्टा | उत्तरदेशसंयोगस्य जन्यत्वम्‌ आवश्यकं, तदर्थमेव तावत्‌ पर्यन्तम्‌ आद्यपनतक्रियया स्थातव्यम्‌ |</big>
 
 
 
 
 
<big>बहुत्र कार्यकारणभावे कार्यात्‌ साक्षत्‌ प्राक्‌ कारणं स्वयं जन्यते | किन्तु कुत्रचित्‌ कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकपदार्थः अधुनापि वर्तते इत्यनेन कारणत्वं स्वीक्रियते | तादृशीषु परिस्थितिषु तस्य अन्यथासिद्धत्वं न कल्प्यते | संयोगासमवायिकारणं कर्म | कर्म संयोगं जनयति | किन्तु कदाचित्‌ कर्म साक्षात्‌ संयोगं न जनयति; कदाचित्‌ कर्म विभागं जनयति, तदा पूर्वसंयोगनाशः, तदा एव उत्तरदेशसंयोगः | उत्तरदेशसंयोगं प्रति असमावायिकारणम्‌ आद्यपनतक्रिया | उत्तरदेशसंयोगं प्रति पूर्वसंयोगनाशः अपि कारणम्‌ | यावत्‌ पूर्वसंयोगः न नश्यति, तावत्‌ उत्तरदेशसंयोगः नोत्पद्यते | पूर्वसंयोगः उत्तरदेशसंयोगं प्रतिबन्धकः; प्रतिबन्धकाभावः कार्यं प्रति कारणम्‌ | उत्तरदेशसंयोगं प्रति आद्यपनतक्रिया असमावायिकारणं; पूर्वसंयोगनाशः च निमित्तकारणम्‌ |</big>
page_and_link_managers, Administrators
5,094

edits