13 - अधोदेशसंयोगजनकः व्यापारः पतनम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/10---prashnAH-uttarANi-ca/13---adhodeshasanyogajanakaH-vyApAraH-patanam
Jump to navigation Jump to search


ध्वनिमुद्रणम्‌ -

१) adhodesha-sanyogajanakaH-vyApAraH-patanam_2017-12-23


अधोदेशसंयोगजनकः व्यापारः पतनम्‌


प्रश्नः— 'अधोदेशसंयोगजनकः व्यापारः पतनम्‌' इत्यस्मिन्‌ कथने 'व्यापारः' नाम कः ?



उत्तरं— पतनप्रक्रियायां कश्चन क्रमो भवति |



पूर्वदेशसंयोगः (यथा वृक्ष-फलयोः) → आद्यपतनक्रिया → विभागः → पूर्वसंयोगनाशः → उत्तरदेशसंयोगः → प्रथमक्रियानाशः → द्वितीयपतनक्रिया

अस्मिन्‌ प्रसङ्गे 'अधोदेशसंयोगजनकः व्यापारः पतनम्‌' इति उक्तम्‌ | अत्र व्यापारः इत्युक्ते क्रिया एव | क्रियायाः लक्षणं— संयोगासमवायिकारणं कर्म |


तदर्थम्‌ अत्र उक्तं यत्‌ क्षिप्तकन्दुकस्य अधोदेशेन सह यः संयोगः जायते, तस्य जनिका पतनक्रिया | यया क्रियया अधोदेशेन सह संयोगः उत्पद्यते सा संयोगजनिका | जनकत्वेन कारणत्वस्य इङ्गितम्‌ |


उपरितन-प्रक्रियां सम्यक्तया वीक्षताम्‌ | अत्र बोध्यं यत्‌ आद्यपतनक्रिया विभागात् साक्षात्‌ पूर्वं, तस्य कारणं च | सत्यं, विभागं प्रति आद्यपतनक्रिया कारणम्‌ | किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात्‌ साक्षात्‌ पूर्वं नास्ति किल | कारणपरिष्कारविषये अस्माभिरधीतं यत्‌ किञ्चन कस्यचित्‌ कारणमिति निर्धारयितुं तेन कार्याधिकराणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम्‌ | कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं भवेत्‌ |



अतः उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया कारणं न स्यात्‌ | यया रीत्या कुलालस्य पिता घटं प्रति अन्यथासिद्धः, तया एव रीत्या उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथासिद्धा स्यात्‌ यतोहि साक्षात्‌ पूर्वं इयं क्रिया न घटिता | परन्तु तथा नास्ति | यथोक्तं, क्रियायाः लक्षणं— संयोगासमवायिकारणं कर्म | विभागं प्रति संयोगं प्रति च क्रियायाः असाधारणकारणत्वं स्वीकृतम्‌ अस्ति |



कथं विभागस्य अपि संयोगस्य अपि कर्म कारणम्‌ ? कथम्‌ उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथासिद्धा नास्ति ? इति चेत्‌, आद्यपतनक्रिया कदा नश्यति ? उत्तरदेशसंयोगानन्तरम्‌ एव क्रिया नश्यति | अतः उत्तरदेशसंयोगकार्यनियतपूर्ववृत्तित्वं क्रियायां वर्तते | क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति, उत्तरदेशसंयोगेन नश्यति इति स्वीक्रियते | किमर्थं तावत्‌ कालपर्यन्तं क्रियायाः स्थितिः स्वीक्रियते इति चेत्‌, संयोगं प्रति तस्याः कारणत्वम्‌ अस्ति | नाम यदा उत्तरदेशसंयोगः जायते, तावता आद्यपनतक्रिया न नष्टा | उत्तरदेशसंयोगस्य जन्यत्वम्‌ आवश्यकं, तदर्थमेव तावत्‌ पर्यन्तम्‌ आद्यपनतक्रियया स्थातव्यम्‌ |



बहुत्र कार्यकारणभावे कार्यात्‌ साक्षत्‌ प्राक्‌ कारणं स्वयं जन्यते | किन्तु कुत्रचित्‌ कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकपदार्थः अधुनापि वर्तते इत्यनेन कारणत्वं स्वीक्रियते | तादृशीषु परिस्थितिषु तस्य अन्यथासिद्धत्वं न कल्प्यते | संयोगासमवायिकारणं कर्म | कर्म संयोगं जनयति | किन्तु कदाचित्‌ कर्म साक्षात्‌ संयोगं न जनयति; कदाचित्‌ कर्म विभागं जनयति, तदा पूर्वसंयोगनाशः, तदा एव उत्तरदेशसंयोगः | उत्तरदेशसंयोगं प्रति असमावायिकारणम्‌ आद्यपनतक्रिया | उत्तरदेशसंयोगं प्रति पूर्वसंयोगनाशः अपि कारणम्‌ | यावत्‌ पूर्वसंयोगः न नश्यति, तावत्‌ उत्तरदेशसंयोगः नोत्पद्यते | पूर्वसंयोगः उत्तरदेशसंयोगं प्रतिबन्धकः; प्रतिबन्धकाभावः कार्यं प्रति कारणम्‌ | उत्तरदेशसंयोगं प्रति आद्यपनतक्रिया असमावायिकारणं; पूर्वसंयोगनाशः च निमित्तकारणम्‌ |


क्रिया विभागं जनयति; विभागेन क्रिया न जन्यते | किमर्थम्‌ इति चेत्‌, उत्तरदेशसंयोगेन पूर्वविभागो नश्यति | द्वितीयपतनक्रियोत्पत्तिपूर्वक्षणे विभागस्य अवस्थानं न भवति | अतः द्वितीयपतनक्रियां प्रति विभागः कारणं न भवितुम्‌ अर्हति; विभागः कामपि क्रियां प्रति कारणं न भवति | संयोगनाशः चिरं तिष्ठति, परन्तु विभागः चिरं न तिष्ठति | 'विभक्तम्‌' इति प्रतीतिः विद्यते कतिपयक्षणपर्यन्तम्‌ एव; उत्तरदेशसंयोगेन पूर्वविभागो नश्यति |*


द्वितीयपतनक्रियां प्रति प्रथमक्रिया प्रतिबन्धिका | यावत्‌ प्रथमक्रिया न नश्यति, तावत्‌ द्वितीयपतनक्रिया न जायते | प्रतिबन्धकाभावः कार्यंं प्रति कारणम्‌ अतः प्रथमक्रियाभावः द्वितीयपतनक्रियां प्रति कारणम्‌ |


File:13 - अधोदेशसंयोगजनकः व्यापारः पतनम्‌.pdf

Swarup – December 2017


*अत्र किन्तु न्यायशास्त्रे कश्चन मतभेदोऽपि वर्तते | केचन वदन्ति यत्‌ विभागः तदाश्रयद्रव्यस्थितिकालं यावत् तिष्ठति | आश्रयनाशात् नश्यति इति मन्तव्यम् इति तैरुच्यते | उत्तरसंयोगानन्तरमपि इमौ विभक्तौ इति प्रतीतिः भवत्येव अतः उत्तरसंयोगः विभागस्य नाशकः इति वक्तुं न शक्यते | युक्त्या विचारः क्रियते चेत् विभागस्य उत्तरसंयोगेन नाशः इति कल्पने काठिन्यमेव प्रतिभाति | तथा सति इमौ विभक्तौ इति प्रतीत्यनापत्तिः | गुणस्य नाशः द्विधा भवति | विरोधिगुणेन आश्रयनाशाद्वा | विरोधिगुणस्यानाशकत्वे आश्रयनाशनाश्यत्वं स्वतः भवत्येव |